Book Title: Paniniya Ashtadhyayi Pravachanam Part 06
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४५६
अष्टमाध्यायस्य प्रथमः पादः सर्वानुदात्तविकल्पः
(३०) जात्वपूर्वम्।४७। प०वि०-जातु अव्ययपदम्, अपूर्वम् १।१। स०-अविद्यमानं पूर्वं यस्मात् तद्-अपूर्वम् (बहुव्रीहि:)।
अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादौ, तिङ्, न, निपातै:, युक्तमिति चानुवर्तते।
अन्वयः-अपादादौ पदाद् अविद्यमानपूर्वं जातु निपातेन युक्तं तिङ् पदं सर्वमनुदात्तं न।
अर्थ:-अपादादौ वर्तमानं पदात् परमऽविद्यमानपूर्वेण जातु इत्यनेन निपातेन युक्तं तिङन्तं पदं सर्वमनुदात्तं न भवति।
उदा०-जातु भोक्ष्यसे। जातु करिष्यामि।
आर्यभाषा: अर्थ-(अपादादौ) ऋचा आदि के पाद के आदि में अविद्यमान (पदात्) पद से परवर्ती (अपूर्वम्) अविद्यमानपूर्वी (जातु) जातु इस (निपातेन) निपात-संज्ञक शब्द से (युक्तम्) संयुक्त (तिङ्) तिङन्त (पदम्) पद (सर्वमनुदात्तम्) सर्वानुदात्त (न) नहीं होता है।
उदा०-जातु भोक्ष्यसे। तू कब भोजन करेगा। जातु करिष्यामि। मैं कब करूंगा।
सिद्धि-जातु भोक्ष्यसे। यहां ऋचा आदि के पाद के आदि में अविद्यमान, जातु पद से परवर्ती तथा अपूर्वी जातु निपात से संयुक्त तिङन्त 'भोक्ष्यसे' पद को इस सूत्र से सर्वानुदात्त का प्रतिषेध होता है। ऐसे ही-जातु करिष्यामि। सर्वानुदात्तविकल्प:
(३१) किंवृत्तं च चिदुत्तरम् ।४८। प०वि०-किंवृत्तम् १।१ च अव्ययपदम्, चिदुत्तरम् १।१ । स०-किमो वृत्तमिति किंवृत्तम् (षष्ठीतत्पुरुष:)।
वृत्तमित्यत्र ‘क्तोऽधिकरणे च धौव्यगतिप्रत्यवसानार्थेभ्य:' (३।४।७६) इति ध्रौव्यलक्षणोऽधिकरणे क्त: प्रत्यय:, तेन ‘अधिकरणवाचिनश्च' (२।३।६८) इत्यनेन 'किम:' इत्यत्र षष्ठी ‘अधिकरणवाचिना च' (२।२।१३) इत्यनेन समासप्रतिषेधे प्राप्तेऽस्मादेव निपातनात् समासो वेदितव्यः।
चिद् उत्तरं यस्मात् तत्-चिदुत्तरम् (बहुव्रीहिः) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org