________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
[ पृष्ठ ८९]
पं. ८. अट्टमे कम्मप्पवाय पुन्वे पय-ठि -अणुभाग - पएसाइएहिं ति एतत्स्वरूपं यथास्वभावः प्रकृतिः प्रोक्ता, स्थितिः कालावधारणम् । [ ए ] तहसोऽनुभागः स्यात्, प्रदेशो ( ) शकल्पनम् ॥१॥
यद्वा
ठिबंधु दलस्स टिई, पएसबंधो परसग्रहणं जं । ताण रसो अणुभागो, तस्समुदाओ पइबंधो || १ || [ पञ्चसङ्ग्रह गा० ४३२ ] पं. १४. बारस अन्ने य पाणा वन्नियत्ति, इन्द्रियादयः । पं. १६. तेरसमे छंद-किरियाविहाणा यत्ति, पथविषयाणि तन्मध्या ( ? ) शार्दूलादिरूपाणि छन्दांसि क्रियाश्च - करोति भवत्यादय एतासां विधानानि वर्ज्यन्त इति क्रियाविशालम् । पं.२६. [ पत्र ८८ पंक्ति ४ ] उप्पायपुव्वस्स णमित्यादि । नवरम् -'वस्तु' नियतार्थाधिकारप्रतिबद्वो ग्रन्थविशेषः, अध्ययनवत् । 'समत्तसुयनाणिणो' चउदसपुत्रवधरा । पं. २०. एकवक्तव्यतार्थाधिकारानुगता वाक्यपद्धतयो गण्डिका उच्यन्ते । [ पृष्ठ ९० ]
पं. ५. दसारगंडियाउ त्ति दशार्हाः समुद्रविजयादयो दश वसुदेवान्ताः तत्प्रतिबद्धा गण्डिका दशार्हगण्डिकाः । प. १५. आइच्चजसाईणमित्यादि । ऋषभनिर्वृतिप्राप्त्यनन्तरं ऋषभस्य पओप्पए आदित्ययशःप्रभृतीनां नरपतीनां सङ्खयां सिद्धि - सर्वार्थसिद्धिगमनविषयां सगरसुतानामग्रतः सुबुद्धिनामाऽमात्यः परिकथयति । पं. १६. नृपतीनां चतुर्दश लक्षाः सिद्धाः, एको लेक्षः सर्वार्थे, एवमेकैकस्थाने पुरुषयुगान्यसङ्ख्येयानि भवन्ति । तदनन्तरं चतुर्दश लक्षाः सिद्धाः द्वौ लक्षौ सर्वार्थे, 15
१६७
Jain Education International
१ अत्र ह्याद्यानुलोम-प्रतिलोम सिद्ध गण्डिकायुगले श्रीमलयगिरिसूरिविरचितन दिसूत्रवृत्ति - श्री देवेन्द्रसूरिनिर्मित सिद्धदण्डिकाप्रकरण - तदवचूरी - श्री विनय विजयोपाध्याय रचितलोकप्रकाशादिषु एक-द्वि-त्रि- चतुः पञ्च यावत्पश्चाशत्संख्याः वर्तन्ते, न तु एकलक्षद्विलक्ष- त्रिलक्षादिकाः ; यथा श्रीसङ्घदासगणिवाचक विहितष सुदेव हिण्डी प्रथमखण्डान्तर्गतसिद्धगण्डिकायां [पत्र ३०१ ] श्रीजिनदासगणिमहत्तर निर्मितनन्दी सूत्र चूर्णिगत सिद्धगण्डिकायां [पत्र ७८ ] श्रीहरिभद्रसूरि सूत्रितन दिसूत्र लघुवृत्तिगतसिद्ध गण्डिकायां [पत्र ९१] च आद्यानुलोम-प्रतिलोमसिद्धगण्डिकायन्त्रयुगले दृश्यन्ते । अत एव तदनुसारेण श्रीश्री चन्द्राचार्यपादैः अत्राद्यानुलोम-प्रतिलोमसिद्ध गण्डिकायुगले एकलक्ष-द्विलक्ष- त्रिलक्षादिव्याख्यानं कृतमस्ति ।
अपि च- एतद्वयाख्यानभेदविषये एतदप्यवधेयमस्ति यत् सिद्धगण्डिका स्वरूप. वेद को परिनिर्दिष्ट चूर्णि वृत्त्यादिसर्वग्रन्थेषु सिद्धगण्डिकास्वरूपा वेदको ल्लिखितगाथा कदम्बकावलोकनेन केवलैक-द्वि-त्रि- चतुः पञ्च यावत्पञ्चाशत्संख्यान्तरितसिद्धि - सर्वार्थगमनप्रतीतिरेवोपजायते, न लक्षान्तरितप्रतीतिरिति । तथा वसुदेवहिण्डि - नन्दिचूर्णि - नन्दी लघुवृत्तिषु सिद्धगण्डिका स्वरूपावेदकगाथानां व्याख्यानं स्पष्टीकरणं वा शतोऽपि न वर्तते, किन्तु गाथाभावावेदकानि यन्त्रकाण्येव केवलं वर्तन्ते । तेषु च अन्तरितैक-द्विकादिस्थानेषु लक्षनिर्देश एवं वर्तते । किञ्च - श्रीमलयगिरिनदीवृत्तौ सिद्धदण्डिकाप्रकरणे लोकप्रकाशे च चूर्णि-वृत्तिदा युल्लिखित सिद्ध गण्डि कास्वरूपावेदकगाथानां व्याख्यानं यन्त्रकाणि चापि वर्तन्ते, तत्रान्तरितैक-द्विकादिसंख्यानिर्देश एवं वर्तते, न लक्षनिर्देश इत्यत्र तात्त्विकनिर्णय विषये बहुश्रुताः प्रमाणम् ।
अथ चात्र द्वितीयप्रतिलोम सिद्ध गण्डिका विषयेऽपि एतदवधानीयमस्ति यत् चूर्णि लघुवृत्ति वृहद्वृत्ति सिद्धदण्डिकाप्रकरणावचूरी-लोकप्रकाशादिसर्वशास्त्रेषु प्रतिलोमसिद्धगण्डिकायन्त्रकं मुद्रितस्त्ररूपमेवोपलभ्यते, किन्तु चूर्णिकृद्-लघुवृत्तिकृदुल्लिखितप्रतिलोमसिद्धगण्डिकास्वरूपावेदकगाथा सु तथा श्रीमलयगिरिवृत्ति सिद्धदण्डिकाप्रकरण- तदवचूरी-लोकप्रकाशेषु च " ततोऽनन्तरं ( अनुलोमसिद्ध गण्डिकासमाप्त्यनन्तरं ) चतुर्दश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धे एकः सिद्धौ, भूयश्चतुर्दश लक्षाः सर्वार्थ एकः सिद्धौ, एवं चतुर्दशलक्षान्तरित एकैकः सिद्धौ तावद् वक्तव्यो यावत् तेऽप्येकका असंख्येया भवन्ति" इत्यादि निर्दिष्टं वर्तते, किचात्र निर्देशे अनुलोमगण्डिकाचरमपश्चाशत्सर्वार्थ सिद्धानन्तरं प्रतिलोम सिद्ध गण्डिकाप्रारम्भश्चेत् चतुर्दशलक्षसर्वार्थपदेनैव क्रियेत तदा प्रतिलोम गण्डिकाप्रारम्भः सम्यक्तया न प्रतीतिमायाति एवमेव द्वितीय प्रतिलोम गण्डिकाचरमपचाशत्सिद्धिगमनानन्तरं तृतीयसम संख्यगण्डिकाप्रारम्भश्चेत् सिद्धिपदेनैव जायेत तत्रापि तृतीयगण्डिकाप्रारम्भो न सम्यक् प्रतीतिमायास्यति इति यन्त्रकानुसारि व्याख्यानमेव सङ्गतिमङ्गति । किन्तु तथाव्याख्याने
For Private Personal Use Only
5
10
www.jainelibrary.org