Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 210
________________ 10 श्रीहरिभद्रसूरिप्रणीतायाः नन्दिसूत्रवृत्तेः विषमपदटिप्पनकम् । ___१८३ [ पृष्ठ १७] पं. ४. पुयजुज्झमिति अधिष्ठानिकामुद्घाट्य पुताभ्यां पराङ्मुखीभूय। पं. ८. विच्चामेलियमिति व्यत्यानेडितः । [ पृष्ठ १८] पं. ३. तदेवेति ज्ञानमात्मानं जानाति । ननु कथमेक एव कर्ता कर्म वा ? इति भेदादिति । पं. १०. कुव्याख्या० विध इत्यकारान्तोऽयमित्यस्य। पं. १९. तन्मयं अभिनिबोधस्य विकारः मनस्त्वेन परिणमिताः [? पुद्गलाः]। 5 [पृष्ठ १९] पं. १६. आदेश[त] इति, आदेशः-प्रकारः, स च सामान्यतो विशेषतश्च, सामान्यतो द्रव्यजाति जानीते, विशेषतो धर्मास्तिकायस्तस्य च देश इत्यादिविभागं जानीते। पं. १८. विशिष्ट इति विशिष्ट एव कश्चिद् मतिविशेष एव श्रुतम् । पं. ३०. सामान्येन इति मनोवर्गणाविशेषतो विशेषो यस्याः । [ पृष्ठ २०] पं. १०. अपर इति न परम्-अक्षादि निमित्तं यस्य, द्रव्यं मनश्चेत्यत्राध्याहारः, कृतः(अतः) परत्वमनयोः । [ पृष्ठ २३] पं. १५. अपवरकादिशालान्तरस्थप्रदीपप्रभानिर्गमस्थानानीव अवधिज्ञानावरणक्षयोपशमजन्यानि अवधिज्ञाननिर्गमस्थानानीह फडकानि उच्यन्ते । [पृष्ठ २६] 15 पं. २७. नान्य इति किं त्रिसमयाहारकोऽत्र गृह्यते ? अत्रोत्तरम् । [ पृष्ठ २८] पं. २४. द्रव्यं भाज्यमिति अवस्थितेऽपि हि द्रव्ये तथाविधक्षयोपशमवृद्धौ पर्याया वर्द्धन्त एव । पं. २५. अक्रमवर्तिनामिति एककालवर्तिनां रूपादीनाम् । ननु यदि द्रव्यवृद्धौ वर्धन्ते ततः पर्यायाणां क्रमवर्तित्वात् कालवृद्धिः कथं न भवति ! उच्यते-कालवृद्धीत्यादि । [पृष्ठ ३३] पं. ७. उत्पत्तिस्वामीति उत्पत्तेः स्वामी तस्य मार्गणा प्राग्वत् । पं. १४. अणाइसेसीति अनतिशयी । [पृष्ठ ३४ ] पं. २४. घटोऽनेन चिन्तित इत्यादिना दर्शितरूपः । [ पृष्ठ ३५] पं. १७. मन्तार इति चिन्तकाः मन्येरन् चिन्तयेयुः । पं. १८. भिन्नालम्बनमिति एतदीयदर्शनं न भिन्नं किलोक्तम् । तत्र चेति चतुर्विधदर्शने । पं. २८. संवट्ट (ट्टो) इति सङ्कोचनम् । [पृष्ठ ३६] पं. १३. तदायुष्क इति आगामिभवः। पं. १६. हेतुवाद इति तापादिसन्तप्तछायादिसमाश्रयणात् । पं. २५. बध्यमान इति तारतम्येन । 30 [ पृष्ठ ३७ ] पं. २८. [ ? सयोगीति ] सह योगेनेति-जीवव्यापारेण । [पृष्ठ ३९] पं. १६. नोतित्थसिद्धा इति प्रत्येकबुद्धसिद्धाः। पं. १७. तित्थकरिसिद्धा इति केवलिनी। नोतित्थगर । इति सामान्यकेवलिपुरुषाः । पं. १८. न [तु] नपुंसक इति तीर्थकृतः स्युः । 20 25 35 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248