________________
श्री-श्रीचन्द्रसूरिविनिर्मितटीकासमेता
तत्रादित आरभ्य पठनक्रियया यदन्तं नीतं तच्छिक्षितमुच्यते । इहानुज्ञापदस्य प्रकृतत्वेऽपि तदितरशास्त्रविषये शिक्षितादिपदानामर्थी व्याख्येयः, तदनुसारेणानुज्ञापदेऽपि तथा योज्यः । ठियं ति पठनक्रियया यदन्तं नीतं तदेवाविस्मरणतश्चेतसि स्थितत्वात् स्थितम्, अप्रच्युतमित्यर्थः । परावर्त्तनं कुर्वतः परेण वा कचित् पृष्टस्य यच्छीघ्रमागच्छति तज्जितम् । विज्ञातश्लोक-पद-वर्णादिसङ्खयं मितम् । परि-समन्तात् सर्वप्रकारैर्जितं - परावर्तनं कुर्वतो यत् क्रमेणोत्क्रमेण वा समागच्छतीत्यर्थः । नाम - अभिधानं तेन समं 5 नामसमम् । इदमुक्तं भवति यथा स्वनाम कस्यचिच्छिक्षितं स्थितं जितं मितं परिजितं भवति तथैतदपीत्यर्थः । घोषाः - उदात्तादयस्तैर्वाचनाचार्याभिहितघोषैः समं घोषसमम्, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तद् घोषसममिति भावः । एक-द्वयादिभिरक्षरैर्हीनं हीनाक्षरम्, न तथा अहीनाक्षरम् । एकादिभिरक्षैरैरधिकमत्यक्षरम्, न तथा अनत्यक्षरम् । अव्वाइद्धक्खरं ति विपर्यस्तरत्नमालागत रत्नानीव व्याविद्धानि - विपर्यस्तान्यक्षराणि यत्र तद् व्याविद्धाक्षरम्, [न तथा अव्याविद्धाक्षरम् ] | अन्नाद्धमिति कचित् पाठः तत्रापि व्याविद्धाक्षरयोगाद् व्याविद्धम्, न तथा अव्याविद्धम् । उपलशकला10 द्याकुलभूभागे लाङ्गलमिव स्खलति यत् तत् स्खलितम्, न तथाऽस्खलितम् । अनेकशास्त्र सम्बन्धीनि सूत्राण्येकत्र मौलयित्वा यत्र पठति तद् मिलितम्, असदृशधान्यमेलकवत्, अथवा परावर्त्तमानस्य यत्र पदादिविच्छेदो न प्रतीयते तद् मिलितम्, न तथाऽमिलितम् । एकस्मिन्नेव शास्त्रेऽन्यान्यस्थाननिबद्धानि एकार्थानि सूत्राण्येकत्र स्थाने समानीय पठतो व्यत्याम्रेडितम्, अथवा आचारादिसूत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्याम्रेडितम्, अस्थानविरतिकं वा व्यत्याम्रेडितम्, न तथाऽव्यत्याम्रेडितम् । सूत्रतो बिन्दु-मात्रादिभिरन्यूनमर्थतस्त्वध्याहारा ऽऽकाङ्क्षादिरहितं प्रतिपूर्णम् । उदात्तादिघोषैरविकलं प्रति15 पूर्णघोषम् । अत्राह - घोपसममित्युक्तमेव तत् क इह विशेषः ? इति उच्यते-घोषसममिति शिक्षाकालमधिकृत्योक्तम्, प्रतिपूर्णघोषं तु परावर्त्तनादिकालमधिकृत्येति विशेषः । कण्ठश्च ओष्ठश्च कण्ठौष्ठमिति, प्राण्यङ्गत्वात् समाहारः, तेन विप्रमुक्तं कण्ठौष्ठविप्रमुक्तम्, बाल-मूकभाषितवद् यदव्यक्तं न भवतीत्यर्थः । गुरुप्रदत्तया वाचनया उपगतं प्राप्तं गुरुवाचनोपगतम्, न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात् स्वयमेवाधीतमिति भावः । तदेवं यस्य जन्तोरनुज्ञेति पदं शिक्षितादिगुणोपेतं भवति स जन्तुः 'तत्र' पदे 'वाचनया' शिष्याध्यापनलक्षणया 'प्रच्छनया' अ[ न) वगतार्थादेर्गुरुं प्रति प्रश्नलक्षणया 'परावर्त्तनया' पुनः पुनः सूत्रार्थाभ्यास20 लक्षणया ‘धर्मकथया' अहिंसादिधर्मप्ररूपणस्वरूपया वर्त्तमानोऽप्यनुपयुक्तत्वादिति साध्याहारमागमतो द्रव्यानुज्ञेत्यनेन सम्बन्धः । ननु यथा वाचनादिभिस्तत्र वर्त्तमानोऽपि द्रव्यानुज्ञा भवति तथाऽनुप्रेक्षयाऽपि तत्र वर्त्तमानः सा भवति ? नेत्याह - नो अणुप्पेहाए त्ति ‘अनुप्रेक्षया' अर्थानुचिन्तनरूपया तत्र वर्त्तमानो न द्रव्यानुज्ञेत्यर्थः, अनुप्रेक्षाया उपयोगमन्तरेणाभावादुपयुक्तस्य च द्रव्यानुज्ञात्वायोगादिति भावः । अत्राह परः - कम्ह त्ति ननु कस्माद् वाचनादिभिस्तत्र वर्त्तमानोऽपि द्रव्यानुज्ञा ? कस्माच्चानुप्रेक्षया तत्र वर्त्तमानोऽपि न तथा ? इति प्रच्छकाभिप्रायः । एवं पृष्टे सत्याह- अणुवओगो दव्वमिति कट्टु त्ति 'अनुपयोगो द्रव्यमिति 25 कृत्वा' उपयोजनमुपयोगः - जीवस्य बोधरूपो व्यापारः, स चेह विवक्षितार्थे चित्तस्य विनिवेशस्वरूपो गृह्यते, न विद्यते उपयोगो यत्र सोऽनुपयोगः पदार्थः, स विवक्षितोपयोगस्य कारणमात्रत्वाद् द्रव्यमेव भवति 'इति कृत्वा' अस्मात् कारणादनन्तरोक्तमुपपद्यत इति शेषः । एतदुक्तं भवति - उपयोगपूर्वका अनुपयोगपूर्वकाश्च वाचना- प्रच्छनादयः सम्भवन्त्येव तत्रेह द्रव्यानुज्ञाचिन्ताप्रस्तावादनुपयोगपूर्वकाः गृह्यन्ते । इह जिनमते सर्वमपि सूत्रमर्थश्च श्रोतृजनमपेक्ष्य नयैर्विचार्यते,
नत्थि नएहिं विहूणं सुत्तं अत्थो य जिणमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ॥१॥ [
30 इति वचनात्, अत इयमपि द्रव्यानुज्ञा नयैश्चिन्त्यते । ते च मूलभेदमाश्रित्य नैगमादयः सप्त । तदुक्तम्
१७२
]
गम संगह बवहार उजुसुए चेव होति बोधवे । सदे य समभिरूढे एवंभूते य मूलनया ॥ १ ॥ [ तत्र नैगमस्तावत् कियत्यो द्रव्यानुज्ञा इच्छति इत्याह- नेगमस्सेत्यादि सामान्य- विशेषादिप्रकारेण नैकोऽपि तु बहवो
Jain Education International
J
For Private Personal Use Only
www.jainelibrary.org