________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१५७ भावात् । पं. ८. काले त्वधिक्रियमाणे उत्सर्पिण्यवसर्पिण्यौ समाश्रित्य भरतैरावतेषु द्वयोरपि समयोस्तृतीयारके प्रथम भावात् सादित्वम् , उत्सर्पिण्यां चतुर्थस्थाऽऽदौ अवसर्पिण्यां तु पञ्चमस्यान्तेऽवश्यं व्यवच्छेदात् सपर्यवसितत्वम्। पं. १२. कालचक्रगाथास्त्रयोविंशतिसंख्याः सुगमाः । पं. १८. नवरम्-तुडिताङ्गेषु सङ्गीतं भवति, तत्र प्रेक्षार्थ गीतवाद्यं सङ्गीतमुच्यते । त्रुटितानि-बाहुरक्षकादीन्याभरणानि च । पं. २०. अणइन्नेसु व त्ति अनाग्न्येषु । पं. २१. अनेसु य त्ति दशातिरिक्तेषु । भवियपुणब्भवरहिय त्ति युगलधार्मिकत्वमनुभूय मृत्वा भूयोऽप्यनन्तरभावेन युगलधार्मिका न भवन्ति, किन्तु 5 देवत्वेनोत्पद्यन्ते, असंक्लिष्टपरिणामयोगात् ।
[पृष्ठ ६७] ___ पं. ७. भावओ णमित्यादि, भावे पुनर्विचार्यमाणे प्रज्ञापकं गुरुं श्रुतप्रज्ञापनीयांश्चार्थानासाद्य सादिसपर्यवसितं स्यात् । पं. १२. कथम् ? प्रज्ञापकसम्बन्ध्युपयोग १ स्वर २ प्रयत्न ३ आसनविशेषतः ४, उपयोगः-आन्तरः श्रुतपरिणामः, स्वर:-ध्वनिः, प्रयत्नः-ताल्वादिव्यापारविषयो यत्नः, आसनविशेषश्च-स्थानविशेषः । ततश्च 'प्रज्ञापके' गुरौ व्याख्यानादि कुर्वति 10 सत्येते भावा भवन्ति । एते च प्रतिक्षणमन्यथाभवनतोऽनित्यत्वात् सादि-सपर्यवसिताः। ततश्चैतानाश्रित्य वक्तुरनन्यत्वात् श्रुतमपि सादि-सपर्यवसितं भवति। पं. १४. एतदर्थाभिधायिनी [उवयोगसर० ] गाथा सुगमैव । पं. १६. अथवेत्यादिना प्रज्ञापनीयार्थगतान् भावानाह । तत्र अण्वादीनां गत्यादिप्रतिपादनात् सादि-सान्तत्वम् । नवरं गतिः-अण्वादीनां गमनपरिणामः, स्थितिः-तेषामेवावस्थितिपरिणामः, वर्णः--कृष्णादिः, आदिशब्दाद् भेद-सङ्घात-शब्द-रस-गन्ध-स्पर्श-संस्थानादिपरिग्रहः । नवरं भेदः-अण्वादीनामेवान्यसंयुक्तानां विघटनम् , सङ्घातस्तु-अन्यैः सह संयोगः, शब्दः-मन्द्र-मधुरादिः, रसादयः प्रतीताः । 15 एते गतिस्थित्यादयो भावाः पर्याया धर्माः प्रज्ञापनीयार्थेषु परमाण्वादिषु भवन्ति, अनित्यत्वाच्चामी सादि-सपर्यवसिताः, एते श्रुतस्य ग्राह्याः । ग्राहकं च ग्राह्यनिबन्धनं भवति, ग्राह्यं यत्स्वरूपं किल गृह्यते ग्राहकं तत्स्वरूपं ततो भवति, अतः श्रुतमपि सादिसपर्यवसितम् । क्षायोपशमिकभाव-भावश्रुतभावापेक्षयाऽनाद्यनन्तत्वं श्रुतस्य । पं. १८. यद्वा श्रुतस्य साद्यादिप्ररूपणायां सादि-सपर्यवसानपदद्वयोत्था चतुर्भङ्गी सम्भवति-सादिसपर्यवसितमित्यादिकेति । क्रमेण भावयति- पं. २३. द्वितीयस्तु प्ररूपणामात्रम् , असम्भवात् । विवक्षया सम्भवति वा, तामेवाऽऽह-अभव्यस्येत्यादि, वर्तमानकालापेक्षया सादित्वम् , 20 अनागताद्धापेक्षयाऽपर्यवसितत्वम् । इह किल सम्यग्-मिथ्याभावेनाविशेषितं श्रुतसामान्यमानं ग्राह्यम् , अत एव भव्यस्य एतत् श्रतमात्रम् , भव्यत्ववत् , अनादिकालादारभ्य भावादनादि, केवलोत्पत्तौ न भविष्यतीति सपर्यन्तम् । अभव्यस्य त्वभव्यत्ववद् जीवत्ववद्वा नियतं अनाद्यपर्यन्तम् , अभव्यस्य कदाचिदपि श्रुतमात्राव्यवच्छेदात् । पं. २६. अथ तृतीय-चतुर्थभङ्गौ श्रुतविषये भव्या-ऽभयौ प्रतीत्याभिहिती। मतेः श्रुताविनाभूतायास्तर्हि का वार्ता ? इत्याशङ्कयाऽऽह-इह चेत्यादि, एवमेव द्रष्टव्य इति । भव्या-ऽभव्यद्वारेण तृतीय-चतुर्थभङ्गद्वयं अनादिमतिभावेऽपि योज्यम् , अनादिमतिभावः सपर्यवसितः अनादिमतिभावोऽपर्यवसितः 25 भव्या-ऽभव्यौ प्रतीत्य । लाभकाले तस्य सादित्वम् , प्रतिपाते तु सान्तत्वमिति सादिसान्तता । कथं पुनस्तत्प्रतिपातसम्भवः ? यदि जीवात् तत् श्रुतं भिन्नं तदा श्रुतस्य युज्येत नाशः, नाभिन्नस्य; अथ भिन्नमेव तत् तस्मात् तर्हि भिन्नश्रुतसद्भावेऽपि जीवोऽज्ञान्येव नित्यं स्यात् , श्रुतस्वभावरहितत्वाच्छूतप्रकाश्यमर्थं न पश्येत्, यथाऽन्धः आत्मव्यतिरिक्तेन हस्तंगतेनापि प्रदीपेन न तत् प्रकाश्यमर्थं पश्यति । अत्रोच्यते-हन्त ! श्रुतज्ञानं नियमाज्जीवस्वभावमेव, नाजीवस्वभावम् ; जीवः पुनः श्रुतमेव केवलं न भवति, किन्त्वसौ श्रुतज्ञानं भवेत् श्रुताज्ञानं वा, मतिज्ञानं मत्यज्ञानं वा, विभङ्गोऽवधि-मनःपर्याय केवलज्ञानं वेति । यदि 'श्रुतज्ञानं 30 जीवस्वभावमेव' इतीष्यते तर्हि 'जीवात् तदव्यतिरिक्तम्' इति स्वत एवान्युपगतम् , युक्तं चैतत् , एवं हि सति युज्यते जीवस्य श्रुतकृतवस्त्ववबोधाद् ज्ञानित्वम् , केवलं श्रुतस्य नाशे जीवस्य नाशः स्यात् , तदव्यतिरेकात् , यद् यतोऽव्यतिरिक्तं तस्य विनाशे तद् विनश्यत्येव, यथा घटस्वरूपविनाशे घटवस्विति, तदयुक्तम् , अस्तु श्रुतस्य नाशे जीवस्य तत्पर्यायविशिष्टतामात्रान्वितस्य नाशः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org