________________
१५६
- मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं
लभ्यत इति कथमुच्यते 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम् ? इति । सिद्धान्तवादी तु मन्यते-यथा ज्ञान-दर्शनयोर्वस्त्ववबोधरूपतया एकत्वेऽपि विशेष-सामान्यग्राहकत्वेन भेदस्तथाऽत्रापि शुद्धतत्त्वावगमरूपे श्रुते तत्त्वश्रद्धानांशः सम्यक्त्वम् , तद्विशिष्टं तु तत्त्वरोचकं श्रुतज्ञानमित्यनयोर्भेदः । एतयोश्च सम्यक्त्व-श्रुतयोर्युगपल्लाभेऽपि कार्य-कारणभावाद् भेदः । उक्तं च
कारण-कजविभागो दीव-पगासाण जुगवजम्मे वि । जुगवुप्पन्नं पि तहा हेऊ नाणस्स सम्मत्तं ॥१॥
जुगवं पि समुप्पन्नं सम्मत्तं अहिगमं विसोहेइ । जह कयगमंजणाई जल-दिट्ठीओ विसोहिंति ॥२॥ [
अतो युक्तमुक्तं सम्यक्वपरिगृहीतं सम्यक्श्रुतम् , विपर्ययात्तु मिथ्याश्रुतमिति गाथाद्वयार्थः ॥२॥ गतं सप्रतिपक्षं सम्यक्श्रुतम्॥ - पं. १५. अधिकारवशादिति प्रतिपक्षसम्बन्धवशादित्यर्थः। पं. १६. पर्यायास्तिक-द्रव्यास्तिकनयाभ्यां साधनादिश्रतविचारोऽभिधीयते-व्यवच्छित्तिनयस्यानित्यवादिनः पर्यायास्तिकस्य मतेन सादि सपर्यन्तं च श्रुतम् , अनित्यत्वात् , जीवस्य
नारकादिगतिपर्यायवत् । तथाहि-श्रुतज्ञानिनां निरन्तरमपरापरे द्रव्याधुपयोगाः प्रसूयन्ते प्रलीयन्ते च, न च तेभ्योऽन्यत् किमपि 10 श्रुतमस्ति, श्रुतकार्यभूतस्य जीवादितत्त्वावबोधस्य श्रुतज्ञानरहिते वस्तुनि अदर्शनादिति, द्रव्यादिषु च श्रुतोपयोगः सादिः सपर्य
वसित एवेति । पं. १९. अव्यवच्छित्तिनयस्य नित्यवादिनो द्रव्यास्तिकस्याभिप्रायेणेदं श्रुतं अनादि अपर्यन्तं च, नित्यत्वात् , पश्चास्तिकायवत् । तथाहि-यैर्जीवद्रव्यैः श्रुतमिदमधीतम् यान्यधीयन्ते यानि चाध्येष्यन्ते तानि तावन्न कदाऽपि व्यवच्छिद्यन्ते इति तेषामनादिताऽपर्यन्तता च । ततः श्रुतस्यापि जीवद्रव्यपर्यायभूतस्य तदेव्यतिरेकान्नित्यद्रव्यरूपतैव, नहि सर्वथाऽसत् काप्युत्पद्यते, सिकतास्वपि तैलाद्युत्पत्तिप्रसङ्गात् ; नापि सतो निरन्वयनाशेनात्यन्तोच्छेदः, सर्वशून्यतापत्तेः, तस्मात् श्रुताधारद्रव्याणां सर्वदैव 15 सत्त्वात् तदव्यतिरेकिणः श्रुतस्यापि द्रव्यरूपतैवेति स्थितम् ।
[पृष्ठ ६६] पं. ३. अथवा नयविचारमुत्सृज्य द्रव्यादिचतुष्टयमाश्रित्याधिकृतमेवार्थ साधादिस्वरूपं चिन्तयति-तत्र द्रव्य-क्षेत्र-कालभावः श्रुतं सादिकमनादिकं सान्तमनन्तं च भवति । इह च द्रव्यतः श्रुतमेकं बहूनि च पुरुषद्रव्याण्याश्रित्य चिन्तनीयम् ।
तत्रैकपुरुषद्रव्यमङ्गीकृत्य सादि सनिधनं च श्रुतं भावयति कथमित्यादिना-यो येन भावेन पूर्वं नासीद् इदानी च जातः स तेन 20 भावेन तत्प्रथमो भवति, सम्यक्त्ववतः श्रुतस्य पाठस्तत्प्रथम इति सादिः, सम्यक्त्वात् च्युतस्य पुनर्मिथ्यात्वप्राप्तौ सपर्यवसितत्वम् ,
सति वा सम्यक्त्वे श्रुतलाभात् सादित्वम् , कारणान्तराद्वा तत्प्रतिपाते सान्तत्वम् । पं. ४. तान्येवाह-प्रमादेति, इहभवेऽपि प्रमादात् श्रुतस्य नाशो भवति, अपरस्य ग्लानावस्थायां नश्यति, कस्यचित् सुरलोकाख्यभवान्तरगमनेन नश्यति । किल कश्चिचतुर्दशपूर्वधरः साधुर्मृत्वा देवलोकं गतः, तत्र देवत्वे तत् पूर्वाधीतं श्रुतं न स्मरति सर्वमपि, देशेन त्वेकादशाङ्गलक्षणेन कश्चित्
स्मरत्यपि इति सम्पूर्णं भवान्तरगमनानश्यति । केवलोत्पत्तौ च कस्यचिदिहभवेऽपि श्रुतं नश्यति, "नम्मि तु छाउमथिए नाणे" 25 [ आव० नि० गा० ५३९ ] इति वचनात् , ततो लाभकाले तस्य सादित्वम् , प्रतिपाते तु सान्तत्वम् । पं. ५. एक
जीवद्रव्यापेक्षया चिन्तितं सादि-सपर्यवसितत्वम् । नानाजीवद्रव्यापेक्षया तु तदेव चिन्तयति-बहनित्यादि, द्रव्यविषये नानापुरुषान् नारक-तिर्यङ्-मनुष्य-देवगतान् नानासम्यग्दृष्टिजीवानाश्रित्य सम्यक्श्रुतं सततं वर्तते, अभूद् भवति भविष्यति च, न तु कदाचिद् व्यवच्छिद्यते, ततस्तानाश्रित्येदमनाद्यपर्यवसितं भवति । पं. ६. अथ क्षेत्रत एकद्रव्यं प्रतीत्य प्रथमभङ्गं निरूपयति-क्षेत्रत ति, क्षेत्रे चिन्त्यमाने भरतैरावतक्षेत्रेषु प्रथमतीर्थकरकाले सुषमदुःषमारूपे तद् भवतीति सादित्वम् । चरमतीर्थकृत्तीर्थान्ते त्ववश्यं
इति सपर्यवसितत्वम् । पञ्च महाविदेहक्षेत्राणि प्रतीत्य श्रुतज्ञानं सततं सर्वदैव वर्ततेऽतोऽनाद्यपर्यवसितम् । सामान्येन हि महाविदेहेत्सर्पिण्यवसर्पिण्यभावरूपनिजकालविशिष्टेषु द्वादशाङ्गश्रुतं कदापि न व्यवच्छिद्यते, तीर्थकर-गणधरादीनां तेष सर्वदैव
१ द्रव्य जेटि०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org