________________
१४८
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं
शब्दोऽप्यविरुद्ध इति गाथार्थः ॥ १ ॥ इह 'किं शब्दः ? अशब्दो वा ?' इति श्रोत्रेन्द्रियस्य [प्रत्यासन्नवस्तूपदर्शनं कृतमेव । अथ शेषचक्षुरादीन्द्रियाणां विषयभूतानि ] प्रत्यासन्नवस्तूनि क्रमेण दर्शयतिपं. ८. थाणुपुरिसाइ-कुटुप्पलाइ-संभियकरिल्लमंसाई ।
सप्पुप्पलनालाइ व समाणरूवाइविसयाइं ॥२॥ __ "ईहादिवस्तूनि सूपलक्ष्याणि" इत्युक्तम् । कथम्भूतानि सन्ति पुनस्तानि सूपलक्ष्याणि ? इत्याह-समानः-समानधर्मा रूपरसादिविषयो येषामीहादीनां तानि समानरूपादिविषयाणीति पूर्वगाथायां सम्बन्धः । कः पुनरमीषां समानधर्मा रूपादिविषयः ? इत्याह-स्थाणु-पुरुषादिवदिति, पर्यन्ते निर्दिष्टो विषयोपदर्शनाभिद्योतको वच्छब्दः सर्वत्र योज्यते, ततश्चक्षुरिन्द्रियप्रभवस्येहादेः स्थाणुपुरुषादिवत् समानधर्मा रूपविषयो द्रष्टव्यः, आदिशब्दात् 'किमियं शुक्तिका रजतखण्डं वा ? मृगतृष्णिकाः पयःपूरो वा ?
रजः विषधरो वा ? इत्यादिपरिग्रहः । घ्राणेन्द्रियप्रभवस्येहादेः कुष्ठोत्पलादिवत् समानगन्धो विषयः, ततः कुष्ठं-न्धिकहविक्रेयो 10 वस्तुविशेषः उत्पलं-प- अनयोः किल समानो गन्धो भवति तत ईदृशेन गन्धेन 'किमिदं कुष्ठम् ? उत्पलं वा? इत्येवमोहाप्रवृत्तिः,
आदिशब्दात् 'किमत्र ससच्छदाः मत्तकरिणो वा ? कस्तूरिका वनगजमदोवा ?' इत्यादिपरिग्रहः । रसनेन्द्रियप्रभवस्येहादेः सम्भृतकरील-मांसादिवत् समानरसो विषयः, तत्र सम्भृतानि संस्कृतानि सन्धानीकृतान्यस्थितानि यानि वंशजालिसम्बन्धीनि करीलानि तथा मांसम् , अनयोः किलाऽऽस्वादः समानो भवति, ततोऽन्धकारादावन्यतरस्मिन् जिह्वाग्रप्रदत्ते भवत्येवम्-'किमिदं सम्भृत
वंशकरीलम् ? आमिषं वा ?' इति, आदिशब्दाद् 'गुडः खण्डं वा ? मृद्वीका शुष्कराजादनं वा ?' इत्यादिपरिग्रहः । स्पर्शनेन्द्रिय 15 प्रभवस्येहादेः सर्पोत्पलनालादिवत समानस्पर्शो विषयः, सर्पोत्पलनालयोश्च तुल्यस्पर्शत्वेनेहाप्रवृत्तिः सुगमैव, आदिशब्दात स्त्रीपुरुष
लेष्ट्रपलादिसमानस्पर्शवस्तुपरिग्रह इति गाथार्थः ॥ २ ॥ अथ यदुक्तं सूत्रे “से जहानामए केइ पुरिसे अब्बत्तं सुमिणं पासेजा" इत्यादि, तदनुसृत्य स्वप्ने मनसोऽप्यवग्रहादीन् दर्शयन्नाहपं. ९. एवं चिय सिमिणाइसु मणसो सहाइएसु विसएसु ।
होतिंदियवावाराभावे वि अवग्गहाईया ॥ ३ ॥ 'एवमेव उक्तानुसारेणेन्द्रियव्यापाराभावेऽपि स्वप्नादिषु, आदिशब्दाद् दत्तकपाट-सान्धकारापवरकादीनीन्द्रियव्यापाराभाववन्ति स्थानानि गृह्यन्ते, तेषु केवलस्यैव मनसो मन्यमानेषु शब्दादिविषयेषु 'अवग्रहादयः' अवग्रहहा-ऽपाय-धारणा भवन्तीति स्वयमभ्यूह्याः । तथाहि-स्वप्नादौ चित्तोत्प्रेक्षामात्रेण श्रयमाणे गीतादिशब्दे प्रथमं सामान्यमात्रोत्प्रेक्षायामवग्रहः 'किमयं शब्दः? अशब्दो वा ?' इत्याद्युत्प्रेक्षायां त्वीहा, शब्दनिश्चये पुनरपायः, तदनन्तरं तु धारणा । एवं देवतादिरूपे, कर्पूरादिगन्धे, मोदकादि
रसे, कामिनीकुचकलशादिस्पर्शे चोत्प्रेक्ष्यमाणेऽवग्रहादयो मनसः केवलस्य भावनीया इति गाथार्थः ॥ ३॥ 25 मतिज्ञानमिदं द्रव्यादिभेदाच्चतुर्विधम् । यदाह भाष्यकृत्
तं पुण चउव्विहं नेयभेयओ तेण जं तदुवउत्तो।
आएसेणं सव्वं व्वाइ चउव्विहं मुणइ ॥१॥ 'तत् पुनः' आभिनिबोधिकज्ञानं 'चतुर्विधं' चतुर्भेदम् । नन्ववग्रहादिभेदेन भेदकथनं प्रागस्य कृतमेव, किमिह पुनरपि भेदोपन्यासः ? सत्यम् , ज्ञेयमेवेह द्रव्यादिभेदेन चतुर्भेदम् , ज्ञानस्य तु ज्ञेयभेदादेव भेदोऽत्राभिधीयते, सूत्रे तथैवोक्तत्वात् । तचंद 30 सूत्रम्- "तं समासओ चउव्विहं पण्णत्तं, तं जहा-दव्वओ खित्तओ कालओ भावओ। दव्वओ णं आभिणिबोहियनाणी आएसेणं
सव्वदव्वाइं जाणइ न पासई"त्यादि । ज्ञेयभेदादपि तत् कथं चतुर्विधम् ? इत्याह-"जं तदुवउत्तो" इत्यादि, 'यद्' यस्मात् कारणात् 'तेन' आभिनिबोधिकज्ञानेन सर्वं द्रव्यादि मुणीति सम्बन्धः । कथम्भूतम् ? इत्याह-'चतुर्विधं चतुर्भेदं द्रव्य-क्षेत्र-काल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org