________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१४९
भावभेदभिन्नमित्यर्थः । कथम्भूतः सन् मुणति ? इत्याह-तस्मिन्नेव-आमिनिबोधिकज्ञाने उपयुक्तः तदुपयुक्तः । केन ? इत्याहआदेशेनेति ।। १ ॥ कोऽयमादेशः ? इत्याहपं. २८. आएसो त्ति पगारो, ओहादेसेण सव्वव्वाई।
धम्मत्थियाइयाइं जाणइ, न उ सवभेएणं ॥२॥ इह 'आदेशो नाम' ज्ञातव्यवस्तुप्रकारः । स च द्विविधः-सामान्यप्रकारो विशेषप्रकारश्च । तत्र 'ओघादेशेन' सामान्य- 5 प्रकारेण द्रव्यजातिसामान्येनेत्यर्थः, सर्वव्याणि धर्मास्तिकायादीनि जानाति, 'असंख्येयप्रदेशात्मको लोकव्यापकोऽमूर्तः प्राणिनां पुद्गलानां च गत्युपष्टम्भहेतुर्धर्मास्तिकायः' इत्यादिरूपेण कियत्पर्यायविशिष्टानि षडपि द्रव्याणि सामान्येन मतिज्ञानी जानातीत्यर्थः। अनभिमतप्रकारप्रतिषेधमाह-'न तु सर्वभेदेन' न सर्वैविशेषैर्न सर्वैरपि पर्यायैः केवलिदृष्टैविशिष्टानि तानि द्रव्याण्यसौ जानातीत्यर्थः, केवलज्ञानगम्यत्वादेव सर्वपर्यायाणामिति भावः ॥२॥ धर्मास्तिकायादिभेदेन कथितं सामान्येन द्रव्यम् । अथ क्षेत्रादिस्वरूपं विशेषतः प्राह
10 [ पृष्ठ ५६ ] पं. १. खेत्तं लोगालोग, कालं सव्वद्धमहव तिविहं पि ।
पंचोदइयाईए भावे, जं नेयमेवइयं ॥ ३ ॥ क्षेत्रमपि लोका- लोकस्वरूपं सामान्यादेशेन कियत्पर्यायविशिष्टं सर्वमपि जानाति, न तु विशेषादेशेन सर्वपर्यायैर्विशिष्टमपि । एवं कालमपि सर्वाद्धारूपम् , अतीता-ऽनागत-वर्तमानभेदतस्त्रिविधं वा इत्येक एवार्थः । भावतस्तु सर्वभावानामनन्तभागं 15 जानाति, औदयिकौपशमिक-क्षायिक-क्षायोपशमिक-पारिणामिकान् वा पञ्च भावान् सामान्येन जानाति, न परतः । कुतः ? इत्याह 'यद्' यस्मादेतावदेव ज्ञेयमस्ति, नान्यदिति । इह क्षेत्र-कालो सामान्येन द्रव्यान्तर्गतावेव, केवलं भेदेन रूढत्वात् पृथगुपादानमवसेयमिति ॥ ३ ॥ आदेशस्य व्याख्यानान्तरमाहपं. २. आएसो त्ति व सुत्तं, सुओवलहेसु तस्स मइनाणं ।
पसरइ तब्भावणया विणा वि सुत्ताणुसारेण ॥ ४ ॥ अथवा आदेशः सूत्रमुच्यते । तेन सूत्रादेशेन सूत्रोपलब्धेष्वर्थेषु 'तस्य' मतिज्ञानिनः सर्वद्रव्यादिविषयं मतिज्ञानं प्रसरति । ननु श्रुतोपलब्धेष्वर्थेषु तद् ज्ञानं तत् श्रुतमेव भवति, कथं मतिज्ञानम् ? इत्याह-"तब्भावणये"त्यादि, तद्भावनया श्रुतोपयोगमन्तरेण तद्वासनामात्रत एवं यद् द्रव्यादिषु प्रवर्तते तत् सूत्रादेशेन मतिज्ञानमिति भावः । एतच्च पूर्वमपि
__पुव्वं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं ।
तन्निस्सियमियरं पुण, अणिस्सियं मइचउकं तं ॥ १ ॥ [विशेषा० गा०.१६९] इत्यादिप्रक्रमे प्रोक्तमेवेति गाथाचतुष्टयार्थः ।। ४ ॥ पं. ५. अत्र श्रुतनिश्रितानवग्रहादींस्तावदाह
उग्गहो ईह अवाओ य धारणा एव होंति चत्तारि ।
आभिणिबोहियनाणस्स भेयवत्थू समासेण ॥ सू. गा. ७२ ॥ रूप-रसादिभेदैरनिर्देश्यस्य अव्यक्तस्वरूपस्य सामान्यार्थस्यावग्रहणं-परिच्छेदनमवग्रहः । तेनावगृहीतस्यार्थस्य भेद- 30 विचारणं वक्ष्यमाणगत्या विशेषान्वेषणमीहा । तया ईहितस्यैवार्थस्य व्यवसायः तद्विशेषनिश्चयोपायः । चशब्दोऽवग्रहादीनां पृथक
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org