SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५४ मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं वर्तिचक्ररत्नस्य यत् छेदनसामर्थ्य तदन्येषां खड्ग-दात्र-शर-क्षुरिकादीनां छेदकवस्तूनां न भवत्येव, किन्तु क्रमशो हीयमानमेव तत् तेषु स्यात् , एवं चैतन्ये तुल्येऽपि मनोविषयिणां संज्ञिनामवग्रहेहादिषु या वस्त्ववबोधपटुता भवति सा तथाविधक्षयोपशमविकलानां यथोक्तदीर्घकालिकसंज्ञारहितानां सम्मूर्च्छजपश्चेन्द्रिय-विकलेन्द्रियैकेन्द्रियाणामसंज्ञिनां न भवत्येव, क्रमशो हीनत्वादिति । अत एवोक्तम् अलं विस्तरेणेति । [पृष्ठ ६२] पं. ४. दृष्टिवादोपदेशेन क्षायोपशमिके ज्ञाने सम्यग्दृष्टिरेव वर्तमानः संज्ञी, विशिष्टसंज्ञायुक्तत्वात् । मिथ्यादृष्टिस्तु असंज्ञी, विपर्यस्तत्वेन वस्तुतः संज्ञारहितत्वात् । यदि सम्यग्दृष्टिरेव संज्ञी तर्हि क्षायिकज्ञानेऽप्यसावस्तु ? किं क्षायोपशमिके ज्ञाने वर्तमानोऽसाविष्यते ? उच्यते-क्षयिकज्ञानं केवलिनो भवति, स च संज्ञी असंज्ञी वा नोच्यते, यतः संज्ञानं संज्ञोच्यते, अतीतार्थस्य स्मरण मनागतस्य च चिन्तनम् , एतच्च तस्य नास्ति, सर्वदा सर्वार्थावभासकत्वेन केवलिनां स्मरण-चिन्ताधतीतत्वादिति क्षायोपशमिक10 ज्ञान्येव सम्यग्दृष्टिः संज्ञीति । यद्येवं मिथ्यादृष्टिरप्यैहिकाद्यर्थविषयकहिता-ऽहितविभागज्ञानात्मकस्पष्टसंज्ञासमन्वित एव दृश्यते तत् किमित्यसौ प्रकृतसंज्ञया संज्ञी न भवति ? उच्यते अशोभनसंज्ञोपेतत्वात् सत्याऽपि तयाऽसंज्ञी प्रोच्यते, मिथ्यादृष्टेनिमप्यज्ञानमेव । जह दुव्वयणमवयणं, कुच्छियसीलं असीलमसईए। भण्णइ, तह नाणं पि हु मिच्छदिद्विस्स अन्नाणं ॥ १॥ [विशेषा० गा० ५२०] कुत्सितं वचनं सदपि अवचनम् , एवं संज्ञाऽप्यसंज्ञोच्यते इति भावः, "सदसदविसेसणाओ" इत्यादिप्रागुक्तवचनात् , अतो 15 नेह देवादिरपि मिथ्यादृष्टिः संज्ञीति भावः । त्रिविधसंज्ञामध्ये कस्य जन्तोः का भवति ? इति निरूप्यते पंचण्हमूहसन्ना, हेऊसन्ना बिइंदियाईणं । सुर-नारय-गब्भुब्भवजीवाणं कालिगी सन्ना ॥१॥ छउमत्थाणं सन्ना, सम्मट्रिीण होइ सुयनाणं । मइवावारविमुक्का सन्नाईया य केवलिणो॥२॥ [विशेषा० गा० ५२३-२४ ] 'पश्चानां' पृथिव्यादीनां 'ऊहसंज्ञा' वृत्याचारोहणाभिप्रायरूपा ओघसंज्ञा भवति, एकेन्द्रियाणां संज्ञात्रयनिषेधेन ऊहसंज्ञैव 20 भवति, न तु हेतुवादादिसंज्ञेति भावः । ऊहसंज्ञायां चासंश्येवेति प्रागेवोक्तम् । नन्वाहारादिका अपि संज्ञा एकेन्द्रियाणामभिहिताः सूत्रे, कथमेकैवोहसंज्ञाऽत्रोच्यते ? सत्यम् , वल्ल्यादिष्वियं व्यक्तैवोपलभ्यते किञ्चिदिति शेषोपलक्षणमेषेति । पं. १७ अत्राइत्यादि, अयमर्थः-अविशुद्धत्वात् प्रथमं हेतुवादसंज्ञा, ततो विशुद्धत्वात कालिकसंज्ञा, ततोऽपि विशुद्धतरत्वाद् दृष्टिवादसंज्ञेत्येवं यथोत्तरविशुद्धममुं क्रम मुक्त्वा किं कालिकसंज्ञोपदेश आदौ निर्दिष्टः ? उच्यते-आगमे योऽयं संश्यसंज्ञीति व्यवहारः स सर्वोऽपि प्रायः कालिकोपदेशेनैव क्रियते, तेनाऽऽदौ स एव कालिकोपदेशः कृतः । तथाहि-यः स्मरण-चिन्तादिदीर्घकालिकज्ञानसहितः 25 समनस्कपञ्चेन्द्रियः स संज्ञीति व्यवहियते । ततोऽसंश्यपि पर्युदासाश्रयणादमनस्कः सम्मूर्छजपञ्चेन्द्रिय एवाऽऽगमे प्रायो व्यवहियते । [पृष्ठ ६३] पं. ६. बहवश्च कैश्चिदिष्यन्ते इति अनादिसंशुद्धा इति बहुवचनम् । पं. ८. इङ्गनेति संज्ञा। पं. १८. तुल्यतामवशङ्कय आह चेति, अर्हद्भिः सह तेषां तुल्यतानिषेधायाऽहेत्यर्थः। पं. १९. नातस्त्वमसि नो महानिति, 'अतः' एतेभ्यो देवागमादिकारणेभ्यः 'नः' अस्माकं त्वं पूज्योऽसि इति न, यत एते हेतवः सुगतादिष्वपि मायाविषु तुल्याः। पं. २३. 30 न निहाणेत्यादि, ये 'भग्नाः' अतिक्रान्तास्ते न निधानगताः सन्ति, न चानागतेषु पुञ्जः समस्ति, येऽपि च वार्त्तमानिकास्तेऽपि न 'निर्वृताः' स्वस्थास्तिष्ठन्ति, किं तर्हि ? आराग्रे सर्षपा इव भावाः यथा ह्याराग्रे सर्षपाणामुपरि क्षिप्यमाणानां नावस्थितिः एवं भावानामपि, किन्तु स्वकारणादुत्पद्यन्ते विनश्यन्ति चेति तत्त्वम् , न पुनरतीतोऽनागतो वा तेषां कश्चित् सद्भावोऽस्ति, नाशा-ऽनुत्पत्या। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy