________________
लघुनन्दिः-अनुज्ञानन्दिः ।
१७३ गमाः-वस्तुपरिच्छेदा यस्यासौ निरुक्तविधिना ककारस्य लोपाद् नैगमः, सामान्य-विशेषादिप्रकारैबहुरूपवस्वभ्युपगमपर इत्यर्थः । तस्य नैगमस्यैको देवदत्तादिरनुज्ञाशब्दार्थज्ञोऽनुपयुक्त आगमत एका द्रव्यानुज्ञा, द्वौ देवदत्त-यज्ञदत्तावनुपयुक्तौ आगमतो द्वे द्रव्यानुज्ञे, त्रयो देवदत्त-यज्ञदत्त-सोमदत्ता अनुपयुक्ता आगमतस्तिस्रो द्रव्यानुज्ञाः, किंबहुना ? एवं यावन्तो देवदत्तादयोऽनुपयुक्तास्तावत्य एव ता अतीतादिकालत्रयवर्तिन्यो नेगमतो द्रव्यानुज्ञा इति, न पुनः संग्रहवत् सामान्यवादित्वादेकैवेति भावः । एवमेव ववहारस्स वि त्ति व्यवहरणं व्यवहारः-लौकिकप्रवृत्तिरूपः, तत्प्रधानो नयोऽपि व्यवहारः, तस्यापि 'एवमेव' नैगमवदेको देव- 5 दत्तादिरनुपयुक्त आगमत एका द्रव्यानुज्ञा इत्यादि सर्वे वाच्यम् । इदमुक्तं भवति-व्यवहारनयो लोकव्यवहारोपकारिण एवं पदार्थानभ्युपगच्छति, न शेषान् , लोकव्यवहारे च जलाहरण-गपिण्डीप्रदानादिके घट-निम्बादिविशेषा एवोपकुर्वाणा दृश्यन्ते न पुनस्तदतिरिक्तं तत् सामान्यमिति विशेषानेव वस्तुसत्त्वेन प्रतिपद्यते असौ न सामान्यम् , व्यवहारानुपकारित्वाद् विशेषव्यतिरेकेणानुपलभ्यमानत्वाच्चेत्यतो विशेषवादिनैगममतसाम्येनातिदिष्टः । अत्र चातिदेशेनैवेष्टार्थसिद्धेग्रन्थलाघवार्थ सङ्ग्रहमतिक्रम्य व्यवहारोपन्यासः कृत इति भावनीयम् । संगहस्सेत्यादि सर्वमपि भुवनत्रयान्तर्वर्ति वस्तुनिकुरुम्बं सङ्ग्रह्णाति-सामान्य- 10 रूपतयाऽध्यवस्यतीति सङ्ग्रहः तस्य मते एको वाऽनेके वाऽनुपयुक्तो वाऽनुपयुक्ता वा यदागमत एका द्रव्यानुज्ञा बढयो वा तत् किम् ? इत्याह-से एगेत्ति सेयमेका द्रव्यानुज्ञा । इदमत्र हृदयम् सङ्ग्रहनयः सामान्यमेवाभ्युपगच्छति न विशेषान् , अभिदधाति च-सामान्याद् विशेषा व्यतिरिक्ता वा स्युः ? अव्यतिरिक्ता वा ?। यद्याद्यः पक्षः तर्हि न सन्यमी, निःसामान्यत्वात् , खरविषाणवत् । अथापरः पक्षः तर्हि सामान्यमेव ते, तदव्यतिरिक्तत्वात् , सामान्यस्वरूपवत् । तस्मात् सामान्यव्यतिरेकेण विशेषासिद्धेर्याः काश्चन द्रव्यानुज्ञास्ताः तत्सामान्याव्यतिरिक्तत्वादेकैव संग्रहस्य द्रव्यानुज्ञेति | उज्जुसुयस्सेत्यादि ऋजु-अतीता-ऽना- 15 गत-परकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयति-अभ्युपगच्छतीति ऋजुसूत्रः । अयं हि वर्तमानकालभाव्येव वस्तु अभ्युपगच्छति, नातीतम् विनष्टत्वाद् , नाप्यनागतम् अनुत्पन्नत्वात् । वर्तमानकालभाव्यपि स्वकीयमेव मन्यते, स्वकार्यसाधकत्वात् , स्वधनवत् ; परकीयं तु नेच्छति, स्वकार्याप्रसाधकत्वात् , परधनवत् । तस्मादेको देवदत्तादिरनुपयुक्तोऽस्य मते आगमत एका द्रव्यानुज्ञाऽस्ति । पुहत्तं नेच्छइ त्ति अतीता-ऽनागतभेदतः परकीयभेदतश्च 'पृथक्त्वं' प्रार्थक्यं नेच्छत्यसो, किं तर्हि ? वर्तमानकालीनं स्वगतमेव वाऽभ्युपैति, तच्चैकमेवेति भावः । तिण्डं सहनयाणमित्यादि शब्दप्रधाना नयाः शब्दनयाः शब्द-समभिरूद्वैवम्भूताः, ते हि शब्दं प्रधानमिच्छन्ति 20 अर्थ तु गौणम् , शब्दवशेनैवार्थप्रतीतेः । तेषां त्रयाणां शब्दनयानां ज्ञायकोऽथ चांनुपयुक्त इत्येतदवस्तु, न सम्भवतीदमित्यर्थः । कम्ह त्ति कस्मादेवमुच्यते ? इत्याह-यदि ज्ञायकस्तर्खनुपयुक्तो न भवति, ज्ञानस्योपयोगरूपत्वात् । इदमत्र हृदयम् - अनुज्ञापदार्थज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यानुज्ञेति प्राग् निर्णीतम् , एतच्चामी न प्रतिपद्यन्ते, यतो यद्यनुज्ञापदार्थ जानाति कथमनुपयुक्तः ! अनुपयुक्तश्चेत् कथं जानाति ! तस्योपयोगरूपत्वात् । सेयमागमतो द्रव्यानुज्ञा ॥ उक्ता आगमतो द्रव्यानुज्ञा । सम्प्रति नोआगमतः सोच्यते--
25 ७. से किं तं णोआगमतो दव्वाणुण्णा ? णोआगमतो दव्वाणुण्णा तिविहा पण्णताजाणगसरीरदव्वाणुण्णा भवियसरीरदव्वाणुण्णा जाणगसरीर-भवियसरीरवतिरिता व्वाणुण्णा ।
७. से किं तमित्यादि । नोशब्दोऽत्रागमस्य सर्वनिषेधे वर्तते, आगमश्च परिज्ञानम् , अनुज्ञापदार्थावगम इत्यर्थः, तत आगमाभावमाश्रित्य द्रव्यानुज्ञा त्रिविधा प्रज्ञप्ता । तद्यथा-ज्ञशरीरद्रव्यानुज्ञा भव्यशरीरद्रव्यानुज्ञा ज्ञशरीर-भव्यशरीरव्यतिरिक्तद्रव्यानुज्ञेति ॥ तत्राद्यामाह
८. से किं तं जाणगसरीरदव्वाणुण्णा ? जाणगसरीरदव्वाणुण्णा 'अणुण्ण'त्तिपदत्याहिगारजाणगस्स जं सरीरगं ववगयचुतचतियचत्तदेहं जीवविप्पजढं सिजागयं वा संथारगयं वा निसी
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org