Book Title: Paniniya Ashtadhyayi Pravachanam Part 06
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text ________________
७४१
अष्टमाध्यायस्य चतुर्थः पादः
४१ {आदेशप्रकरणम् शकारचवर्गौ
(१) स्तोः श्चुना श्चुः ।३६ | प०वि०-स्तो: ६ १ श्चुना ३।१ श्चुः १।१ ।
6०-सश्च तुश्च एतयो: समाहार: स्तुः, तस्य-स्तो: (समाहारद्वन्द्वः) । शश्च चुश्च एतयो: समाहार: श्चुः, तेन-श्चुना (समाहारद्वन्द्वः) । शश्च चुश्च एतयो: समाहार: श्चुः (समाहारद्वन्द्वः)।
अनु०-संहितायामित्यनुवर्तते।। अन्वय:-संहितायां स्तो: श्चुना श्चुः ।
अर्थ:-संहितायां विषये सकारतवर्गयो: स्थाने, शकारचवर्गाभ्यां सह योगे सति, शकारचवर्गावादेशौ भवत: ।
‘स्तो: श्चुना' इत्यत्र यथासंख्यं योगो नेष्यते। सकारस्य शकारेण चवर्गेण च सह योगे सति शकारादेशो भवति। तवर्गस्यापि शकारेण चवर्गेण च सह योगे सति चवगदिशो भवति । आदेशे तु यथासंख्यं विधिरिष्यते-सकारस्य शकारः, तवर्गस्य च चवर्ग आदेशो भवति ।
उदा०-(१) सकारस्य शकारेण सह योगे-रामश्शेते, देवश्शेते।
(२) सकारस्य चवर्गेण-रामश्चिनोति, देवश्चिनोति । रामश्छादयति, देवश्छादयति।
(३) तवर्गस्य शकारेण-अग्निचिच्छेते, सोमसुच्छेते।
(४) तवर्गस्य चवर्गेण-अग्निचिच्चिनोति, सोमसुच्चिनोति । अग्निचिच्छादयति, सोमसुच्छादयति। अग्निचिज्जयति, सोमसुज्जयति। अग्निचिज्झटिति, सोमसुज्झटिति। अग्निचिञमङणनम्। सोमसुञमङगणनम्।
(५) मस्जे:-मज्जति। भ्रस्जे:-भृज्जति । व्रश्चे:-वृश्चति । यजे:यज्ञ: । याचे:-याच्ञा।
आर्यभाषा: अर्थ- (संहितायाम्) सन्धि-विषय में (स्तो:) सकार और तवर्ग के स्थान में (श्चुना) शकार और चवर्ग के साथ योग होने पर (श्चुः) शकार और चवर्ग आदेश होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802