Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 48
________________ ज्ञानस्य भेदा अवधिज्ञानं तद्भेदप्रभेदाच ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । से तं इंदियपचक्खं । ११. से किं तमित्यादि । अथ किं तदिन्द्रियप्रत्यक्षम् ?, इन्द्रियप्रत्यक्षं पञ्चविधं प्रज्ञप्तम् । तद्यथा-श्रोत्रेन्द्रियप्रत्यक्षमित्यादि । श्रोत्रेन्द्रियस्य श्रोत्रेन्द्रियप्रधानं वा प्रत्यक्षं श्रोत्रेन्द्रियप्रत्यक्षम् , श्रोत्रेन्द्रियनिमित्तमित्यर्थः । एवं शेषेष्वपि वक्तव्यम् । एतच्चोपचारतः प्रत्यक्षम् , न परमार्थतः। कथं ज्ञायते ? इति चेत् , सूत्रपामाण्यात् । वक्ष्यति च-“परोक्खं दुविहं पन्नत्तं, तंजहा-आभिणिबोहियणाणपरोक्वं च सुयणाणपरोक्खं च" [सुत्तं ४३]। 5 न च मति श्रुताभ्यामिन्द्रिय-मनोनिमित्तमन्यदस्ति यत् प्रत्यक्षमञ्जसा भवेत् , भावे च षष्ठज्ञानप्रसङ्गाद् विरोध इति, तस्मात् परोक्षमेवेदं तत्वत इति । आहइह लोके 'लिङ्गजं परोक्षम्' इति प्रतीतमिति, उच्यते, इह यदिन्द्रिय-मनोभिर्वाह्यलिङ्गप्रत्ययमुत्पद्यते तदेकान्तेनैवेन्द्रियाणामात्मनश्च परोक्षम् , परनिमित्तत्वात्, धूमादग्निज्ञानवदिति, अतः परोक्षमिति प्रतीतिः। यत् पुनः साक्षादिन्द्रिय-मनोनिमित्तं तत् तेषामेव प्रत्यक्षम् , अलिङ्गत्वात् , आत्मनोऽवध्यादिवत्, न त्वात्मनः, 10 आत्मनस्तु तत् परोक्षमेव, परनिमित्तत्वात् , लैङ्गिकवत् । इन्द्रियाणामपि तदुपचारतः प्रत्यक्षम् , न परमार्थतः, कथम् ?, अचेतनत्वादिति, अत्र बहु वक्तव्यं तच्चान्यत्र वक्ष्यामः, मा भूत् प्रथमग्रन्थ एव प्रतिपत्तिगौरवमित्यलं विस्तरेण । आह-स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणीन्द्रियाणीति क्रमः, अयमेव च ज्यायान्, पूर्वपूर्वलाभ एवोत्तरोत्तरलाभात् , अतः किमर्थमुत्क्रमः ?, उच्यते, पश्चानुपूर्व्यादिन्यायज्ञापनार्थ स्पष्टसंवेदनद्वारेण सुखप्रतिपत्त्यर्थ चेति । 15 इह मनोज्ञानमपीन्द्रियज्ञानतुल्ययोग-क्षेममेव द्रष्टव्यम् , तथा चाभिनियोधिकज्ञानप्ररूपणायां प्रवक्ष्यत इति । “से तं इंदियपच्चक्खं" तदेतदिन्द्रियप्रत्यक्षम् ॥ १२. से किं तं णोइंदियपञ्चक्खं ? णोइंदियपञ्चक्खं तिविहं पण्णत्तं, तं जहा-ओहिणाणपञ्चक्खं १ मणपज्जवणाणपञ्चक्खं २ केवलणाणपञ्चक्खं ३ । १२. से किं तं णोइंदियपच्चक्खं ? इत्यादि । अथ किं तद् नोइन्द्रियप्रत्यक्षम् ? । नोइन्द्रियप्रत्यक्षं त्रिविधं 20 प्रज्ञप्तम् , तद्यथा-अवधिज्ञानप्रत्यक्षमित्यादि ।। १३. से किं तं ओहिणाणपञ्चक्खं ? ओहिणाणपञ्चक्खं दुविहं पण्णतं, तं जहाभवपञ्चतियं च खयोवसमियं च । दोन्हं भवपचतियं, तं जहा-देवाणं च णेरतियाणं च । दोन्हं खयोवसमियं, तं जहा-मणुस्साणं च पंचेंदियतिरिक्खजोणियाणं च । १३. से किं तं इत्यादि सूत्रम् । अथ किं तदवधिज्ञानप्रत्यक्षम् ?, अअधिज्ञानप्रत्यक्षं द्विविधं प्रज्ञप्तम् । तद्यथा- 25 भवप्रत्ययं च १ क्षायोपशमिकं च २। तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः, नारकादिजन्मेति भावः, भव एव प्रत्ययः-कारणं यस्य तद् भवप्रत्ययम् १ । 'चः' पूर्ववत् । तथा क्षयश्चोपशमश्च क्षयोपशमौ, ताभ्यां निर्वृत्तं क्षायोपशमिकम् २ । तत्र यद् येषां भवति तत् तेषामुपदर्शयन्नाह दोण्हमित्यादि । 'द्वयोः' जीवसमूहयोः भवप्रत्ययम् । तद्यथा-देवानां नारकाणां च । तत्र दीव्यन्तीति देवाः, निरुपमक्रीडामनुभवन्तीत्यर्थः, तेषाम् । तथा नरान् कायन्तीति नरकाः, योग्यतया शब्दयन्तीत्यर्थः, तेषु 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248