________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१५५ [पृष्ठ ६४] पं. १३. सम्यग्दृष्टेरर्हत्प्रणीतशास्त्रमितरद्वा श्रुतं यथास्वरूपावगमात् सम्यक्श्रुतम् । तदेव मिथ्यादृष्टेमिथ्याश्रुतम् , अन्य
थावगमात् ।
[पृष्ठ ६५] पं. १०. सत्यादय इवेति सम्प्रदायगम्यं संविधानकम् । अथ कियता श्रुतेन सम्यग्दृष्टिः स्यात् ? कियता मिथ्यादृष्टिः? 5 यद्वा कियत् सम्यक्श्रुतमेव भवति ? कियच्च मिथ्याश्रुतम् ? शेषस्य च मत्यादिज्ञानचतुष्टयस्य मध्ये मिथ्यात्वोदयात् कस्य विपर्यासो भवति ? कस्य च न ? इत्याशङ्कयोच्यते
चोदस दस य अभिण्णे नियमा सम्मं तु, सेसए भयणा ।
मइ-ओहिविवज्जासे वि होइ मिच्छं, न उण सेसे ॥१॥ [विशेषा० गा० ५३४] चतुर्दशपूर्वेभ्यः समारभ्य यावत् सम्पूर्णदशपूर्वाणि तावन्नियमात् सम्यक्श्रुतमेव भवति, न मिथ्याश्रुतम् , एतावच्छृतसद्भावे 10 सम्यग्दृष्टिरेव भवति न मिध्यादृष्टिरिति भावः । "सेसए भयण" ति शेषे' भिन्नदशपूर्वादिके सामायिकपर्यन्ते श्रुते 'भजना' विकल्पना, एतच्छृतसद्भावे कोऽपि सम्यग्दृष्टिः कश्चित्तु मिथ्यात्वोदयाद् विपर्यस्तो मिथ्यादृष्टिरपि भवति । ततश्चैतच्छ्रतं सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम् , मिथ्यात्वोदयाद् मिथ्याश्रुतमपि स्यादिति भावः । न केवलं चतुर्दश-दशपूर्व-सम्पूर्णश्रुतादन्यत्र मिथ्यात्वोदयः, किन्तु मत्यवधिविपर्यासे 'मिथ्यात्वं' मिथ्यात्वोदयो भवति, न पुनः ‘शेषे' मनःपर्याय-केवलज्ञानद्वये। इदमुक्तं भवति-मिथ्यात्वोदयान्मतिज्ञानं विपर्यस्तं सद् मत्यज्ञानं भवति, अवधिरपि तदुदयाद् विपर्यासमापन्नो विभङ्गव्यपदेशं लभते, मनःपर्याय-केवलज्ञाने तु 15 कदाऽपि मिथ्यात्वोदयाद् विपर्यासं न गच्छतः, तद्भावे मिथ्यात्वोदयस्यैवासम्भवात् ; मनःपर्यायज्ञानं हि चारित्रिण एव भवति, केवलज्ञानं तु क्षीणघातिचतुष्टयस्येति कुतस्तद्भावे मिथ्यात्वोदयः ? इति । एतच्चेह गाथोत्तरार्दोक्तमर्थजातं मिथ्यात्वोदयसम्भवा-sसम्भवप्रस्तावादनुषङ्गत एवोक्तम् , प्रस्तुतं पुनरत्र सम्यग्-मिथ्याश्रुतमेवेति ।। अत्र किल परः किश्चित् प्रेरयति
तत्तावगमसहावे सइ सम्म-सुयाण को पइविसेसो ? । जह नाण-दसणाणं भेओ तुल्लेऽवबोहम्मि ॥१॥ नाणमवाय-धिईओ, दंसणमिटुं जहोग्गहेहाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ॥२॥
20
[विशेषा० गा० ५३५-३६] उभयत्रापि तत्वावगमस्वभावत्वे तुल्ये सति कः सम्यक्त्व-श्रुतयोः प्रतिविशेषः ? येनोच्यते 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम्' इति । एतदुक्तं भवति-'रागादिदोषरहित एव देवता, तदाज्ञापारतन्त्र्यवृत्तय एव गुरवः, जीवादिकमेव तत्त्वम्, जीवोऽपि . नित्या-ऽनित्याद्यनेकस्वभावः कर्ता भोक्ता मिथ्यात्वादिहेतुभिः कर्मणा बध्यते, तपः-संयमादिभिस्तु ततो मुच्यते' इत्यादि बोधात्मकमेव सम्यक्त्वमुच्यते, श्रुतमप्येवमाद्यभिलापात्मकमेव, तदनयोः को विशेषः ? येनोच्यते 'सम्यक्त्वपरिगृहीतं सम्यकश्रुतम्' इति । अत्रो- 25 त्तरमाह-"जहे"त्यादि, यथा वस्त्ववबोधरूपत्वे तुल्येऽपि कथञ्चिद् ज्ञान-दर्शनयोर्भेदस्तथा तत्त्वावगमस्वभावे तुल्येऽपि सम्यक्त्वश्रुतयोरिहापि कथञ्चिद् भेदः ॥१॥ कथं पुनर्ज्ञान-दर्शनयोरन्यत्र तावद् भेद उक्तः ? इति चेत् , इत्याह
"नाणे"त्यादि । यथा अपायश्च धृतिश्चापाय-धृती, एते वचनपर्यायग्राहकत्वेन विशेषावबोधस्वभावत्वाद् ज्ञानमिष्टम् , अवग्रहश्चेहा चार्थपर्यायविषयत्वेन सामान्यावबोधाद् दर्शनम् , तथाऽत्रापि जीवादितत्त्वविषया रुचिः-श्रद्धानं सम्यक्त्वं भण्यते, येन पुनस्तद् जीवादितत्त्वं रोच्यते' श्रद्धीयते तद् ज्ञानम् । अयमत्राभिप्रायः-दर्शनमोहनीयकर्मक्षयोपशमादिना या तत्त्वश्रद्धानात्मिका 30 तत्त्वरुचिरुपजायते तया तत्त्वश्रद्धानात्मकं जीवादितत्त्वरोचकं विशिष्टं श्रुतं जन्यते, ततस्तत् श्रुताज्ञानव्यपदेशं परिहृत्य श्रुतज्ञानसंज्ञा समासादयति, एवं च सति परो मन्यते-विशिष्टतत्त्वावगमस्वरूपं श्रुतमेव सम्यक्त्वम् , न पुनस्तत् श्रुतं सम्यक्त्वादतिरिक्तं किश्चिदुप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org