________________
पुण्डरीक
॥२६५॥
सर्गः-७
४
0000000000000000000000000000000000000000000000
तावदेष तरणिनिजपादैः प्रेर्य रात्रिमुदियाय दिनाय ॥१२९॥ ( दीक्षा प्राप्तो राजा-)प्रातरेव नृपतिर्महसेनस्तं गज प्रमुदितं निजराज्ये ।
उत्सवेन स निधाय जिनोक्तं मुक्तिमार्गपथिकत्वमवाप ॥१३०॥ (मृता कीर्तिमती प्रेष्ठिनी ) सर्वदैव दृढदैव विभावं संविभाव्य भवमस्थिरभावम् ।
श्रेष्ठिनी च किल कीतिमती सा मुक्तिमाप तपसा गतपापा ॥१३॥ ( राज्य पालयति गजः- ) नीतिनिर्मलमना गजभूपो नित्यनूतनविवेचनपूतः।
प्राज्यपुण्यविधिपुण्यतरं तद् राज्यमेष परिपालयति स्म ॥१३२॥ (प्रीष्मे गजस्य जलकेलि:-) अन्यदा स तपतुदिनेषु तापनोत्तपनत.पितगात्रः ।
केलिपल्वलगतो जलकेलिं कामिनीजनयतो विततान ॥१३३॥ निर्मले सरसि कोकिलयुग्मं कौतुके स रसिको नरनाथः ।
पश्यति स्म च पुरः प्रियमित्रां स्वनियां प्रमुदितो निजगाद ॥१३४॥ वक्षसि स्थितवतोः कुचयोस्ते दृक्पुरःसुदृढयोरपि लक्ष्मीम् ।
___ हाऽपहृत्य वलितं स्वकराभ्यां धारयामि वद कोकिलयुग्मम् ॥१३॥ (विभक्तं कृतं कोकिलयुग्मं गजेन-) इत्युदीर्य जलमज्जननेत्राऽलक्ष्य एष नृपतिः प्लवदक्षः।
चक्रवाकयुगलं करयुग्मे सोऽग्रहीत् कमलकोमलमध्ये ॥१३६ प्लबमाननेत्रः।
00000000000000000oooooooooooooooooo00000000000000
॥२६५५
Jain Educatie
tamational
For Private & Personal use only
wwwgelibrary.org