Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
।
१७४
श्री-श्रीचन्द्रसूरिविनिर्मितटीकासमेता हियागयं वा सिद्धिसिलातलगतं वा अहो णं इमेणं सरीरसमुस्सएणं 'अणुण्ण'त्ति पयं आघवियं पण्णवियं परूवियं दंसियं णिदंसियं उवदंसियं, जहा को दिटुंतो? अयं घयकुंभे आसी, अयं महुकुंभे आसी । से त्तं जाणगसरीरदव्वाणुण्णा।
८. से ति अथ केयं ज्ञशरीरद्रव्यानुज्ञा ? उच्यते-अणुघ्न त्ति इत्यादि, ज्ञातवानिति ज्ञः तस्य शरीर-देहो ज्ञशरीरं 5 तदेवानुभूतभावत्वाद् द्रव्यानुज्ञा। यच्छरीरकं द्रव्यानुज्ञा तत् कस्य सम्बन्धि इत्याह-अनुज्ञेति यत् पदं तस्य योऽसावर्थाधिकारः
अर्थघटनव्युत्पत्तिरूपः तं ज्ञातवतः सम्बन्धि । कथम्भूतं सदिदं ज्ञशरीरं द्रव्यानुज्ञा भवति? इत्याह-व्यपगतच्युतच्यावितत्यक्तदेहं जीवविप्रमुक्तमित्यक्षरघटना । तत्र व्यपगतं-चैतन्यपर्यायादचैतन्यलक्षणं पर्यायान्तरं प्राप्तम् । अत एव च्युतं-उच्छ्वास-निःश्वासजीवनादिदशविधप्राणेभ्यः परिभ्रष्टम् अचेतनस्योच्छ्वासाद्ययोगात् ; प्राणेभ्यश्च स्वभावतो न परिभ्रंशः किन्तु च्यावितं-बलीयसा
आयुःक्षयेण तेभ्यः परिभ्रंशितम् । एवं च सति कथम्भूतं तत् ? इत्याह-त्यक्तदेहं-"दिह उपचये" त्यक्तो देहः-आहारपरिणति10 जनित उपचयोन्येन तत् त्यक्तदेहम् , अचेतनस्याहारग्रहण-परिणत्योरभावात् । एवं प्रदर्शितविधिना जीवेन-आत्मना विविधम्
अनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तम् । तदेतदनुज्ञापदार्थज्ञस्य शरीरकमतीतानुज्ञाभावस्य कारणत्वाद् द्रव्यानुज्ञा, नोआगमत्वं चास्यास्तदानीमागमस्य सर्वथाऽभावात् । भूयः कथम्भूतं शरीरकम् ? इत्याह-सेज्जागयं वेत्यादि शय्या-महती सर्वाङ्गप्रमाणा तां गतं शय्यास्थितमित्यर्थः । संस्तारः-अर्द्धतृतीयहस्तमानस्तं गतं तत्रस्थम् । नैषेधिकी-शबपरिस्थापनभूमिस्तां गतं-प्राप्तम् । यत्र
महर्षिः कश्चित् सिद्धस्तत् सिद्धशिलातलं तद्गतं तत्र स्थितमिति । भक्तपरिज्ञाद्यनशनप्रतिपत्तिभूमिळ सिद्धशिलातलं तद्गतम् । अहो 15 णमिति अहोशब्दो अन्यपार्श्वस्थितामन्त्रणे, अनेन' प्रत्यक्षतया दृश्यमानेन शरीरमेव पुद्गल सङ्घातत्वात् समुच्छ्यस्तेन अनुज्ञेति पदं
'आघवियं'ति छान्दसत्वाद् गुरोः सकाशादागृहीतं तदावरणकर्मक्षयोपशमात्, 'प्रज्ञापितं' अन्येभ्यः कथितम् , 'प्ररूपितं तेभ्य एव तदर्थकथनतः, 'दर्शितं' सान्वयोऽयं शब्दो न तु मण्डपादिवन्निरन्वय इत्येवं शिष्येभ्यः प्रकटितम् , 'निदर्शितं' परस्य कथञ्चिदगृहृतः परयाऽनुकम्पया निश्चयेन पुनः पुनर्निवेदितम् , 'उपदर्शितं' पुनः पुनः स्मरणतः । आह नन्वनेन शरीरसमुच्छ्रयेणाऽनुज्ञापदमागृहीतमित्यादि नोपपद्यते, ग्रहण-प्ररूपणादीनां जीवधर्मत्वेन शरीरस्याघटमानकत्वात् , सत्यम् , किन्तु भूतपूर्वगत्या जीव20 शरीरयोरभेदोपचारादित्थमुपन्यास इत्यदोषः । यथा कोऽत्र दृष्टान्तः ? इति पृष्टे सत्याह-यथा अयमित्यादि । एतदुक्तं भवति
यथा घृते मधुनि वा प्रक्षिप्यापनीते तदाधारत्वपर्यायेऽतिक्रान्तेऽपि अयं घृतकुम्भ इत्यादि व्यपदेशो लोके प्रवर्त्तते तथाऽनुज्ञापदार्थवेत्तृत्वपर्यायेऽतिक्रान्तेऽप्यतीतपर्यायानुवृत्त्या द्रव्यानुज्ञेयमुच्यते । इतीयं ज्ञशरीरद्रव्यानुज्ञा ॥
९. से किं तं भवियसरीरदव्वाणुण्णा ? भवियसरीरदवाणुण्णा जे जीवे जम्मणजोणीणिक्खते इमेणं चेव सरीरसमुस्सएणं आदत्तेणं जिणदिट्ठणं भावेणं 'अणुण्ण'त्ति पयं सेयकाले 25 सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिलुतो ? अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । से त्तं भवियसरीरदव्वाणुण्णा ।
९. अथ केयं भव्यशरीरद्रव्यानुज्ञा ? इति पृष्टे सत्याह-जे जीवे इत्यादि विवक्षितपर्यायेण भविष्यतीति भव्यः-विवक्षितपर्यायाहः तद्योग्य इत्यर्थः तस्य शरीरं तदेव भाविभावानुज्ञापदार्थवेत्तृत्वकारणत्वाद् द्रव्यानुज्ञा भव्यशरीरद्रव्यानुज्ञा । किं पुनस्तत् ?
इत्यत्रोच्यते-यो जीवो योनीजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्येण 'आत्तेन' गृहीतेन 'जिनदृष्टेन' तीर्थकराभिमतेन 'भावेन' 30 तदावरणकर्मक्षयोपशमलक्षणेनानुज्ञेति पदमागामिनि काले शिक्षिष्यते न तावच्छिक्षते तद् जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यानुज्ञेति समुदायार्थः । अवयवार्थस्तु-यः कश्चिद् 'जीवः' जन्तुः योन्या:-योषिदवाच्यदेशलक्षणायाः परिपूर्णसमस्तदेहो जन्मत्वेन-जन्म
१ पयं सेए काले खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248