Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 190
________________ श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् । श्री १६३ तानि च तानि कार्याणि चेति विग्रहः । यथा गवि स्थितं शृङ्गं सर्वजनप्रकटं भवति, एवं यत् सर्वजनविदितं महदद्भुतं किञ्चिच्चैत्यगुरु-सङ्घादिविषयमनर्थरूपं प्रत्यनीकेन क्रियमाणं भवति तत् शृङ्गज्ञातीयमुच्यत इत्येके । शृङ्गनादितकार्यमित्यपरे, तत्र तादृशे कार्ये उत्पन्ने शृङ्गनादः-शृङ्गापूरणपूर्वकं सङ्घमिलनलक्षणः स सञ्जातो यत्र तच्च तत् कार्य चेति व्याचक्षते । गज्ञातीयं शृसङ्घकार्यमुच्यते इति तात्पर्यम् । पं. १२. आसुरुप्तः रुष्टः, अत एव 'अप्रसन्नलेश्यः' अप्रशस्तचित्ताध्यवसायः। पं. १७. सललियं ति सलीलं यथा भवति एवमागत्य स्वस्थाने निवसति । पं. २३. जाणि कप्पविमाणाणि त्ति देव्युत्पत्ति- 5 विषयाणीत्यर्थः । [पृष्ठ ७४] पं. १३. अन्ने इत्यादि, उसभाईणं संधराणं ति जीवतामित्यर्थः । पं. १४. पवाहेण त्ति निवृतानां पुनरेकैकतीर्थे बहूनि द्रष्टव्यानि । पं. २०. तच्छिष्यभाव इति शासनप्रणेतृतीर्थकरशिष्यभावः प्रत्येकबुद्धानामप्यदुष्टः । पं. २१. अनियोगत (न तु नियोगत) इति न त्ववश्यम्भावेनेत्यर्थः । पं. २६. अङ्गेषु प्रविष्टम्-अन्तर्गतमङ्गप्रविष्टं 10 श्रुतमाचारादि । [पृष्ठ ७५] पं.१०. बाह्या-ऽभ्यन्तरग्रन्थरहितानामिति, तत्र बाह्यः-धन-धान्यादिकः प्रतीतः, अभ्यन्तरश्च-मिथ्यात्वं नव नोकषायाः क्रोधादिकषायचतुष्टयं चेति चतुर्दशविधः। पं. १७. इह च यत्रेत्यादि आचार-गोचर-विनयेत्यादौ सूत्रे । पं. २३. निस्संकिय० गाहा, 'निःशङ्कितः' निर्गतशङ्को जीवादिषु । 'निष्काङ्कितः' निर्गतकाङ्गोऽन्यतीर्थिकमतेषु । 'निर्विचिकित्सः' नि:- 15 सन्दिग्धोऽनुष्ठानफलं प्रति । अमूढदृष्टिः कुतीकिविद्यादिदर्शनैः । 'चः' समुच्चये। एवं गुण-गुणिनोः कथञ्चिदभेदावेदनद्वारेण दर्शनाचारमभिदधता तद्वदभिधानमुखेनाऽसावुक्तः, अतस्तं गुणिनो भेदेनाप्याह-उपबृंहणमुपबृंहा-गुणवत्स्तुतिरूपा । 'स्थिरीकरणं' धर्मे चलाचलस्य स्थिरत्वापादनलक्षणम् । तथा 'वात्सल्यं' वत्सलभावः, साधर्मिकाणामाहारादिभिरुपष्टम्भकरणमित्यर्थः । तथा प्रकर्षण भावना-जिनशासनमाहात्म्याविष्करणरूपा । अष्टावमी दर्शनाचारा इत्यर्थः । पं. २५. प्रभावकानष्टावुद्दिष्टानाह-अइसेस० गाहा, व्याख्या-अतिशेषाः-अवधिज्ञानादयः, ते तैर्वा ऋद्धिर्यस्याऽसावतिशेषर्द्धिः, भिन्ने वा पदे, तद्वन्तौ दृश्यौ १। 'आचार्यः' 20 प्रावचनिकः २ । 'वादी' वादलब्धिमान् ३ । 'धर्मकथी' धर्मकथालब्धियुक्तः ४ । 'क्षपकः' विकृष्टतपःकर्ता ५ । 'नैमित्तिकः' सुनिश्चितातीतादिनिमित्तवेदी ६ । विद्येत्युपलक्षणत्वाद् विद्यावान् ७ । 'राज-गणसम्मताः' पृथिवीपति-महाजनादिबहुमताः, स्थानद्वयमिदं एकं वा ८, अतिशेपद्धर्येकत्वविवक्षायाम् । 'तीर्थ' प्रवचनं स्वसमृद्ध्या 'प्रभावयन्ति' मध्यस्थप्राणिनां बहुमानगोचरीकुर्वन्तीति गाथार्थः।। पं.२८. प्रणिधानं-चित्तकाग्रता, तेन मनो-वाकायेषु योगेषु युक्तः-तन्निग्रहपरः। पं. ३२. न इहलोकाद्यर्थमाजीवति तपसा यः सोऽनाजीवी। [ पृष्ठ ७६] पं. ७. 'वेढाः' छन्दोविशेषाः 'एकार्थप्रतिबद्धवचनसङ्कलिकेत्यर्थः' इत्यन्ये। पं. ९. द्रव्याघभ्युपगमाः प्रतिपत्तयः, मतान्तराणीत्यर्थः । सूत्रादों गरीयान् , अत एव सूत्रधरादर्थधरः प्रधान इत्युच्यते । पं. ११. स्थापनामित्यादि, रचनापेक्षया तु द्वादशमङ्गं प्रथमम् , पूर्वगतस्य पूर्व प्रवचनात् पूर्व क्रियमाणत्वात् पूर्वाण्युच्यन्ते । स्थापनामधिकृत्य च आचारः प्रथममङ्गम् । पं. १३. सत्थपरिन्नेत्यादिगाथायामत्र चतुर्थपादो महापरिनोवहाणसुयमिति वक्ष्यमाणव्याख्यानेनायमेवात्र 30 पाठः । अन्यत्र च "उवहाणसुयं महपरिने"ति पठ्यते तच्चेह नोपपद्यते, उद्देशनकालसंख्याया विघटनात्, महापरिज्ञायास्तत्र प्रथममुपादानात् पश्चादुपधानश्रुतस्येति । प्रथमश्रुतस्कन्धो नवाध्ययननिष्पन्नो भवति । पिंडेसणेत्यादिना द्वितीयश्रुतस्कन्धाध्ययनषोडशकम् । तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248