________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१४७
इत्यादि, ‘ननु' इति अक्षमायां परामन्त्रणे वा, ननु 'शब्दोऽयम्, नाशब्दः' इति 'विशेषोऽयं' विशेषप्रतिभास एवायमित्यर्थः, कथं पुनः ‘नाशब्दः' इति निश्चीयते ? इत्याह-न च रूपादिरिति, चशब्दो हिशब्दार्थे, आदिशब्दाद् गन्ध-रस - स्पर्शपरिग्रहः । ततश्चेदमुक्तं भवति यस्मान्न रूपादिरयम्, तेभ्यो व्यावृत्तत्वेन गृहीतत्वात्, अतो 'नाशब्दोऽयम्' इति निश्चीयते, यदि तु रूपादिभ्योऽपि व्यावृत्तिर्गृहीता न स्यात् तदा 'शब्दोऽयम्' इति निश्चयोऽपि न स्यादिति भावः । तस्मात् 'शब्दोऽयम्, नाशब्दः' इति विशेषप्रतिभास एवायम् । तथा च सति अस्याप्यपायप्रसङ्गतोऽवग्रहाभावप्रसङ्ग इति स्थितमिति गाथार्थः ॥ ३ ॥
अथ परोऽवग्रहाऽपाययोर्विषयविभागं दर्शयन्नाह-
पं. ३१.
थेवमियं नावाओ, संखाइविसेसणं अवाओ त्ति । भेयाक्खाए नणु थोवमियं पि नावाओ ॥ ४ ॥
‘इदं' शब्दबुद्धिमात्रकं शब्दमात्रस्तोकविशेषावसायित्वात् 'स्तोकं' स्तोकविशेषग्राहकम्, अतोऽपायो न भवति, किन्त्ववग्रह एवायमिति भावः । कः पुनस्तर्ह्यपायः ? इत्याह - "संखाई”त्यादि, 'शाङ्खोऽयं शब्दः' इत्यादिविशेषणविशिष्टं यद् ज्ञानं तदपायः, 10 बृहद्विशेषावसायित्वादिति हृदयम् । हन्त यदि यद् यत् स्तोकं तत् तद् नापायस्तर्हि निवृत्ता साम्प्रतमपायज्ञानकथा, उत्तरोत्तरार्थविशेषग्रहणापेक्षया पूर्वपूर्वार्थविशेषाध्यवसायस्य स्तोकत्वात् । एतदेवाह - " तन्भेये "त्यादि तस्य - शाङ्खशब्दस्य ये उत्तरोत्तरभेदा मन्द्र- मधुरत्वादयः तरुण-मध्यम-वृद्ध स्त्री-पुरुषसमुद्भवत्वादयश्च तदपेक्षया तदपेक्षायां सत्यामिदमपि 'शाङ्खोऽयं शब्द:' इति ज्ञानं ननु 'स्तोकं' स्तोकविशेषग्राहकमेवेति नापायः स्यात् । एवमुत्तरोत्तरविशेषग्राहिणामपि ज्ञानानां तदुत्तरोत्तरभेदापेक्षया स्तोकत्वादपायत्वाभावो भावनीय इति गाथार्थः ॥ ४ ॥
तदेवं “ से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेजे" त्यादिसूत्रानुरोधेन शब्दमाश्रित्यावग्रहादयो भाविताः ।
[ पृष्ठ ५५ ]
पं. ७. अथ सूत्रकारेणैव यदुक्तम् - "एवं एएणं अभिलावेणं अव्वत्तं रूवं रसं गंधं फास" मित्यादि तच्चेतसि निधाय भाष्यकारोऽप्यतिदेशमाह -
Jain Education International
सेसेसु विरुवा विसएसुं हुंति सूवलक्खाई । पायं पच्चासन्नत्तणेणमीहाइवत्थूणि ॥ १ ॥
5
For Private Personal Use Only
15
यथा शब्द एवं शेषेष्वपि रूपादिषु विषयेषु साक्षादनुक्तान्यपि 'सूपलक्ष्याणि' कथितानुसारप्रसरत्प्रज्ञानां चतुरचेतसां सुज्ञेयानि भवन्ति । कानि ? इत्याह - ईहादीन्याभिनिबोधिकज्ञानस्य भेदवस्तूनि । केन सूपलक्ष्याणि ? इत्याह- प्रायः प्रत्यासन्नत्वेन चक्षुरादिना गृह्यमाणस्य स्थाण्वादेस्तत्रागृह्यमाणेन पुरुषादिना सह प्रायो बहुभिर्धर्मैर्यत् प्रत्यासन्नत्वं - या प्रत्यासत्तिः सादृश्यमिति यावत्, तेनेहादीनि ज्ञेयानि, न पुनरत्यन्तवैलक्षण्यस्थाण्वादेरुष्ट्रादिना सहेत्यर्थः । इदमुक्तं भवति - अवग्रहे तावत् सामा- 25 न्यमात्रग्राहकत्वाद् द्वितीयवस्त्वपेक्षाऽपि न विद्यते, ईहा पुनरुभयवस्त्ववलम्बिनी, तत्र पुरोदृश्यमानस्य वस्तुनो यत् प्रतिपक्षभूतं वस्तु तत् प्रायो बहुभिर्धर्मैः प्रत्यासन्नं ग्राह्यम्, न पुनरत्यन्तविलक्षणम् ; पुरतो हि मन्दमन्दप्रकाशे दूराद् दृश्यमाने स्थाण्वादौ ' किमयं स्थाणुः ? पुरुषो वा ?' इत्येवमेवेहा प्रवर्त्तते, ऊर्ध्वस्थाना-ऽऽरोह - परिणाहतुल्यतादिभिः प्रायो बहुभिर्धर्मैः पुरुषस्य स्थाणु प्रत्यासन्नत्वादिति, 'किमयं स्थाणुः ? उष्ट्रो वा ?' इत्येवं तु न प्रवर्त्तते, उष्ट्रस्य स्थाण्वपेक्षया प्रायोऽत्यन्तविलक्षणत्वात् । अत एव सामान्यमात्रग्राही अवग्रहोत्रादौ न कृतः, किन्तु 'ईहादीनि' इत्येवमेवोक्तम् उभयवस्त्ववलम्बित्वेनेहाया एव “पायं पच्चासन्नत्तणेणे"- 30 ति विशेषणस्य सफलत्वात् । अपायस्यापि 'स्थाणुरेवायम्, न पुरुषः' इत्यादिरूपेण प्रवृत्तेः किञ्चिद् विशेषणस्य सफलत्वादादि
20
www.jainelibrary.org