SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्री-श्रीचन्द्रसरिविनिर्मितटीकासमेता लघुनन्दिः-अनुज्ञानन्दिः। 40 इत ऊर्ध्वं से किं तमणुना इत्यादि ग्रन्थपद्धतिर्या किलाऽपरा दृश्यते सूत्रपुस्तके सा गणानुज्ञाविषया लघुनन्दिरिति 5 सम्भाव्यते, अतोऽस्या अपि गमनिका काचिदुच्यते १. से किं तं अणुंण्णा? अणुण्णा छविहा पण्णत्ता, तं जहा-नामाणुण्णा १ ठवणाणुण्णा२ दव्वाणुण्णा ३ खेत्ताणुण्णा ४ कालाणुण्णा ५ भावाणुण्णा ६। १. तत्रानुज्ञानमनुज्ञा, 'समर्पितं सम्प्रति तव गण-शिष्य-वस्त्र-पात्रादिकं सर्वं मयेति तवाऽऽयत्तमिदं सर्वं सम्प्रति' इत्येवंरूपों गुरुवचनविशेषोऽनुज्ञोच्यते । अनुज्ञायते वाऽनयेति 'अनुज्ञा' गुरूक्तिरेव । सेशब्दोऽथशब्दार्थे, अथशब्दश्च वाक्योपन्यासार्थः । 10 अथ किंरूपा साऽनुज्ञा ? अत्र प्रतिवचनम् —षविधा प्ररूपिता । तद्यथा-नामाणुन्नेत्यादि । नाम-अभिधानं तद्रूपाऽनुज्ञा नामानुज्ञा, अनुज्ञेति नामैव नामानुज्ञेत्यर्थः । अथवा नाम्ना-नाममात्रेण अनुज्ञा नामानुज्ञा, जीवादीत्यर्थः ।। नामानुज्ञास्वरूपनिरूपणायाह २. से किं तं नामाणुण्णा ? २ जस्त णं जीवस्स वा अजीवस्स वा जीवाणं वा अजीवाणं वा तदुभयस्स वा तदुभयाणं वा अणुण्ण त्ति णामं कीरइ । से त्तं णामाणुण्णा १। . 15 २. से किं तमित्यादि । अत्र द्विकलक्षणेनाङ्केन द्वितीयमपि नामाणुघ्न ति पदं सूचितं द्रष्टव्यम् , एवमन्यत्रापि यथासम्भवमभ्यूह्यम् । णमिति वाक्यालङ्कारे । 'यस्य' जीवा-जीवादिवस्तुनोऽनुज्ञेति नाम क्रियते तदेव जीवादिकं वस्तु नामानुज्ञा, 'नाम्ना नाममात्रेणानुज्ञा नामानुज्ञा' इति व्युत्पत्त्या । वाशब्दः पक्षान्तरसूचकः, तत्र जीवस्य गो-सुतादेः कश्चित् स्वाभिप्रायवशाद् अणुन त्ति नाम करोति, एवं शेषेष्वपि, सेयं नामानुज्ञा १ ॥ इदानी स्थापनानुज्ञोच्यते ३. से किं तं ठवणाणुण्णा ? ठवणाणुण्णा जपणं कट्टकम्मे वा पोत्यकम्मे वा लेप्पकम्मे वा 20 चित्तकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघातिमे वा अक्खे वा वराडए वा एगे वा अणेगे वा सब्भावट्टवणाए वा असम्भावट्ठवणाए वा अणुण्ण त्ति ठवणा ठविजति । से तं ठवणाणुण्णा २। ३. से किं तमित्यादि । अथ केयं स्थापनानुज्ञा ? स्थापनानुज्ञा जण्णमित्यादि । तत्र स्थाप्यते-अमुकोऽयमित्यभिप्रायेण - क्रियते-नियंत इति स्थापना काष्ठकर्मादिगताऽनुज्ञानामकवस्त्वाकाररूपा, ततः स्थापना च सा अनुज्ञा च स्थापनानुज्ञा, यत् साकारमनाकारं वा तदभिप्रायेण क्रियते सा स्थापनेत्यर्थः । जण्णं ति, 'ण' पूर्ववत् । यत् काष्ठकर्मणि चित्रकर्मणि वा यावद् 25 वराटके वा एको वाऽनेके वा सद्भावस्थापनया वा असद्भावस्थापनया वा अणुन त्ति अनुज्ञा-तद्वतोरभेदोपचारात् तद्वानिह गृह्यते ठवणा ठविज्जइ त्ति काष्ठकर्मादिषु स्थापनारूपः 'स्थाप्यते' क्रियते, आवृत्त्या बहुवचनान्तत्वे स्थापनारूपाः 'स्थाप्यन्ते' क्रियन्ते सेयं स्थापनानुज्ञेति आदिपदेन सम्बन्ध इति समुदायार्थः । अवयवार्थस्तु-क्रियत इति कर्म, काष्ठे कर्म काष्ठकर्म, काष्ठनिकुट्टितरूपकर्मेत्यर्थः । पोत्थकम्मे व त्ति अत्र पोत्थं–पोत्तं वस्त्रमित्यर्थः तत्र कर्म-तत्पल्लवनिष्पन्नं धीउल्लिकारूपमित्यर्थः, अथवा पोत्थं-पुस्तकं तच्चेह सम्पुटकरूपं ग्राह्यम् , तत्र कर्म तन्मध्ये वर्तिकालिखितं रूपकमित्यर्थः, अथवा पोत्थं-ताडीपत्रादि 30 तत्र कर्म तच्छेदनिष्पन्नं रूपकम् । 'लेप्यकर्म' लेप्यरूपकम् । 'चित्रकर्म' चित्रलिखितं रूपकम् । 'ग्रन्थिम' कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादितरूपकम् । 'वेष्टिमं' पुष्पवेष्टनक्रमेण निष्पन्नरूपम् , यद्वा एकं व्यादीनि वा वस्त्राणि वेष्टयन् कश्चिद् रूप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy