Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 174
________________ श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् । १४७ इत्यादि, ‘ननु' इति अक्षमायां परामन्त्रणे वा, ननु 'शब्दोऽयम्, नाशब्दः' इति 'विशेषोऽयं' विशेषप्रतिभास एवायमित्यर्थः, कथं पुनः ‘नाशब्दः' इति निश्चीयते ? इत्याह-न च रूपादिरिति, चशब्दो हिशब्दार्थे, आदिशब्दाद् गन्ध-रस - स्पर्शपरिग्रहः । ततश्चेदमुक्तं भवति यस्मान्न रूपादिरयम्, तेभ्यो व्यावृत्तत्वेन गृहीतत्वात्, अतो 'नाशब्दोऽयम्' इति निश्चीयते, यदि तु रूपादिभ्योऽपि व्यावृत्तिर्गृहीता न स्यात् तदा 'शब्दोऽयम्' इति निश्चयोऽपि न स्यादिति भावः । तस्मात् 'शब्दोऽयम्, नाशब्दः' इति विशेषप्रतिभास एवायम् । तथा च सति अस्याप्यपायप्रसङ्गतोऽवग्रहाभावप्रसङ्ग इति स्थितमिति गाथार्थः ॥ ३ ॥ अथ परोऽवग्रहाऽपाययोर्विषयविभागं दर्शयन्नाह- पं. ३१. थेवमियं नावाओ, संखाइविसेसणं अवाओ त्ति । भेयाक्खाए नणु थोवमियं पि नावाओ ॥ ४ ॥ ‘इदं' शब्दबुद्धिमात्रकं शब्दमात्रस्तोकविशेषावसायित्वात् 'स्तोकं' स्तोकविशेषग्राहकम्, अतोऽपायो न भवति, किन्त्ववग्रह एवायमिति भावः । कः पुनस्तर्ह्यपायः ? इत्याह - "संखाई”त्यादि, 'शाङ्खोऽयं शब्दः' इत्यादिविशेषणविशिष्टं यद् ज्ञानं तदपायः, 10 बृहद्विशेषावसायित्वादिति हृदयम् । हन्त यदि यद् यत् स्तोकं तत् तद् नापायस्तर्हि निवृत्ता साम्प्रतमपायज्ञानकथा, उत्तरोत्तरार्थविशेषग्रहणापेक्षया पूर्वपूर्वार्थविशेषाध्यवसायस्य स्तोकत्वात् । एतदेवाह - " तन्भेये "त्यादि तस्य - शाङ्खशब्दस्य ये उत्तरोत्तरभेदा मन्द्र- मधुरत्वादयः तरुण-मध्यम-वृद्ध स्त्री-पुरुषसमुद्भवत्वादयश्च तदपेक्षया तदपेक्षायां सत्यामिदमपि 'शाङ्खोऽयं शब्द:' इति ज्ञानं ननु 'स्तोकं' स्तोकविशेषग्राहकमेवेति नापायः स्यात् । एवमुत्तरोत्तरविशेषग्राहिणामपि ज्ञानानां तदुत्तरोत्तरभेदापेक्षया स्तोकत्वादपायत्वाभावो भावनीय इति गाथार्थः ॥ ४ ॥ तदेवं “ से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेजे" त्यादिसूत्रानुरोधेन शब्दमाश्रित्यावग्रहादयो भाविताः । [ पृष्ठ ५५ ] पं. ७. अथ सूत्रकारेणैव यदुक्तम् - "एवं एएणं अभिलावेणं अव्वत्तं रूवं रसं गंधं फास" मित्यादि तच्चेतसि निधाय भाष्यकारोऽप्यतिदेशमाह - Jain Education International सेसेसु विरुवा विसएसुं हुंति सूवलक्खाई । पायं पच्चासन्नत्तणेणमीहाइवत्थूणि ॥ १ ॥ 5 For Private Personal Use Only 15 यथा शब्द एवं शेषेष्वपि रूपादिषु विषयेषु साक्षादनुक्तान्यपि 'सूपलक्ष्याणि' कथितानुसारप्रसरत्प्रज्ञानां चतुरचेतसां सुज्ञेयानि भवन्ति । कानि ? इत्याह - ईहादीन्याभिनिबोधिकज्ञानस्य भेदवस्तूनि । केन सूपलक्ष्याणि ? इत्याह- प्रायः प्रत्यासन्नत्वेन चक्षुरादिना गृह्यमाणस्य स्थाण्वादेस्तत्रागृह्यमाणेन पुरुषादिना सह प्रायो बहुभिर्धर्मैर्यत् प्रत्यासन्नत्वं - या प्रत्यासत्तिः सादृश्यमिति यावत्, तेनेहादीनि ज्ञेयानि, न पुनरत्यन्तवैलक्षण्यस्थाण्वादेरुष्ट्रादिना सहेत्यर्थः । इदमुक्तं भवति - अवग्रहे तावत् सामा- 25 न्यमात्रग्राहकत्वाद् द्वितीयवस्त्वपेक्षाऽपि न विद्यते, ईहा पुनरुभयवस्त्ववलम्बिनी, तत्र पुरोदृश्यमानस्य वस्तुनो यत् प्रतिपक्षभूतं वस्तु तत् प्रायो बहुभिर्धर्मैः प्रत्यासन्नं ग्राह्यम्, न पुनरत्यन्तविलक्षणम् ; पुरतो हि मन्दमन्दप्रकाशे दूराद् दृश्यमाने स्थाण्वादौ ' किमयं स्थाणुः ? पुरुषो वा ?' इत्येवमेवेहा प्रवर्त्तते, ऊर्ध्वस्थाना-ऽऽरोह - परिणाहतुल्यतादिभिः प्रायो बहुभिर्धर्मैः पुरुषस्य स्थाणु प्रत्यासन्नत्वादिति, 'किमयं स्थाणुः ? उष्ट्रो वा ?' इत्येवं तु न प्रवर्त्तते, उष्ट्रस्य स्थाण्वपेक्षया प्रायोऽत्यन्तविलक्षणत्वात् । अत एव सामान्यमात्रग्राही अवग्रहोत्रादौ न कृतः, किन्तु 'ईहादीनि' इत्येवमेवोक्तम् उभयवस्त्ववलम्बित्वेनेहाया एव “पायं पच्चासन्नत्तणेणे"- 30 ति विशेषणस्य सफलत्वात् । अपायस्यापि 'स्थाणुरेवायम्, न पुरुषः' इत्यादिरूपेण प्रवृत्तेः किञ्चिद् विशेषणस्य सफलत्वादादि 20 www.jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248