SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक - 8 इत्यनेकविधविश्वविरागं चिन्तयन् मनसि तत्र दिनेऽसौ । ॥२६४॥ ४ १२ पूजनादि च जिनस्य विधाय सौख्यतो निशि नृपः स्वपिति स्म ॥ १२२॥ कोमले नरपतिः शयनीये सोऽनुभूय शयनोद्भवसौख्यम् । उत्थितो रजनितुर्यविभागे चिन्तितैरजनि संयुत एवम् ॥ १२३ ॥ ( अपुत्रो राजा गजमेव राज्येऽभिषिञ्चति -- ) नैव देववशतोऽस्ति सुतो मे मां च मज्जयति वार्धकवार्धिः । गोत्रिणोऽप्यजयिनो निखिलास्ते राज्यमर्हति न जन्तुरनहैः ॥ १२४॥ यतः - भूपतावसुकृताश्रितचित्ते मन्त्रितामनयिनि श्रुतहीने । यस्तपस्विगुरुतामनृताचे स्थापयेत् स लभते तुलदुःखम् ॥ १२५ ॥ यद्गुणो भवति राज्यधरोऽयं तद्गुणं विमलराज्यमपि स्यात् । यत्र तु स्फुटभिः स्फटिकः स्यात् तन्निभः किमु विभां न विभर्ति ॥ १२६ ॥ धर्मनिर्मलविभं नररत्नं रत्नसूकुलवधूमुकुटेऽस्मिन् । स्वे पदे ममय विधाय सत्कलाद इति कीर्तियुतः स्याम् ॥ १२७ ॥ आः स तिष्ठति गजोऽङ्गजवद् मे राज्यमेतदथ तत्र निधाय । स्वं भवं विमलयामि तमग्यं दीक्षया विमलयाऽमित पुण्यात् ॥१२८॥ चेतसीति सरसे स रसेशो निश्चिकाय शुचिकाय-मनस्कः । १ रत्नसू. - पृथ्वी २ रसाया- भूमेः ईशः । Jain Educationemational For Private & Personal Use Only चरित्रम् सगः-७ ॥२६४॥ www.pelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy