________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१५३ [ पृष्ठ ६०] पं. ८. अनक्षरश्रुतं श्वेडित-शिरःकम्पादिनिमित्तमाह्वयति वारयति वेत्यादिरूपमभिप्रायादिपरिज्ञानम् । पं. १०. "ऊससियं" गाहायां शेटितादि चानक्षरश्रुतमिति आदिग्रहणात् पूत्कृत-सीत्कारादिग्रहः । पं. १४. ध्वनिमात्रत्वादिति शब्दमात्रत्वात्, शब्दश्च भावश्रुतस्य कारणमेव, यच्च कारणं तद् द्रव्यमेव भवति । भवति च तथाविधोच्छ्वसित-निःश्वसितादिश्रवणे 'सशोकोऽयम्' इत्यादि ज्ञानम् । एवं चेष्टाभिसन्धिपूर्वकनिष्ठयूत-काशित-क्षुतादिश्रवणेऽप्यात्मज्ञापनादि अन्यं प्रति ज्ञानं 5 वाच्यम् । पं. १५. सर्व एव व्यापार इति उच्छ्वसितादिकः । तद्भावेन श्रुतविज्ञानोपयुक्तजन्तुभावेन । आहेत्यादि, यद्येवं गमना-ऽऽगमन-चलन-स्पन्दन-शिरोधूनन-करचालनादिकाऽपि चेष्टा व्यापार एवेत्येषाऽपि श्रुतं किं न भवति ? हन्त प्राप्नोत्यनेन न्यायेन साऽपि श्रुतम् , किन्तु रूढयेति शास्त्रज्ञलोकप्रसिद्धा रूढिरियम्-यदुतोच्छ्वसितायेव श्रुतं रूढम् , न चेष्टा, श्रूयत इति श्रुतमित्यन्वर्यवशात् , चेष्टा तु दृश्यत्वात् कदापि न श्रूयत इति कथमसौ श्रुतं स्यात् ।। पं. १७. अनुस्वारेत्यादि, अकारादिवर्णा इवेति भावः । पं. १९. समनस्कस्य मनःसहायैरिन्द्रियैर्जनितं सामिलापमर्थसंवेदनं यत् तत् संज्ञिश्रुतम् । 10 अमनस्कस्येन्द्रियजं मनोरहितं यत् संवेदनं चलनादिचेष्टालिङ्गितं तद् असंज्ञिश्रुतम् । से किं तमित्यादि, संज्ञिनः सम्बन्धि श्रुतं संज्ञिश्रुतम् । संज्ञी चोच्यते यस्य संज्ञाऽस्ति । सा च त्रिविधा दीर्घकालिकोपदेशादिभेदात् । त्रिविधसंज्ञायोगात् संज्ञिश्रुतं त्रिधा। पं. २७. तत्र प्रभूतमतीतमथ स्मरति 'कथमेतत् कर्त्तव्यम् ?' इति भावि च विमृशति 'इदमकार्षम् , इदं करिष्ये' इत्यादिचिन्तामाश्रित्य यस्यां दीर्घः कालो भवति सा दीर्घकालिकी ।। [पृष्ठ ६१ ]
15 पं. ८. प्रयुक्ताः सन्तः प्रतिहता उपाया यस्य स प्रयुक्तपतिहतोपायस्तस्येति विग्रहः। पं. ९. अयं चेत्यादि, अयं दीर्घकालिकसंज्ञी विज्ञेयो यो मतिज्ञानविषय[क]मनोज्ञानावरणकर्मक्षयोपशमाद् मनोलब्धिसम्पन्नः मनोयोग्याननन्तान् स्कन्धान् मनोवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमय्य मन्यते चिन्तनीयं वस्त्विति, स च गर्भजतिर्यङ् मनुष्यो वा देवो नारकश्चेति, नान्यः, सोऽयं कालिक्युपदेशेन संज्ञितव्यपदेश इति वाक्यशेषः । पं. २०. कृम्यादीनां प्रायो वर्तमान एव काले इष्टा-ऽनिष्टेष प्रवृत्ति-निवृत्ती स्तः, न त्वतीता-ऽनागतदीर्घकालावलम्बितया ते स्तः, असञ्चिन्त्य वा । तथाहि-संज्ञिनो द्वीन्द्रियादयः, सञ्चिन्त्य 20 सञ्चिन्त्य हेयोपादेयेषु निवृत्ति-प्रवृत्तेः, देवदत्तादिवदिति । तदेवं हेतुवादिनोऽभिप्रायेण निश्चेष्टाः पृथिव्यादय एवासंज्ञिनः । पं. २९. आह-संज्ञादशकयोगात् पृथिव्यायेकेन्द्रिया अपि संज्ञिनः किं नेष्यन्ते ? इति प्रेरणायां प्रतिविधत्ते इहौघसंज्ञा स्तोकत्वादित्यादिना, उपयोगमात्रमोघसंज्ञा, इयं च वृत्याद्यारोहणतो वल्ल्यादिषु प्रतीता, इयं च स्तोका-अतिस्वल्पा ततोऽत्र नाधिक्रियते, न तया संज्ञी वक्तुं युज्यत इति भावः, न हि कार्षापणमात्रास्तित्वेन लोके धनवानुच्यते । आहार-भय-मैथुनादिसंज्ञात्मिका भूयस्यपीह नाधिक्रियते, तामप्याश्रित्य न संज्ञी वक्तुं युज्यते, अनिष्टत्वाद् अशोभनत्वात् , मोहोदयजन्यत्वेन नासौ विशिष्टेत्यर्थः । न 25 चाविशिष्टया संज्ञया संज्ञीत्यभिधातुं युज्यते, नहि लोकेऽप्यविशिष्टेन मूर्त्तिमात्रेण रूपवानित्यभिधीयते । तर्हि कीदृश्या संज्ञयात्र संज्ञी प्रोच्यते ? इत्याह- पं. ३०. किन्तु यथेत्यादि, महती शोभना चेति, ज्ञानावरणकर्मक्षयोपशमजन्यमनोज्ञानसंज्ञयैव संज्ञी व्यपदिश्यते । संज्ञानं संज्ञा-मनोविज्ञानं स्पष्टा-ऽस्पष्टरूपं तदस्ति येषां ते संज्ञिनः, नान्ये एकेन्द्रियाः, अमनस्कत्वात् । तदुक्तं नन्दिचूर्णिकृता
कृमि-कीट-पतङ्गाद्याः समनस्का जङ्गमाश्चतुर्भेदाः । अमनस्काः पञ्चविधाः पृथिवीकायादयो जीवाः ॥ १॥[ पत्र ४८ ] 30 इति । अयमत्र परमार्थः-यथा मूर्छितादीनां सर्वेष्वप्यर्थेष्वव्यक्तमेव ज्ञानं भवत्येवमतिप्रकृष्टावरणोदयादेकेन्द्रियाणामपि, ततः शुद्धतरं शुद्धतमं च द्वीन्द्रियादीनां आ पञ्चेन्द्रियसम्मूर्छजेभ्यः, ततः सर्वं स्पष्टतमं संज्ञिनामिति । पं. ३२. आह-कुतः पुनश्चैतन्ये समानेऽपि जन्तूनामिदमुपलब्धिनानात्वम् ? उच्यते-सामर्थ्यभेदात् , स च क्षयोपशमवैचित्र्यात् , यथा तुल्येऽपि छेदकभावे चक्रटी० २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org