________________
१४४
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं इंदकुमारियापओगाओ चाणके पुब्वभणितं । एसा परिणामिता २२ ॥
एए चउबिहबुद्धिअक्खाणयासमत्ता ।। पं. १६. अवग्रह इत्यादि । 'किमपीदम्' इत्यव्यक्तज्ञानरूपार्थावग्रहादधोऽध्यक्ततरं ज्ञानमात्रमित्यर्थः । 'किमपीदम्' इत्यव्यक्तज्ञानं वाऽर्थावग्रहः । व्यञ्जना-ऽर्थयोरेवावग्रहणेन विषयद्वैविध्यादवग्रहस्य द्वैविध्यं भवति । पं. २४. तत्रापि 5 प्राप्यकारिष्विन्द्रियेषु व्यञ्जनावग्रहादनन्तरमेवार्थावग्रहो भवतीति व्यञ्जनावग्रह आदौ निरूपितः। पं. २६. नयन-मनसोरियादि, विषयभूतं वस्तु अप्राप्य-संश्लेषद्वारेणानासाद्य करोति-परिच्छिनत्ति चक्षुःकर्तृ विषयपरिच्छेदमित्यप्राप्यकारि तदुच्यते । अप्राप्यकारि लोचनम् , ग्राह्यवस्तुकृतानुग्रहोपघातशून्यत्वात् , मनोवत् , यदि हि लोचनं ग्राह्यवस्तुना सह सम्बध्य तत्परिच्छेदं कुर्यात् तदाऽन्यादिदर्शने स्पर्शनस्येव दाहाद्युपधातः स्यात् , कोमलतूल्याद्यवलोकने त्वनुग्रहो भवेत् , न चैवम् , तस्मादप्राप्य
कारि लोचनम् । अथ प्रागुक्तोऽसिद्धो हेतुः, ग्राह्यवस्तुकृतानुग्रहोपघातदर्शनात् । तथाहि-जल-घृत-नीलवसन-वनस्पतीन्दुमण्डलाद्य10 वलोकने नयनस्य परमाश्वासलक्षणोऽनुग्रहः समीक्ष्यते, सूर-सितभित्त्यादिदर्शने तु जलविगलनादिरूप उपघातः सन्दृश्यत इति,
अत्रोच्यते, नहि वयमेतद् ब्रूमः-यदुत चक्षुषः कुतोऽपि वस्तुनः सकाशात् कदापि सर्वथैवानुग्रहोपघातौ न भवतः, किन्तु भवत एव, रविकरान् चिरमवलोकयतो द्रष्टुः चक्षुः स्पर्शनेन्द्रियमिव दह्येत, शीतलं च शीतरश्मि-जल-घृतादिकं वस्तु चिरमवलोकयतोऽनुग्रहं मन्येत चक्षुरित्येतावता अप्राप्यकारिचक्षुर्वादिनामस्माकं न कश्चिद् दोषः, दृष्टस्य बाधितुमशक्यत्वात् । केवलमिदमेवा
स्माभिर्नियम्यते--यदुत विषयदेशं गत्वा आदित्यमण्डलादिसमाक्रान्तदेशं समाश्लिष्य चक्षुःकर्तृ न रूपं परिच्छिनत्ति, नाप्यन्यत15 श्चक्षुःदेशमागतं रूपमक्षिस्थमञ्जन-तेजो-मल-शलाकादिकं स्वयं चक्षुः पश्यति, किन्त्वप्राप्तमेव योग्यदेशस्थं विषयं तत् पश्यतीति ।
परिच्छेदानन्तरं तु पश्चात्प्राप्तेन केनाप्युपधातकेनानुग्राहकेग वा मूर्त्तिमता द्रव्येण चक्षुष उपघाताऽनुग्रहौ न निषिध्येते, विषशर्करादिभक्षणे मूर्छा-स्वास्थ्यादय इव मनसः। पं. ३० परः प्राह-नयनान्नायना रश्मयो निर्गत्य प्राप्य च रविबिम्बरश्मय इव वस्तु प्रकाशयन्तीति सूक्ष्मत्वेन तैजसत्वेन च तेषां वह्यादिभिर्दाहादयो न भवन्ति, रविरश्मिषु तथादर्शनादिति नयनस्य प्राप्यकारिताऽभिधीयते, तदयुक्तम् , महाज्वालादौ प्रतिस्खलनदर्शनात् आदिग्रहणात् तेषां प्रत्यक्षादिप्रमागाग्राह्यत्वेन 20 श्रद्धातुमशक्यत्वात् , प्रमाणाग्राह्यस्याप्यस्तित्वकल्पनेऽतिप्रसङ्गादिति ग्राह्यम् । तथाऽचेतननायनरश्मीनां वस्तुपरिच्छेदाभ्युपगमे नख-दन्त-भालतलादिगतशरीररश्मीनामपि स्पर्शविषयवस्तुपरिच्छेदप्रसङ्गाच्चेति ।
[पृष्ठ ५०] पं. १०. "तस्स णं इमे" । इत्यादि पं. ११. एकाथिकानि परमार्थत एकार्थविषयाणि नानाघोषाणि पृथग्भिन्नोदात्तादिस्वराणि नानाव्यञ्जनानि पृथग्भिन्नककाराद्यक्षराणि नामधेयानि पर्यायध्वनयः । यथाऽवग्रहस्य पञ्च नामधेयानि 25 एवमीहायाः षडभेदायास्तथाऽपायस्य धारणायाश्च पञ्च नामधेयानि क्रमेण दर्शयिष्यति ।
पंचहि वि इंदिएहिं, मणसा अत्थोग्गहो मुणेयव्यो ।
चक्खिदिय-मणरहियं, बंजणमीहाइयं छद्धा ॥१॥ [जीवसमास गा०६२] पं. २१. किं मन्द्र इति गम्भीरः तार उच्चैस्तरध्वनिमान् । पं. २२. यत्रेति नयन-मनसोर्विषये व्यञ्जनावग्रहो नास्ति । तत्र चतुर्विधव्यञ्जनावग्रहविषये अवग्रहणता-उपधारणतालक्षणभेदद्वयस्याभावः । पं. ३०. ईहायां मागंणतेति 30 किमयं स्थाणुः पुरुषो वा ?' इति वितर्के 'वल्लयुत्सर्पण-काकनिलयनादिधर्मदर्शनात् स्थाणुना भाव्यम् , नेतरेण, शिरःकण्डूयन
चलनादितदीयधर्मादर्शनात्' इत्येवं व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मघटनप्रवृत्तश्चापायाभिमुख एव बोध ईहा इति । एवमीहायामेषां धर्माणां यदन्वेषणं सा मार्गणता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org