________________
, लघुनन्दिः-अनुज्ञानन्दिः ।
१७१
15
कमुत्थापयति तद् वेष्टिमम् । 'पूरिमं' भरिमं पित्तलादिमयप्रतिमावत् । 'सङ्घातिमं' बहुवस्त्रादिखण्डसङ्घातनिष्पन्नं कञ्चुकवत् । 'अक्षः' चन्दनकः । 'वराटकः' कपर्दकः । वाशब्दाः पक्षान्तरसूचकाः । तत्र काष्ठकर्मादिष्वाकारवती सद्भावस्थापना, अनुज्ञावदाकारस्य तत्र सद्भावात् ; अक्षादिष्वनाकारवती असद्भावस्थापना, आकारस्य तत्रासद्भावात् । सेयं स्थापनानुज्ञा २ ॥
४. णाम-ठवणाणं को पतिविसेसो ? णामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा।
४. नाम-स्थापनयोः कः प्रतिविशेषः ? न कश्चित् , तथाहि-यथा जीवादावर्थशून्ये द्रव्यमानेऽनुज्ञेति नाम क्रियते तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमाने स्थापनाऽपि क्रियते, अतोऽनुज्ञाशब्दार्थशून्ये द्रव्यमाने उभयोः क्रियमाणत्वान्नानयोः कश्चिद् विशेषः । अत्रोत्तरमाह-नामं आवकहियमित्यादि, नाम 'यावत्कथिकं' स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्त्तते, न पुनरन्तराऽप्युपरमते । स्थापना पुनः 'इत्वरा' स्वल्पकालभाविनी वा स्याद् यावत्कथिका वा, स्वाश्रयद्रव्येऽवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्तते, काचित्तु तत्सत्तां यावदवतिष्ठत इति भावः ।। सम्प्रति द्रव्यानुज्ञाव्याचिख्यासया प्रश्नयति
५. से किं तं दव्वाणुण्णा ? २ दुविहा पण्णत्ता, तं जहा-आगमतो य णोआगमतो य ।
५. से किं तमिति । अथ केयं द्रव्यानुज्ञा ? हन्त द्रव्यानुज्ञा द्विविधा प्रज्ञता, तद्यथा । नवरं द्रवति-च्छति तांस्तान् पर्यायानिति द्रव्यं-विवक्षितयोरतीत-भविष्यद्भावयोः कारणम् , अनुभूतविवक्षितभावं अनुभविष्यद्विवक्षितभावं वा वस्त्वित्यर्थः, द्रव्यं च तदनुज्ञा च द्रव्यानुज्ञा, अनुभूतानुज्ञाशब्दार्थपरिणाम अनुभविष्यदनुज्ञाशब्दार्थपरिणामं वा देहादीत्यर्थः । द्रव्यलक्षणं च सामान्यत इदम्--
भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञः सचेतनाचेतनं कथितम् ॥ १॥ [ ]
प्रागेव व्याख्यातेयं नन्दिशब्दार्थप्रस्तावे [पत्र ९९] । तत्रागमतो नोआगमतश्चेति, आगमतोऽत्रानुज्ञाशब्दार्थपरिज्ञानमेव, नोआगमतस्तु अनुज्ञाशब्दार्थपरिज्ञानरहितता ।।
६. से किं तं आगमतो दवाणुण्णा ? आगमतो दवाणुण्णा जस्स णं अणुण्ण त्ति पदं सिक्खियं ठितं जितं मितं परिजितं णामसमं घोससमं अहीणक्खरं अणचक्खरं अव्वाइद्धक्खरं 20 अखलियं अमिलियं अविच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोढविप्पमुक्कं गुरुवायणोवगयं । से णं तत्थ वायंणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए, कम्हा ? "अणुवओगो
व्व"मिति कटु । णेगमस्स एगे अणुवउत्ते आगमतो एगा दवाणुण्णा, दोणि अणुवउत्ता आगमतो दोणि दव्वाणण्णाओ. एवं जावतिया अणवउत्ता तावतियाओ दव्याणण्णा ववहारस्स वि । संगहस्स एगो वा अणेगो वा अणुवउत्तो वा अणुवउत्ता वा व्वाणुण्णा व्वाणु- 25 ण्णाओ वा सा एगा दव्वाणुण्णा । उज्जुसुअस्स एगे अणुवउत्ते आगमतो एगा दव्वाणुण्णा पुहत्तं नेच्छइ । तिण्हं सद्दणयाणं जाणए अणुवउत्ते अवत्थू, कम्हा ? जति जाणए अणुवउत्ते ण भवति । से सं आगमतो दवाणुण्णा।
६. अथ केयमागमतो द्रव्यानुज्ञा ? अत्रोत्तरम्-आगमतो द्रव्यानुज्ञा जस्स णमित्यादि । णं वाक्यालङ्कारे, 'यस्य' कस्यचिदनुज्ञापदं अनुज्ञापदविषया व्युत्पत्तिरित्यर्थः, शिक्षितं जितं यावद् वाचनोपगतं भवति । 'सः' जन्तुः 'तत्र' अनुज्ञापदेऽनु- 30 प्रेक्षावर्जशेषवाचनादिभिर्वर्तमानोऽप्यनुज्ञापदार्थोपयोगेऽवर्तमानः 'आगमतः' आगममाश्रित्य द्रव्यानुज्ञेति समुदायार्थः ।
१ अव्वाइद्धं इति पाठान्तरं टीकायां निष्टङ्कितं व्याख्यातं च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org