SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्री-श्रीचन्द्रसूरिविनिर्मितं अत्रापि पुरुषयुगान्यसङ्ख्येयान्यतिक्रान्तानि अनया रीत्या । नवरम् - एक्को य होइ सबढे इत्यादि, गाथासु सर्वत्र सव्वट्ठशब्देन विजय-वैजयन्तादिकं विमानपञ्चकमपि ज्ञेयम् , न पुनर्मध्यवत्येवैकम् , अन्यथा तस्य लक्षयोजनप्रमाणतया कथमेतावन्तस्तत्र मान्ति ? त्रयस्त्रिंशत्सागरोपमायुष्कत्वाच्च सर्वेषामपि च्यवनकालोऽपि न झटित्येवास्ति तेषाम् । न च मध्यवयैव रूढं सर्वार्थशब्देनेति वाच्यम् , इह विमानपञ्चकाधारस्य तत्प्रस्तटस्य सर्वार्थनाम्ना रूढत्वादिति सर्वत्र गाथास्वनुत्तरविमानाधारः प्रस्तटो द्रष्टव्यः, तत्स्थ5 विमानेषूत्पद्यन्ते देवा इति सम्प्रदायः, देवेन्द्रनरकेन्द्रकशास्त्रे पञ्चोत्तरविमानप्रस्तटस्य सर्वार्थशब्देन भणनात् । तानि चासङ्खयेय योजनकोटिप्रमाणानि सन्तीति न कश्चिद् विरोधः। पं. २०. विवरीयं० गाहा । चोद्दस लक्खा सव्वद्वे एगो लक्खो सिद्धीए । एयाए परिवाडीए ताव नेयं जाव सिद्धीए पन्नास लक्खा, सचट्टे चोदस लक्खा ॥ पं. २३. चित्तंतरगंडिया तओ चउरो त्ति, प्रथमा एकाघेकोत्तरा । नवरम्-परस्परापेक्षया एकाघेकोत्तरत्वं वाच्यम् , अध-उपरिभावेन १ । द्वितीयायां गण्डिकायामप्यध उपरि च एकादिद्विकोत्तरत्वम् २ । तृतीयायामेकादिव्युत्तरत्वमध उपरि च कार्यम् ३। चतुर्थी पंक्तिद्वयेन ऊर्ध्वा-ऽधोभावेन 10 एकूणतीसं तिगा मंडेयव्चा, सा च त्र्यादिका द्वयादिविषमोत्तरा४। पं. २६. जाव असंखेज दो वित्ति, 'ट्रे' सिद्धिसर्वार्थगमने असङ्खयेयपुरुषयुगरूपेण वाच्ये एकादिद्वयुत्तरायां चित्रान्तरगण्डिकायाम् २ । तृतीयायामेकादित्र्युत्तरायां गण्डिकायामेकः शिवगतौ चत्वारः सर्वार्थे उत्पद्यन्ते। अनया रीत्या द्वावपि राशी एकादित्र्युत्तरस्वरूपेणासङ्ख्येयपुरुषयुगानि यावद् भवतः ३ । पं. २८. त्र्यादिकायां द्वयादिविषमोत्तरायां चतुर्थगण्डिकायां सेसेसु इमो भवे खेवो त्ति राशिद्वयभावेन एकोनत्रिंशत्सङ्ख्यस्थापितत्रिकेष्वाचं विमुच्य शेषेष्वष्टाविंशतिसङ्खयेष्वधस्तनोपरितनेषु त्रिकेष्वयं द्विकादिको वक्ष्यमाणगाथात्रयोक्तोऽङ्कक्षेपः कार्यः, 15 ततोऽधस्तनत्रिकमध्ये द्विकक्षेपे जाताः पञ्च १, उपरितनत्रिकमध्ये पञ्चक्षेपे जाता अष्टौ २, अनया रीत्या सर्व वाच्यम् , याव देकत्रिंशत्सङ्ख्या (? यावदष्टाविंशतिसङ्ख्या )धस्तनत्रिकस्य शतक्षेपे जातं १०३, उपरितनत्रिकस्य च मध्ये षड्विंशत्या क्षिप्तयाऽत्ये जाता एकोनत्रिंशत् । एवमियमाद्या गण्डिका विषमोत्तरा । अनया दिशा असङ्ख्या अन्या विषमोत्तरा ज्ञेयाः । परं सर्वस्यामप्यन्यस्यां गण्डिकायां प्ररूप्यमाणायां यदन्त्यमङ्कस्थानं किञ्चित् प्राचीनायामागतं तदेकोनत्रिंशत्सवयवाराः स्थाप्यम् , ततः प्रथमं स्थानं विमुच्य शेषासु एकोनत्रिंशत्स्वष्टाविंशतिसंख्यासु “दुग पण नवग"मित्यादि प्रागुक्तगाथात्रयोक्तो द्विकाद्यङ्कप्रक्षेपः अध उपरि च 20 प्रागरीत्या कार्यः । पञ्चाशल्लक्षाः सागरोपमकोटीनां किल ऋषभा-ऽजितयोरन्तरम् , एतावदन्तरे च प्रभूतकालस्वरूपे प्रभूता सङ्खयेयासङ्ख्येयसङ्ख्यानेन एतावन्तः सिद्धाः सर्वार्थे च गता इति सगरपुत्राणां सुबुद्धिर्जगाद । चूर्णिकृदादिनिर्दिष्टा “विवरीयं सबढे चोदस लक्खा उ निव्वुतो एगो।" इत्यादिगाथा सामान्यनिर्देशरूपैव प्रत्येतव्या, न क्रमावेदिकेति बोद्धव्यम् । यद्यप्यस्मिन् व्याख्याने श्रीमलयगिरिसूरि-श्रीदेवेन्द्रसूरि-श्रीविनयविजयोपाध्यादिव्याख्यानेन सह स्पष्ट एव विरोधस्तथापि तैरेव लिखितयन्त्रकेण सहानाहूतो विरोधोऽपि सष्ट एवेत्यपि विचार्यमस्ति । ____ अपरं च-श्रीदेवेन्द्रसूरिसूत्रितचैत्यवन्दनभाष्यसत्कश्रीधर्मघोषसूरिविरचितसंघाचारटीकायां रत्नसारकथायां सिद्धगण्डिकाव्यावर्णने सिद्धदण्डिकाप्रकरणगाथा एवोद्धताः सन्ति, तत्र सङ्घाचारवृत्तिरचनासमये तैः स्वगुरुश्रीदेवेन्द्रसूरिसूत्रिता एव गाथा यथावदुद्धताः, किन्तु तदत्तिपुनःप्रमार्जनसमये उपर्युक्तगण्डिकान्त-प्रारम्भाप्रतीतिदोषमुद्भाव्य यन्त्रकानुसारेण सिद्धदण्डिकाप्रकरणगतगाथायाः परावृत्तिः स्वव्याख्यायां कृताऽस्ति । सा चैवम् - आइच्चजसाइ सिवे चउदस लक्खा उ, एगु सबढे । एवं जा इक्किका असंख, इय दुग-तिगाई वि॥ जा पन्नासमसंखा १, तो सव्वट्ठम्मि लक्खचउदसगं । एगो सिवे, तहेव य अस्संखा जाव पण्णासं ॥ अत्र द्वितीयगाथायां " तो सव्वट्ठम्मि लक्ख.” इत्यादिगाथापाठस्थाने श्रीधर्मघोषसूरिपादैः " तो सिवि इगु चउद लक्ख सवढे । पुण इगु सिवे तहेव य." इति अतिसुसङ्गतपाठपरावृत्तिर्विहिताऽस्ति । यद्यपि जेसलमेरु-पत्तनादिस्थितताडपत्रीयादिप्रतिषु नास्तीयं पाठपरावृत्तिः किन्तु स्तम्भतीर्थीयश्रीशान्तिनाथताडपत्रीयभाण्डागरे संशोधित-परिवर्धितादर्श इयं सुसङ्गता पाठपरावृत्तिदृश्यत इति । प्रतिश्चय तदन्तः प्रतिपत्रं तथा स्थाने स्थाने नवीनपरिवर्धितानेकपत्रेषु पूजादिविषयकानेकमतमतान्तरचर्चायुल्लेखेन नृहवृत्तिप्रतिरूपा जाताऽस्ति, अतीवोपयोगिनी चाप्यस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy