________________
१४६
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मित
विशेषात्मकत्वे सत्यप्यर्थावग्रहेण सामान्यरूपमेवार्थ गृह्णाति, न विशेषरूपम् , अर्थावग्रहस्यैकसामयिकत्वात् , समयेन च विशेषग्रहणायोगादिति । सामान्यार्थश्च कश्चिद् ग्राम-नगर-वन-सेनादिशब्देन निर्देश्योऽपि भवति तद्वयवच्छेदार्थमाह-'अनिर्देश्य केनापि शब्देनानभिलप्यम् । कुतः पुनरेतत् ? इत्याह-यतः स्वरूप-नामादिकल्पनारहितम् , आदिशब्दाजाति-क्रिया-गुण-द्रव्यपरिग्रहः ।
तत्र रूप-रसाद्यर्थानां य आत्मीयश्चक्षुरादीन्द्रियगम्यः प्रतिनियतः स्वभावः तत् स्वरूपम् । रूप-रसादिकस्तु तदभिधायको ध्वनि5 र्नाम । रूपत्व-रसत्वादिका तु जातिः । 'प्रीतिकरमिदं रूपम् , पुष्टिकरोऽयं रसः' इत्यादिकस्तु शब्दः क्रियाप्रधानत्वात् क्रिया ।
कृष्ण-नीलादिकस्तु गुणः । पृथिव्यबादिकं पुनद्रव्यम् । एषां स्वरूप-नाम-जात्यादीनां कल्पना-अन्तर्जल्पारूषितज्ञानरूपा तया रहितमेवार्थमर्थावग्रहेण गृह्णाति यतो जीवः, तस्मादनिर्देश्योऽयमर्थः प्रोक्तः, तत्कल्पनारहितत्वेन स्वरूप-नाम-जात्यादिप्रकारेण केनापि निर्देष्टुमशक्यत्वादिति । एवमुक्ते सति परः प्राह-"जइ एव"मित्यादि, यदि स्वरूप-नामादिकल्पनारहितोऽर्थोऽर्थावग्रहस्य विषय
इत्येवं व्याख्यायते भवद्भिस्तर्हि “जं" ति यद् नन्द्यध्ययनसूत्रे प्रोक्तम् , किम् ? इत्याह-"तेणं गहिए सद्दे" त्ति, उपलक्षणवादित्थं 10 सम्पूर्ण द्रष्टव्यम्-"से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेजा, तेणं 'सद्दे' त्ति उग्गहिए, न उण जाणइ 'के वेस सद्दाइ' त्ति
"तं किह गु" ति तदेतत् कथमविरोधेन नीयते ?, युष्मद्व्याख्यानेन सह विरुध्यत एवेदमित्यर्थः । तथाहि-अस्मिन् नन्दिसूत्रेऽयमर्थः प्रतीयते, यथा-अनेन प्रतिपत्त्राऽर्थावग्रहेण शब्दोऽवगृहीत इति, भवन्तस्तु शब्दाद्युल्लेखरहितं सर्वथाऽमुं प्रतिपादयन्ति तत्कथं न विरोधः ? इति भाव इति गाथार्थः ॥ १ ॥ अत्रोत्तरमाह
पं. २९. सद्दे त्ति भणइ वत्ता, तम्मत्तं वा न सद्दबुद्धीए। 15
जइ होज सद्दबुद्धी तोऽवाओ चेव सो होजा ॥२॥ 'शब्दस्तेनावगृहीतः' इति यदुक्तं तत्र 'शब्दः' इति 'वक्ता' प्रज्ञापकः सूत्रकारो वा 'भणति' प्रतिपादयति, अथवा 'तन्मात्रं' शब्दमात्रं रूप-रसादिविशेषव्यावृत्त्याऽनवधारितत्वाच्छन्दतयाऽनिश्चितं गृह्णातीति एतावतांशेन शब्दस्तेनावगृहीत इत्युच्यते, न पुनः 'शब्दबुद्ध्या' शब्दोऽयमित्यव्यवसायेन तच्छब्दवस्तु तेनावगृहीतम् , शब्दोल्लेखस्यान्तर्मोहूर्तिकत्वाद् अर्थावग्रहस्य त्वेकसामयिकत्वाद
सम्भव एवायमिति भावः । यदि पुनस्तत्र शब्दबुद्धिः स्यात् तर्हि को दोषः स्यात् ? इत्याशङ्कय सूत्रकारः स्वयमेव दूषणान्तर20 माह-“जई"त्यादि यदि पुनरर्थावग्रहे 'शब्दबुद्धिः' शब्दनिश्चयः स्यात् तदाऽपाय एवासौ स्यात् , न त्वर्थावग्रहः, निश्चयस्यापाय
स्वरूपत्वात् । ततश्चार्थावग्रहेहाभाव एव स्यात्, न चैतद् दृष्टमिष्टं वेति गाथार्थः ॥ २॥ अत्राह परः-ननु प्रथमसमय एव रूपादिव्यपोहेन 'शब्दोऽयम्' इति प्रत्ययोऽर्थावग्रहत्वेनाभ्युपगम्यताम् , शब्दमात्रत्वेन सामान्यत्वात् ; उत्तरकालं तु प्रायो माधुर्यादयः शङ्खशब्दधर्मा इह घटन्ते, न तु शार्ङ्गधर्माः खर-कर्कशत्वादय इति विमर्शबुद्धिरीहा, तस्मात् 'शाङ्ख एवायं शब्दः' इति तद्विशेषस्वपायोऽस्तु, तथा च सति "तेणं सद्दे त्ति उग्गहिए” इदं यथाश्रुतमेव व्याख्यायते, “नो चेव णं जाणइ के वेस सदाई ? तओ 25 ईहं पविसई"त्याद्यपि सर्वमविरोधेन गच्छतीति । तदेतत् परोक्तं सूरिः प्रत्यनुभाष्य दूषयति, यथापं. ३०. जइ सद्दबुद्धिमत्तयमवग्गहो, तव्विसेसणमवाओ।
नणु सदो नासद्दो, न य रुवाई विसेसोऽयं ॥ ३ ॥ भोः पर ! यदि 'शब्दबुद्धिमात्रं' शब्दोऽयमिति निश्चयज्ञानमपि भवताऽर्थावग्रहोऽभ्युपगम्यते 'तद्विशेषणं तु' तस्य-शब्दस्य विशेषणं-विशेषः 'शाङ्ख एवायं शब्दः' इत्यादिविशेषज्ञानमित्यर्थः, 'अपायः' मतिज्ञानतृतीयभेदोऽङ्गीक्रियते, हन्त तर्हि अवग्रहलक्षणस्य 30 तदाबभेदस्याभावप्रसङ्गः, प्रथमत एवावग्रहमतिक्रम्यापायाभ्युपगमात् । कथं पुनः शब्दज्ञानमपायः ? इति चेत्, उच्यते-तस्यापि विशेषग्राहकत्वात् , विशेषज्ञानस्य च भवताऽप्यपायत्वेनाभ्युपगतत्वात् । ननु 'शाङ्क एवायं शब्दः' इत्यादिकमेव तदुत्तरकालभावि ज्ञानं विशेषग्राहकम् , शब्दज्ञाने तु शब्दसामान्यस्यैव प्रतिभासनात् कथं विशेषप्रतिभासः ? येनापायप्रसङ्गः स्यात् , इत्याह-"नणु"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org