Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१६५ सन् ?' इत्याद्यज्ञानवादाभ्युपगमपराः इत्ययथावादित्वात् प्रतिक्षेपार्हाः। पं. ३१. अनवधृतम् अनियतं लिङ्गमाचारः शास्त्रं च येषां ते तथा । विनयप्रतिपत्तिरेव लक्षणं येषाम् । पं. ३२. अवमः लघुः । सूत्रे [पत्र ७७ पंक्ति ३०] तेत्तीसं उद्देसणकाल त्तिचउ तिय चउरो दो दो एक्कारस चेव हुंति एगसरा । सत्तेव महन्झयणा एगसरा बीयसुयखंधे ॥१॥
] सर्वे ३३ । । [पृष्ठ ७९] पं. ५. ठाणसूत्रं सुगमम् । पं. ९. नवरम्- एक उत्तरो येषु द्वयादिषु तानि एकोत्तराणि। पं. २५. समवायसूत्रं सुगमम् । पं. २८. नवरम्-ठाणगसयविवड्ढियाणं ति स्थानकशतं यावद् विवर्धितानाम् । पं. २९. पल्लवग्गे समासिज्जइ त्ति पर्यवपरिमाणम्- अभिधेयादि-तद्धर्मसंख्यानम् , यथा-परित्ता तसा इत्यादि । पर्यङ्कः पल्यङ्कः इत्यादिवत् पल्लवनिर्देशः प्राकृतत्वात् पर्यवशब्दस्यैव । यद्वा “पल्लवा इव पल्लवाः-अवयवास्तदग्रं-तत्परिमाणं 'समासिज्जइ' 15 प्रतिपाद्यते” इति समवायाङ्गवृत्तौ व्याख्यातम् [ पत्रं ११३-२]।
[पृष्ठ ८०] पं. २४. केयं व्याख्येति, व्याख्यायन्ते जीवादयोऽर्था यस्यां सा व्याख्या, पञ्चममङ्गं रूढ्या उच्यते । पं. १८. सूत्रे एगे साइरेगेऽज्झयणसए त्ति पदं चिरन्तनवाचनागम्यमिदम् , नेदानीम् । सम्पतिवाचनायामेकचत्वारिंशत्सङ्ख्यशतानि सन्ति । शतशब्देन अध्ययनसंज्ञा। पं. २६. यद्वा ज्ञातानि च धर्मकथाश्च ज्ञाताधर्मकथाः । तद्योगाद् ग्रन्थोऽपि तथोच्यते । 15 पढमसुयक्खंधे नायाणि एगूणवीसं। नायाणं नगराइं इत्यादिसूत्रम् । उद्यानानि पुष्प-फल-च्छायोपगवृक्षोपशोभितानि । यद्वा यत्र वस्त्रायलङ्कृतदेहाः सन्निहिताशनाद्याहारा लोका येषु क्रीडन्ति तानि उद्यानानि । पं. २७. चैत्यानि व्यन्तरायतनानि । वनषण्डाः अनेकजातीयैरुत्तमैर्वृक्षरुपशोभिताः। समवसरणानि तीर्थकरादीनां धर्मदेशनाभूमयः । ऐहलौकिका ऋद्धिविशेषाः अनेककोटीसङ्ख्या द्रव्यादिसम्पद्विशेषाः, पारलौकिकाश्च स्वर्गादिसमृद्धिरूपाः । भोगपरित्यागाः व्रतग्रहणेन । मव्रज्यापर्यायाः व्रतपरिपालनकालमानरूपाः । ।
[पृष्ठ ८१] पं. १. पाओवगमणाई ति पादपोपगमाभिधानमनशनम् , तत्प्रतिपत्तयः । प्रेत्य जिनधर्मप्राप्तिर्बोधिलाभः। पं. २. भवापेक्षया अन्त्याश्च ताः क्रियाश्च अन्त्यक्रियाः, ताश्च शैलेश्यवस्थाद्या गृह्यन्त इति । एवं नगरादीन्याख्यायन्ते । पं. १८. द्वितीयश्रुतस्कन्धस्वरूपमाह-बिइएत्यादि । तबिसेसणविसिडेत्यादि ततश्चार्थाधिकारसमूहात्मकान्यध्ययनान्येव दश वर्गा द्रष्टव्याः। पं. २३. इगवीसं कोडिसयं० गाहा । अस्यानयनम्-५४०४९ अनेन प्राचीनस्य गुणने ४८६० जातम्, 20 अस्य च पश्चशतैर्गुणने २४३००००, अस्यापि पञ्चशतैर्गुणने १२१५०००००० आपन्नम् । एवं ठिए समाणे त्ति प्रथमश्रुतस्कन्धवक्तव्यतायां भणितायां अहिगयसुत्तस्स पत्थावो त्ति प्रथमश्रुतस्कन्धकथानकसङ्ख्याख्यानानन्तरं द्वितीयश्रुतस्कन्धकथानकभेदप्ररूपणाय प्रस्तावः दसधम्मकहाणं वग्गेत्यादिकस्य ॥ तदेवाह- पं. २५.तं जहेत्यादि । पं.२८. पणुवीसं कोडिसयं० गाहा । अस्य दशकस्य १० पञ्चशतगुणने ५०००, अस्यापि पञ्चभिः शतैर्गुणने २५०००००, अस्यापि
२५००००००० जातम् । “समलक्षणमतिगच्छन्ति" इति समलक्षगातिगानि ज्ञातानि यस्मात् सन्ति ततस्तानि 30 शोध्यन्ते इमाओ रासीउ त्ति १२५००००००० एतस्मादयं राशिः १२१५०००००० विशोध्यः ऊर्ध्वाधोभावेन द्वावपि विन्यस्य १२५०००००००। ततो भवतीदं ३५०००००० सङ्ख्यानम् ॥
१२१५००००००
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248