________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
[ पृष्ठ ९३ ]
5
पं. ५. पणवीसुत्तराणि दो सयाणि त्ति, इहोत्पादादीनां बिन्दुसारपर्यन्तानां चतुर्दशानां पूर्वाणां "दस चोदस सेव बारस दुवे य वत्थूणि ” । [ सू. १०९ गा. ७९-८० ] इत्यादिना प्राक् सूत्रोक्तगाथाद्वयेनाभिहितदशादिपञ्चविंशत्यन्तानामङ्कानां मीलने पञ्चविंशत्युत्तरशतद्वयं भवति । पं. ६. चउतीसं ति “च बारस अट्ठ य दस हवंति” [ पंक्ति ४] इतिगाथोक्तचतुःप्रभृतीनां मीलने ३४ भवति । पं. १२. इच्चेयम्मि इत्यादि । पं. १६. अन्ये तु धर्मापेक्षया अनन्ता भावाः प्रतिवस्त्वस्तित्वप्रतिबद्धाः कोऽर्थः :- एकस्यैव वस्तुनोऽनुवृत्तिरूपाः [ भावाः ] धर्मा अनन्ताः सन्ति, तदारम्भकाणामणूनामनन्तगुणकृष्णादिधर्मयुक्तत्वात् । अनन्ता अभावा प्रतिवस्तु नास्तित्वप्रतिबद्धाः, एकस्यापि वस्तुनस्त्रैलोक्यव्यावृत्तत्वादित्यभावानामनन्तत्वम् । पं. २३. सिद्धा अनन्ताः निष्ठितार्था लोकान्तवर्तिनः । असिद्धास्तु संसारिणस्तेऽप्यनन्ताः, असिद्धसर्वजीवराशेः सिद्धराश्यपेक्षया अनन्तगुणत्वख्यापनार्थमित्यर्थः ।
[ पृष्ठ ९४ ]
10
पं. ५. उभयाज्ञया पुनरिति सूत्रार्थोभयैर्विराध्य ।
पं. ६. अथवेत्यादि एतद्विराधनयेति, आज्ञाकरणेनेत्यर्थः । पं. ९. वर्त्तमाने विशिष्टविराधका ये मनुष्यजीवास्तेषाम् । पं. १६. विइवत्ति व्यतिव्रजितवन्तः । पं. १७. प्रत्युत्पन्नसूत्रे व्यतित्रजन्ति व्यतिक्रामन्ति । विश्वइस्संति 'व्यतित्रनिष्यन्ति' व्यतिक्रमिष्यन्तीत्यर्थः ।
[ पृष्ठ ९५ ]
पं. ११ . श्रुतज्ञानी दत्तोपयोगः जानाति स्पष्टावभासिना श्रुतज्ञानेनावबुध्यते । पं. १२. मतिविशेषत इति, 15 तदुक्तम्
अक्खरलंभेण समा ऊणऽहिया हुंति मइविसेसेण । ते वि य मईविसेसा सुयनागंतरे जाण ॥ १॥ [ विशेषा. गा. १४३] श्रुतज्ञानाश्रयास्ते इत्यर्थः ॥ पं. १८. आगमसत्थ० गाहा । पूर्वेषु विशारदाः विपश्चितो 'धीराः' व्रतानुपालनस्थिराः श्रुतज्ञानस्य लाभं 'ब्रुवते' प्रतिपादयन्ति । किं तत् ? इत्याह- "तं" ति तदेवाऽऽगमशास्त्रग्रहणम् । यत् किम् ? इत्याह-यद् 'बुद्धिगुणैः' वक्ष्यमाणस्वरूपैरष्टभिर्दृष्टं शास्त्रे इत्यक्षरयोजना । अयमर्थः -शिष्यते - शिक्ष्यते बोध्यते प्राणी अनेनेति 20 शास्त्रम्, तच्चाविशेषितं सामान्येन सर्वमपि मत्यादिज्ञानमुच्यते, सर्वेणापि ज्ञानेन जन्तूनां बोधनात् । अतो विशेषे स्थापयितुमाहआगमरूपं शास्त्रमागमशास्त्रम् श्रुतज्ञानमित्यर्थः, तस्य ग्रहणं - गुरुसकाशादादानं तदेव श्रुतलाभं ब्रुवते यद् बुद्धिगुणैरष्टभिः शास्त्रे दृष्टम्, नान्यदिति, वक्ष्यमाणशुश्रूषादिगुणाष्टक कमेणैव श्रुतज्ञानं ग्राह्यम् नान्यथेति तात्पर्यमिति गाथार्थः ॥ २०. सुस्सूसइ० गाहा । अथवा यद् यदाज्ञापयति कार्यजातं गुरुस्तत् तत् सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषते । पूर्वनिरूपितश्च कार्यकरणकाले पुनः पृच्छति प्रतिपृच्छति । इत्थं चाऽऽराधितस्य गुरोरन्तिके सूत्रं तदर्थं वा सम्यक् शृणोति । 25 श्रुतं चावग्रहेण गृह्णाति इत्यादि पूर्ववत् । यद्वा प्रतिपृष्टेन गुरुणा पुनरादिष्टश्च सन् तद्वचः सम्यक् शृणोति । श्रुतं चाऽवग्रहेण सम्यग् गृह्णातीत्यादि तथैव, यावत् करोति च गुरुभणितं सम्यगिति । एवं गुर्वाराधनविषयत्वेनाष्टावपि गुणा व्याख्यायन्ते श्रुतावाप्तौ मूलोपायत्वाद् गुर्वाराधनाया इति गाथार्थः ॥
श्रीधनेश्वरसूरीणां पादपद्मोपजीविना । नन्दिवृत्तौ कृता व्याख्या श्रीमच्छ्रीचन्द्रसूरिणा ||१|| समाप्ता चेयं नन्द्यध्ययनटीकायां श्रीशीलभद्र-प्रभुश्रीधनेश्वरसूरिशिष्यश्री श्रीचन्द्रसूरिविरचिता दुर्गपदव्याख्या || से त्तं नंदी समत्तेति वचनादाचार्यपदस्थापनायामनुयोगानुज्ञाविषयेयं नन्दिरेतावत्प्रमागा समर्थितेति ॥
टी० २२
१६९
Jain Education International
For Private Personal Use Only
30
www.jainelibrary.org