________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
[ पृष्ठ ५१]
पं. १३. अप अयः - सामस्त्येन
पं. २. सद्धर्मानुगत इति, सद्धर्मणि - वस्तुनि अनुगतः सद्धर्मानुगतः । परिच्छेदोsपायः, मधुर-स्निग्धत्वादिगुणत्वात् 'शङ्खस्यैवायं शब्दः, न शृङ्गस्य' इत्यादि यद विशेषविज्ञानं सोऽपायः । पं. २२. अपायेन निश्चितेऽर्थे तदनन्तरं यावदद्यापि तदर्थोपयोगे सातत्येन वर्त्तते, न तु तस्मान्निवर्त्तते, तावत् तदर्थोपयोगाद् अविच्युतिर्नाम धारणायाः प्रथमभेदो भवति । पं. २५. यत् कर्मक्षयोपशमवशाज्जीवस्य कालान्तरे इन्द्रियव्यापारादि - 5 सामग्रीवशात् पुनरप्यपायावधारितोऽर्थः स्मृतिरूपेणोन्मीलति सा संस्काररूपा वासना नाम धारणाभेदः । कालान्तरे च वासनावशात् तदर्थस्येन्द्रियैरुपलब्धस्याथवा तैरनुपलब्धस्यापि मनसि या स्मृतिराविर्भवति सा तृतीयस्तद्भेदः । पं. २७. अत्र मतिदौर्बल्यादिकारणकलापादवग्रहेहादीनां दुर्विज्ञेयत्वेऽपि सर्वज्ञमतप्रामाण्यादवितथात्वमेव भावनीयमित्यावेदयन्नाह - इह चेत्यादि । पं. २९ एकाधिकरणत्वाद् एकाश्रयत्वात् ।
[ पृष्ठ ५३ ]
पं. ३. न पुनर्विंशत्येत्यादि, विंशतिदिनापेक्षया यथा अपान्तराल आसन्नो योऽसावागमनसमयः कालविशेषरूपस्तद्दिनभावी अतिक्रान्तप्राचीनदिननिरपेक्षः पथिकस्य गृहप्रवेशकारणम्, न तथा प्रकृते प्राचीन समयरहितचरमासंख्येयसमयप्रविष्टपुद्गलराशिरप्यर्थावग्रह कारणम्, किन्त्वादित आरभ्य प्रतिसमयप्रवेशेन निरन्तरमसंख्येयसमयप्रविष्टाः पुद्गलाः शब्दविज्ञानजनकार्थावग्रहहेतवो भवन्तीति भावः । स्फुटशब्दविज्ञानहेतवश्च चरमसमयप्रविष्टा एव यद्यपि भवन्ति, नेतरे, तथापीतरे तत्साहाय्यभावेन व्याप्रियन्त इत्योघतः सर्वेषां सामान्येन ग्रहणमुच्यते ।
१४५
सामण्णमणिद्देसं सरूव-नामाइकप्पणा रहियं ।
जइ एवं जं 'तेण गहिए सदे' त्ति तं किह णु ? ॥ १ ॥
“अन्वत्तमनिद्देस" मिति वृत्तौ पाठो दृश्यते । तत्र “अव्वत्तं" इति विवृणोति । सामन्नमिति । ग्राह्यवस्तुनः सामान्य
१ यद्यपि एतत् पदं वृत्तौ न वर्त्तते तथापि " शेषं सुगमम् " इत्यादिना सूत्रगतमवबोद्धव्यम् ॥ टी० १९
[ पृष्ठ ५४ ]
पं. ४.
पं. ६. सम्बन्धो वेति
पं. १. अथ ‘केयं मल्लकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणा ? ' इति पृष्टे तां वक्तुमाह- तद् यथेत्यादिना । "मयं पवाहेहि" त्ति लावयिष्यति । पं. ५. व्यञ्जनं पूरितं भवति तोयेन मल्लकमिव । द्रव्य - इन्द्रियोः सम्बन्धः । यदा द्रव्यं व्यञ्जनमिति, शब्दादिविषयपरिणतपुद्गलसमूहरूपम् । पं. ७. स्वविषयव्यक्ताविति स्वग्राहकज्ञानजनने | पं. ८. आभृतमिति, वासितमित्यर्थः । पं. ९. नाम-जात्यादिकल्पनारहितमिति, एतच्च " ताहे 20 हुं ति करेइ" इत्यस्य व्याख्यानम् । पं.११. अत्रार्थावग्रहात् पूर्वमिति अन्तर्मुहूर्त्त द्रव्यप्रवेशादिरूप इत्यर्थः । पं. १२. इदानीं “ से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेजा” इत्यादिकस्य वक्ष्यमाणसूत्रस्य व्याख्यानाय समवतारं कुर्वन् पातनात्रयं करोति-अत्राहेत्यादिना आधेयम्, अथवा यदुक्तमित्यादिका द्वितीया, अथवा सुप्तेत्यादिना तृतीयेति । पं. १७. अव्यक्तमिति अनिर्देश्यम्, कोऽर्थः 'शब्दोऽयम्, रूपादिव' इत्यादिप्रकारेण निर्देष्टुमशक्यमव्यक्तम् । स्वरूप - नामादीति, आदिशब्दाद जाति-गुण-क्रिया- द्रव्यग्रहः । पं. १८. तस्य चेति अर्थावग्रहस्य । पं. १९. आहेति परो ब्रूते । 25 पं. २३. सम्बद्धमिति युक्तमित्यर्थः । नैतदेवमित्यादिना सूरिः प्रतिविधत्ते । पं. २५. न तु शब्दबुद्धयेति 'शब्दोऽयम्' इत्यध्यवसायेनेति न । तस्यैवेति, अर्थावग्रहं विनैव 'तस्यैव' शब्दमात्रस्यापायप्रसङ्गात् । पं. २८. तस्माद् व्यञ्जनापूरणे जातेऽयक्तमनिर्देश्यस्वरूपं शब्दाद्युल्लेख रहितमर्थमात्रमवगृह्णाति । एतदेवाऽऽह भाष्यकारः - अव्वत्तेत्यादि ।
Jain Education International
For Private Personal Use Only
10
15
30
www.jainelibrary.org