SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ ७४१ अष्टमाध्यायस्य चतुर्थः पादः ४१ {आदेशप्रकरणम् शकारचवर्गौ (१) स्तोः श्चुना श्चुः ।३६ | प०वि०-स्तो: ६ १ श्चुना ३।१ श्चुः १।१ । 6०-सश्च तुश्च एतयो: समाहार: स्तुः, तस्य-स्तो: (समाहारद्वन्द्वः) । शश्च चुश्च एतयो: समाहार: श्चुः, तेन-श्चुना (समाहारद्वन्द्वः) । शश्च चुश्च एतयो: समाहार: श्चुः (समाहारद्वन्द्वः)। अनु०-संहितायामित्यनुवर्तते।। अन्वय:-संहितायां स्तो: श्चुना श्चुः । अर्थ:-संहितायां विषये सकारतवर्गयो: स्थाने, शकारचवर्गाभ्यां सह योगे सति, शकारचवर्गावादेशौ भवत: । ‘स्तो: श्चुना' इत्यत्र यथासंख्यं योगो नेष्यते। सकारस्य शकारेण चवर्गेण च सह योगे सति शकारादेशो भवति। तवर्गस्यापि शकारेण चवर्गेण च सह योगे सति चवगदिशो भवति । आदेशे तु यथासंख्यं विधिरिष्यते-सकारस्य शकारः, तवर्गस्य च चवर्ग आदेशो भवति । उदा०-(१) सकारस्य शकारेण सह योगे-रामश्शेते, देवश्शेते। (२) सकारस्य चवर्गेण-रामश्चिनोति, देवश्चिनोति । रामश्छादयति, देवश्छादयति। (३) तवर्गस्य शकारेण-अग्निचिच्छेते, सोमसुच्छेते। (४) तवर्गस्य चवर्गेण-अग्निचिच्चिनोति, सोमसुच्चिनोति । अग्निचिच्छादयति, सोमसुच्छादयति। अग्निचिज्जयति, सोमसुज्जयति। अग्निचिज्झटिति, सोमसुज्झटिति। अग्निचिञमङणनम्। सोमसुञमङगणनम्। (५) मस्जे:-मज्जति। भ्रस्जे:-भृज्जति । व्रश्चे:-वृश्चति । यजे:यज्ञ: । याचे:-याच्ञा। आर्यभाषा: अर्थ- (संहितायाम्) सन्धि-विषय में (स्तो:) सकार और तवर्ग के स्थान में (श्चुना) शकार और चवर्ग के साथ योग होने पर (श्चुः) शकार और चवर्ग आदेश होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy