________________
१५२
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मित
द्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थं कृतमिति तावद् वयमवगच्छामः, तत्त्वं तु बहुश्रुतादयो विदन्तीति । प्राणादीन्यपीन्द्रियाणि गन्धादिद्रव्याणि मिश्राण्याददते, तेषां चानुश्रेणिगमननियमो नास्ति, बादरत्वात् , वातायनोपलभ्यमानरेणुवदिति वृद्धटीकाकार इति गाथार्थः ॥ पं. १५. ईहा अपोह वीमंसा मग्गणा य गवेसणा।
सण्णा सई मई पण्णा सव्वं आभिणियोहियं ॥ सू. गा. ७७॥ ___“ईह चेष्टायाम्” ईहनमीहा-सतामन्वयिनां व्यतिरेकिणां चार्थानां पर्यालोचना । अपोहनमपोहः-निश्चयः । विमर्षणं विमर्षः--अपायात् पूर्वः ईहायाश्चोत्तरः 'प्रायः शिरःकण्डूयनादयः पुरुषधर्मा इह घटन्ते' इति सम्प्रत्ययः । तथा मार्गणम्-अन्वयधर्मान्वेषणं मार्गणा । 'चशब्दः' समुच्चयार्थः । गवेषणं-व्यतिरेकधर्मालोचनं गवेषणा । तथा संज्ञानं संज्ञा-अवग्रहोत्तरकालभावी मतिविशेष एव । स्मरणं स्मृतिः-पूर्वानुभूतार्थालम्बनः प्रत्ययः । मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा 10 बुद्धिः । तथा प्रज्ञानं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिः । सर्वमिदमाभिनिबोधिकम् , कथञ्चित् किञ्चिद् भेददर्शनेऽपि तत्त्वतः सर्वं मतिज्ञानमेवेदमित्यर्थः इति नियुक्तिश्लोकार्थः ॥ अत्रैतद्व्याख्यानाय भाष्यम्
होइ अपोहोऽवाओ, सई धिई, सव्वमेव मइ-पण्णा ।
ईहा सेसा, सव्वं इदमाभिणियोहियं जाण ॥ १॥ [विशेषा० गा० ३९७] 15 अपोहस्तावत् किमुच्यते ? इत्याह-अपोहो भवत्यपायः, योऽयमपोहः स मतिज्ञानतृतीयभेदोऽपायो निश्चय उच्यत इत्यर्थः ।
स्मृतिः पुनः 'धृतिः' धारणोच्यते, धारणाभेदत्वेनावयवे समुदायोपचारादिति । 'मति-प्रज्ञे' मति-प्रज्ञाशब्दाभ्यां सर्वमेव मतिज्ञानमुच्यते । “ईहा सेस" त्ति 'शेषाभिधानानि तु' ईहा-विमर्ष-मार्गणा-गवेषणा-संज्ञालक्षणानि सर्वाण्यपि 'ईहा' ईहान्त वीनि द्रष्टव्यानीत्यर्थः । एवं विशेषतः कथञ्चिद् भेदसद्भावेऽपि सामान्यतः सर्वमिदमाभिनिबोधिकज्ञानमेव जानीहि । इदमुक्तं भवति
प्रदर्शितेहा-पोहादयोऽवग्रहादयोऽपि च सर्वेऽपि मतिज्ञानस्य पर्यायाः, अवगृहीतस्येहादिसम्भवात् । ततोऽवग्रहशब्दोऽवग्रहण20 लक्षणेनार्थेन सर्वमाभिनिबोधिकं सङ्गलाति, ईहाशब्दस्तु चेष्टालक्षणेन, अपायस्त्ववगमनलक्षणेन, धारणा तु धरणलक्षणेन सर्वं संङ्गहाति । समर्थितं मतिज्ञानम् ॥ श्रुतज्ञानमुच्यते
[पृष्ठ ५८] पं. २८. अक्षरश्रुतमित्यादि, अक्षरादीनि सप्त द्वाराणि अनक्षरादिप्रतिपक्षसहितानि चतुर्दश भवन्तीति चतुर्दशभेदं
श्रुतं भवति ।
[पृष्ठ ५९] पं. ९. तत्र सक्षेपतः स्वरूपमिदम्-अक्षरश्रुतं त्रिविधम्-संज्ञा-व्यञ्जन-लब्धिभेदात् । पं. १२. संज्ञाक्षरं नामलेख्यलिपिरूपम् , यथा घटाकृतिः ठकार इत्यादि । लिपिभेदतोऽनेकस्वरूपमकाराद्यक्षरं संज्ञाक्षरमुच्यते । पं. १६. भाष्यमाणः शब्दो व्यञ्जनाक्षरम् , तदेतद् द्वितयमज्ञानात्मकमपि श्रुतकारणत्वादुपचारेण श्रुतमुच्यते। पं. २४. लब्ध्यक्षरं
तु-शब्दश्रवण-रूपदर्शनादेरर्थप्रत्यायनगर्भाऽक्षरोपलब्धिः, यस्तदावरणक्षयोपशमो यः श्रुतज्ञानोपयोगश्च एतौ द्वावपि लब्ध्यक्षरम् । 30 ततश्च श्रोत्रेन्द्रियलब्ध्यक्षरवत् शेषेन्द्रियविषयाऽक्षरोपलब्धिरपि श्रुतम् , घट-कर्पूर-शर्करा-हंस-रूततूलीरूपे विषयोपलम्भे एतद्वाच
काक्षरोपलम्भसद्भावात् । मनः प्रति च यद् दृष्टं स्वप्ने रूपादि तदक्षरोपलब्धिमा॑ह्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org