Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 198
________________ , लघुनन्दिः-अनुज्ञानन्दिः । १७१ 15 कमुत्थापयति तद् वेष्टिमम् । 'पूरिमं' भरिमं पित्तलादिमयप्रतिमावत् । 'सङ्घातिमं' बहुवस्त्रादिखण्डसङ्घातनिष्पन्नं कञ्चुकवत् । 'अक्षः' चन्दनकः । 'वराटकः' कपर्दकः । वाशब्दाः पक्षान्तरसूचकाः । तत्र काष्ठकर्मादिष्वाकारवती सद्भावस्थापना, अनुज्ञावदाकारस्य तत्र सद्भावात् ; अक्षादिष्वनाकारवती असद्भावस्थापना, आकारस्य तत्रासद्भावात् । सेयं स्थापनानुज्ञा २ ॥ ४. णाम-ठवणाणं को पतिविसेसो ? णामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा। ४. नाम-स्थापनयोः कः प्रतिविशेषः ? न कश्चित् , तथाहि-यथा जीवादावर्थशून्ये द्रव्यमानेऽनुज्ञेति नाम क्रियते तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमाने स्थापनाऽपि क्रियते, अतोऽनुज्ञाशब्दार्थशून्ये द्रव्यमाने उभयोः क्रियमाणत्वान्नानयोः कश्चिद् विशेषः । अत्रोत्तरमाह-नामं आवकहियमित्यादि, नाम 'यावत्कथिकं' स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्त्तते, न पुनरन्तराऽप्युपरमते । स्थापना पुनः 'इत्वरा' स्वल्पकालभाविनी वा स्याद् यावत्कथिका वा, स्वाश्रयद्रव्येऽवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्तते, काचित्तु तत्सत्तां यावदवतिष्ठत इति भावः ।। सम्प्रति द्रव्यानुज्ञाव्याचिख्यासया प्रश्नयति ५. से किं तं दव्वाणुण्णा ? २ दुविहा पण्णत्ता, तं जहा-आगमतो य णोआगमतो य । ५. से किं तमिति । अथ केयं द्रव्यानुज्ञा ? हन्त द्रव्यानुज्ञा द्विविधा प्रज्ञता, तद्यथा । नवरं द्रवति-च्छति तांस्तान् पर्यायानिति द्रव्यं-विवक्षितयोरतीत-भविष्यद्भावयोः कारणम् , अनुभूतविवक्षितभावं अनुभविष्यद्विवक्षितभावं वा वस्त्वित्यर्थः, द्रव्यं च तदनुज्ञा च द्रव्यानुज्ञा, अनुभूतानुज्ञाशब्दार्थपरिणाम अनुभविष्यदनुज्ञाशब्दार्थपरिणामं वा देहादीत्यर्थः । द्रव्यलक्षणं च सामान्यत इदम्-- भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञः सचेतनाचेतनं कथितम् ॥ १॥ [ ] प्रागेव व्याख्यातेयं नन्दिशब्दार्थप्रस्तावे [पत्र ९९] । तत्रागमतो नोआगमतश्चेति, आगमतोऽत्रानुज्ञाशब्दार्थपरिज्ञानमेव, नोआगमतस्तु अनुज्ञाशब्दार्थपरिज्ञानरहितता ।। ६. से किं तं आगमतो दवाणुण्णा ? आगमतो दवाणुण्णा जस्स णं अणुण्ण त्ति पदं सिक्खियं ठितं जितं मितं परिजितं णामसमं घोससमं अहीणक्खरं अणचक्खरं अव्वाइद्धक्खरं 20 अखलियं अमिलियं अविच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोढविप्पमुक्कं गुरुवायणोवगयं । से णं तत्थ वायंणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए, कम्हा ? "अणुवओगो व्व"मिति कटु । णेगमस्स एगे अणुवउत्ते आगमतो एगा दवाणुण्णा, दोणि अणुवउत्ता आगमतो दोणि दव्वाणण्णाओ. एवं जावतिया अणवउत्ता तावतियाओ दव्याणण्णा ववहारस्स वि । संगहस्स एगो वा अणेगो वा अणुवउत्तो वा अणुवउत्ता वा व्वाणुण्णा व्वाणु- 25 ण्णाओ वा सा एगा दव्वाणुण्णा । उज्जुसुअस्स एगे अणुवउत्ते आगमतो एगा दव्वाणुण्णा पुहत्तं नेच्छइ । तिण्हं सद्दणयाणं जाणए अणुवउत्ते अवत्थू, कम्हा ? जति जाणए अणुवउत्ते ण भवति । से सं आगमतो दवाणुण्णा। ६. अथ केयमागमतो द्रव्यानुज्ञा ? अत्रोत्तरम्-आगमतो द्रव्यानुज्ञा जस्स णमित्यादि । णं वाक्यालङ्कारे, 'यस्य' कस्यचिदनुज्ञापदं अनुज्ञापदविषया व्युत्पत्तिरित्यर्थः, शिक्षितं जितं यावद् वाचनोपगतं भवति । 'सः' जन्तुः 'तत्र' अनुज्ञापदेऽनु- 30 प्रेक्षावर्जशेषवाचनादिभिर्वर्तमानोऽप्यनुज्ञापदार्थोपयोगेऽवर्तमानः 'आगमतः' आगममाश्रित्य द्रव्यानुज्ञेति समुदायार्थः । १ अव्वाइद्धं इति पाठान्तरं टीकायां निष्टङ्कितं व्याख्यातं च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248