SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५० मलधारिश्री श्री चन्द्रसूरिविनिर्मितं पृथक् स्वातन्त्र्य प्रदर्शनार्थः, तेनैतदुक्तं भवति - अवग्रहादेरीहादयः पर्याया न भवन्ति पृथग्भेदवाचकत्वादिति । निश्चयै वस्तुनोऽविच्युत्यादिरूपेण धरणं धारणा । एवकारः क्रमद्योतनपरः, अवग्रहादीनामुपन्यासस्यायमेव क्रमः, नान्यः, अवगृहीतस्यैवेहनात्, ईहितस्यैव निश्चयात्, निश्चितस्यैव धारणादिति । एवमेतान्याभिनिबोधिकज्ञानस्य चत्वार्येव भेदवस्तूनि 'समासेन ' सङ्क्षेपेण भवन्ति । विस्तरतस्त्वष्टाविंशत्यादिभेदभिन्नम् । इदं प्रागुक्तमेवेति भावः । तत्र भिद्यन्ते परस्परमिति भेदा: - विशेषाः त 5 एव वस्तूनि भेदवस्तूनीति समास इति गाथार्थः ॥ अथ सूत्रकार एवावग्रहादीन् व्याख्यानयन्नाह— पं. ७. 'अर्थानां ' रूपादीनां प्रथमदर्शनानन्तरमेव 'अवग्रहणं' अवग्रहं ब्रुवत इति सम्बन्धः । तथा 'विचारणं' पर्यालोचनम्, अर्थानामिति वर्त्तते, ईहनमीहा तां ब्रुवते । इदमुक्तं भवति - अवग्रहादुत्तीर्णोऽपायात् पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थ10 विशेषत्यागसम्मुखश्च ‘प्रायः काकनिलयनादयः स्थाणुधर्मा अत्र निरीक्ष्यन्ते, न तु शिरः कण्डूयनादयः पुरुषधर्माः' इति मतिविशेष ईति । विशिष्टोऽवसायो व्यवसायः - निश्चयस्तं व्यवसायम्, अर्थानामितीहापि वर्त्तते, अपायमवायं वा ब्रुवते । एतदुक्तं भवतिस्थाणुरेवायमित्यवधारणात्मकः प्रत्ययोऽपायोऽवायो वेति । चशब्द एवकारार्थः, व्यवसायमेव अवायमपायं वा ब्रुवते इत्यर्थः । धृतिर्धरणम्, अर्थानामिति वर्त्तते, अपायेन विनिश्वितस्यैव वस्तुनोऽविच्युति - स्मृति-वासनारूपं धरणमेव धारणं ब्रुवत इत्यर्थः । पुनःशब्दस्यावधारणार्थत्वाद् ब्रुवत इत्यनेन शास्त्रस्य पारतन्त्र्यमुक्तम् इत्थं तीर्थकर - गणधरा ब्रुवत इति । अन्ये त्वेवं पठन्ति– 15 “अत्थाणं उग्गहणम्मि उग्गहो" इत्यादि तत्रार्थानामवग्रहणे सति अवग्रहो नाम मतिभेद इत्येवं ब्रुवते । एवमीहादिष्वपि योज्यम् । भावार्थस्तु पूर्ववदेव । अथवा “प्राकृत शैल्याऽर्थवशाद् विभक्तिपरिणामः" इति सप्तमी द्वितीयार्थे द्रष्टव्येति गाथार्थः ॥ अथैतदेवावग्रहादिस्वरूपं भाष्यकारेण विवृतं यथा सामण्णत्थावग्गहणमोग्गहो, भेयमग्गणमहेहा । तस्सावगमोsवाओ, अविचुई धारणा तस्स ॥ [ विशेषा० गा० १८० ] अन्तर्भूताशेषविशेषस्य केनापि रूपेणानिर्देश्यस्य सामान्यस्यार्थस्यैकसामयिकमवग्रहणं सामान्यार्थावग्रहणम्, अथवा 20 सामान्येन - सामान्यरूपेगार्थस्यावग्रहणं सामान्यार्थावग्रहणमवग्रहो वेदितव्यः । अथानन्तरमीहा प्रवर्त्तते । कथम्भूतेयम् ? इत्याह'भेदमार्गणं' भेदाः - वस्तुनो धर्मास्तेषां मार्गणं- अन्वेषणं विचारणं 'प्रायः काकनिलयनादयः स्थाणुधर्मा अत्र वीक्ष्यन्ते, न तु शिरःकण्डूयनादयः पुरुषधर्माः' इत्येवं वस्तुधर्मविचारणमीहा इत्यर्थः । तस्यैव ईहया ईहितस्य वस्तुनस्तदनन्तरमवगमनमवगमः ‘स्थाणुरेवायम्' इत्यादिरूपो निश्चयोsवायोऽपायो वेति । तस्यैव निश्चितस्य वस्तुनोऽविच्युति - स्मृति-वासनारूपं धरणं धारणा, सूत्रेऽविच्युतेरुपलक्षणत्वादिति गाथार्थः ॥ 25 अत्थाणं उग्गहणं अवग्गहं, तह वियालणं ईहं । ववसायं च अवायं, धरणं पुण धारणं बेंति ॥ सू. गा. ७३ ॥ तत्रामूषामिदं स्वरूपम्–अपायानन्तरमवगतमर्थमविच्युत्याऽजघन्योत्कृष्टमन्तर्मुहूर्तमात्रं कालं धारयतो धारणाऽविच्युत्याख्या । तमेवार्थमुपयोगात् च्युतं जघन्येनान्तर्मुहूर्त्तादुत्कृष्टतोऽसंख्येयकालात् परतः स्मरतः धारणा स्मृत्याख्या । अपायावधारितमेवार्थं पूर्वा - परालोचितं हृदि स्थापयतो धारणा वासनाख्या । नवरं संख्येयवर्षायुषां संख्येयं कालं स्मृति - वासनारूपा धारणा भवति, असंख्येय वर्षायुषामसंख्येयं कालं स्मृति वासनारूपा धारणा भवति, असंख्येयवर्षायुषामसङ्ख्येयं कालं द्विरूपाsपीयं धारणा भवति ॥ 30 पं.११. पुहुं० [ सूत्र गा. ७५ ] गाहा । श्रोत्रेन्द्रियं कर्तृ, शब्दं कर्मतापन्नं शृणोति । कथम्भूतम् ? इत्याह-स्पृश्यत इति स्पृष्टस्तं स्पृष्टम्, तनौ रेणुवदालिङ्गितमात्रमेवेत्यर्थः । इदमुक्तं भवति - स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रमुपलभते, यतो घ्राणादीन्द्रियविषयभूतद्रव्येभ्यः तानि सूक्ष्माणि बहूनि भावुकानि च, पटुतरं च श्रोत्रेन्द्रियं विषयपरिच्छेदे घ्राणेन्द्रियादिगणादिति । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy