________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१५१
श्रोत्रेन्द्रियस्य चेह कतृत्वं शब्दश्रवणान्यथानुपपत्तेलेभ्यते । एवं घ्राणेन्द्रियादिष्वपि वाच्यम् । तानि पुनः कथं गन्धादिकं गृह्णन्ति ? इत्याह-गन्ध्यत इति गन्धस्तमुपलभते घ्राणेन्द्रियम् , रस्यत इति रसस्तं च गृह्णाति रसनेन्द्रियम् , स्पृश्यत इति स्पर्शस्तं च जानाति स्पर्शनेन्द्रियम् । कथम्भूतं गन्धादिकम् ? इत्याह-बद्धस्पृष्टं तत्र स्पृष्टमिति–पूर्ववदेव, बद्धं तु-गाढतरमाश्लिष्टं आत्मप्रदेशस्तोयवदात्मीकृतमित्यर्थः। ततश्च गन्धादिद्रव्यसमूहं प्रथमं स्पृष्टम्-आलिङ्गितं ततश्च स्पर्शनानन्तरं बदम्-आत्मप्रदेशैर्गाढतरमागृहीतमेवोपलभते घ्राणेन्द्रियादिकमित्येवं व्यागृणीयात् प्रज्ञापकः, यतो घ्राणेन्द्रियादिविषयभूतानि गन्धादिद्रव्याणि शब्दद्रव्यापेक्षया 5 स्तोकानि बादराणि अभावुकानि च, विषयपरिच्छेदे श्रोत्रापेक्षयाऽपटूनि च घ्राणादीनि, अतो बद्धस्पृष्टमेव गन्धादिद्रव्यसमूह गृह्णन्ति, न पुनः स्पृष्टमात्रमिति भावः । ननु यदि स्पर्शनानन्तरं बद्धं गृह्णाति तर्हि "पुट्रबर्द्ध" इति पाठो युक्त इति चेत् , उच्यतेविचित्रत्वात् सूत्रगतेरित्थं निर्देशः, अर्थतस्तु यथाऽवयोक्तं तथैव द्रष्टव्यम् । अपरस्वाह-यद् बद्धं तत् स्पृष्टं भवत्येव, विशेषबन्धे सामान्यबन्धस्यान्तर्भावात् , ततः किं स्पृष्टग्रहणेनेति, तदयुक्तम् , सकलश्रोतृसाधारगत्वाच्छात्रारम्भस्य प्रपञ्चितज्ञानुग्रहार्थमर्थापत्तिगम्यार्थाभिधानेऽप्यदोषादिति । चक्षुरिन्द्रियं त्वप्राप्तमेव विषयं गृह्णातीत्याह-"रूवं पुण पासई अपुढे तु" इति रूपं 10 कर्मतापन्नं चक्षुः 'अस्पृष्टम्' अप्राप्तमेव पश्यति । पुनःशब्दस्य विशेषगार्थत्वादस्पृष्टमपि योग्यदेशस्थमेव पश्यति, नायोग्यदेशस्थं सौधर्मादि कटकुड्यादिव्यवहितं वा घटादीति गाथार्थः ।। पं. १३. भासासमसेढीओ सदं जं सुणइ मीसयं सुणइ ।
वीसेढी पुण सदं सुणेइ नियमा पराघाए । सू. गा. ७६ ॥ भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समाः-प्राञ्जलाः श्रेणयः-आकाशप्रदेश- 15 पङ्क्तयो भाषासमश्रेणयः, समग्रहणं विश्रेणिव्यवच्छेदार्थम् , भाषासमश्रेणिषु इतः गतः स्थित इत्यनन्तरं भाषासमश्रेणीतः । इदमुक्तं भवति-भाषकस्यान्यस्य वा भेर्यादेः समश्रेणिव्यवस्थितः श्रोता यं 'शब्दं पुरुष-अश्व-भेर्यादिसम्बन्धिनं ध्वनि शृणोति तं मिश्रकं शृणोतीत्यवगन्तव्यम् , भाषकाद्युत्सृष्टशब्दद्रव्याणि तद्वासितापान्तरालस्थद्रव्याणि चेत्येवं मिश्रं शब्दव्यराशिं शृणोति, न तु वासकमेव वास्यमेव वा केवलमित्यर्थः । “वीसेढी पुणे"त्यादि “मञ्चाः क्रोशन्ती"ति न्यायाद् विश्रेणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते, स वि श्रेणिः पुनः श्रोता शब्दं 'नियमाद्' नियमेन 'पराघाते' वासनायां सत्यां शृणोति । इदमुक्तं भवति यानि 20 भाषकोत्सृष्टानि शब्दद्रव्याणि भेर्यादिशब्दद्रव्याणि वा त: 'पराघाते' वासनाविशेषे सति यानि वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येव विश्रेणिस्थः शृणोति, न तु भाषकाद्युत्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनासम्भवात् । न च कुड्यादिप्रतिघातस्तेषां विदिग्गतिनिमित्तं सम्भवति, लेष्ट्वादिबादरद्रव्याणामेव तत्कुड्यादिप्रतिघातसम्भवात् , एषां च सूक्ष्मत्वात् । न च वक्तव्यम्-द्वितीयादिसमयेषु तेषां स्वयमपि विदिक्षु गमनसम्भवात् तत्स्थस्यापि मिश्रशब्दश्रवणसम्भव इति, निसर्गसमयानन्तरं समयान्तरेषु तेषां भाषापरिणामेनानवस्थानात् , "भाष्यमाणैव भाषा भाषा, समयानन्तरं भाषा अभाषेवे"ति वचनात् । यदपि 25 "चउहिं समएहिं लोगो भासाए निरंतरं तु होइ फुडो" इति वक्ष्यति, तत्रापि द्वितीयादिसमयेषु भाषाद्रव्यैर्वासितत्वात् तेषां भाषात्वं द्रष्टव्यम् । अत्राह-ननु यदिवक्तृनिसृष्टानि भाषाद्रव्याणि प्रथमसमये दिवेव गच्छन्ति, समयान्तरं नावतिष्ठन्ते, तर्हि तद्वासितद्रव्याणि द्वितीयसमये विदिक्षु गच्छन्ति, ततश्च दिग-विदिग्व्यवस्थितयोः समयभेदेन शब्दश्रवणं प्राप्नोति, अविशेषेण च सर्वोऽपि शब्दं शृण्वन्नुपलभ्यते, नैष दोषः, समयादिकालभेदस्यातिसूक्ष्मत्वेनालक्षणादिति । भवत्वेवम् , तथापि "भाष्यमाणैव भाषे"ति वचनान्निसर्गसमयवर्तिन्येव भाषा, ततो 'विश्रेणिस्थो द्वितीयसमयेऽभाषां शृणोती'त्यायातम् , नैतदेवम् , भाषाद्रव्यैर्वासितानामपि 30 द्रव्याणां भाषाऽविशेषाद् भाषात्वं न विरुध्यते, अत एव “वीसेढी पुण सद्द"मित्यत्र पुनरपि यत् शब्दग्रहण तत् पराघातवासित
१ शब्दपदग्रहणमित्यर्थः । अयं भावः-गाथायां “सई जं सुणइ मीसयं सुणइ" इत्यत्र सकृत् सई इति पदे गृहीतेऽपि यत् पुनरपि “वीसेढी पुण सई' इत्यत्र 'सई' इति पदं गृहीतं तदित्याद्यग्रे सम्बन्धः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org