Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 196
________________ श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् । [ पृष्ठ ९३ ] 5 पं. ५. पणवीसुत्तराणि दो सयाणि त्ति, इहोत्पादादीनां बिन्दुसारपर्यन्तानां चतुर्दशानां पूर्वाणां "दस चोदस सेव बारस दुवे य वत्थूणि ” । [ सू. १०९ गा. ७९-८० ] इत्यादिना प्राक् सूत्रोक्तगाथाद्वयेनाभिहितदशादिपञ्चविंशत्यन्तानामङ्कानां मीलने पञ्चविंशत्युत्तरशतद्वयं भवति । पं. ६. चउतीसं ति “च बारस अट्ठ य दस हवंति” [ पंक्ति ४] इतिगाथोक्तचतुःप्रभृतीनां मीलने ३४ भवति । पं. १२. इच्चेयम्मि इत्यादि । पं. १६. अन्ये तु धर्मापेक्षया अनन्ता भावाः प्रतिवस्त्वस्तित्वप्रतिबद्धाः कोऽर्थः :- एकस्यैव वस्तुनोऽनुवृत्तिरूपाः [ भावाः ] धर्मा अनन्ताः सन्ति, तदारम्भकाणामणूनामनन्तगुणकृष्णादिधर्मयुक्तत्वात् । अनन्ता अभावा प्रतिवस्तु नास्तित्वप्रतिबद्धाः, एकस्यापि वस्तुनस्त्रैलोक्यव्यावृत्तत्वादित्यभावानामनन्तत्वम् । पं. २३. सिद्धा अनन्ताः निष्ठितार्था लोकान्तवर्तिनः । असिद्धास्तु संसारिणस्तेऽप्यनन्ताः, असिद्धसर्वजीवराशेः सिद्धराश्यपेक्षया अनन्तगुणत्वख्यापनार्थमित्यर्थः । [ पृष्ठ ९४ ] 10 पं. ५. उभयाज्ञया पुनरिति सूत्रार्थोभयैर्विराध्य । पं. ६. अथवेत्यादि एतद्विराधनयेति, आज्ञाकरणेनेत्यर्थः । पं. ९. वर्त्तमाने विशिष्टविराधका ये मनुष्यजीवास्तेषाम् । पं. १६. विइवत्ति व्यतिव्रजितवन्तः । पं. १७. प्रत्युत्पन्नसूत्रे व्यतित्रजन्ति व्यतिक्रामन्ति । विश्वइस्संति 'व्यतित्रनिष्यन्ति' व्यतिक्रमिष्यन्तीत्यर्थः । [ पृष्ठ ९५ ] पं. ११ . श्रुतज्ञानी दत्तोपयोगः जानाति स्पष्टावभासिना श्रुतज्ञानेनावबुध्यते । पं. १२. मतिविशेषत इति, 15 तदुक्तम् अक्खरलंभेण समा ऊणऽहिया हुंति मइविसेसेण । ते वि य मईविसेसा सुयनागंतरे जाण ॥ १॥ [ विशेषा. गा. १४३] श्रुतज्ञानाश्रयास्ते इत्यर्थः ॥ पं. १८. आगमसत्थ० गाहा । पूर्वेषु विशारदाः विपश्चितो 'धीराः' व्रतानुपालनस्थिराः श्रुतज्ञानस्य लाभं 'ब्रुवते' प्रतिपादयन्ति । किं तत् ? इत्याह- "तं" ति तदेवाऽऽगमशास्त्रग्रहणम् । यत् किम् ? इत्याह-यद् 'बुद्धिगुणैः' वक्ष्यमाणस्वरूपैरष्टभिर्दृष्टं शास्त्रे इत्यक्षरयोजना । अयमर्थः -शिष्यते - शिक्ष्यते बोध्यते प्राणी अनेनेति 20 शास्त्रम्, तच्चाविशेषितं सामान्येन सर्वमपि मत्यादिज्ञानमुच्यते, सर्वेणापि ज्ञानेन जन्तूनां बोधनात् । अतो विशेषे स्थापयितुमाहआगमरूपं शास्त्रमागमशास्त्रम् श्रुतज्ञानमित्यर्थः, तस्य ग्रहणं - गुरुसकाशादादानं तदेव श्रुतलाभं ब्रुवते यद् बुद्धिगुणैरष्टभिः शास्त्रे दृष्टम्, नान्यदिति, वक्ष्यमाणशुश्रूषादिगुणाष्टक कमेणैव श्रुतज्ञानं ग्राह्यम् नान्यथेति तात्पर्यमिति गाथार्थः ॥ २०. सुस्सूसइ० गाहा । अथवा यद् यदाज्ञापयति कार्यजातं गुरुस्तत् तत् सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषते । पूर्वनिरूपितश्च कार्यकरणकाले पुनः पृच्छति प्रतिपृच्छति । इत्थं चाऽऽराधितस्य गुरोरन्तिके सूत्रं तदर्थं वा सम्यक् शृणोति । 25 श्रुतं चावग्रहेण गृह्णाति इत्यादि पूर्ववत् । यद्वा प्रतिपृष्टेन गुरुणा पुनरादिष्टश्च सन् तद्वचः सम्यक् शृणोति । श्रुतं चाऽवग्रहेण सम्यग् गृह्णातीत्यादि तथैव, यावत् करोति च गुरुभणितं सम्यगिति । एवं गुर्वाराधनविषयत्वेनाष्टावपि गुणा व्याख्यायन्ते श्रुतावाप्तौ मूलोपायत्वाद् गुर्वाराधनाया इति गाथार्थः ॥ श्रीधनेश्वरसूरीणां पादपद्मोपजीविना । नन्दिवृत्तौ कृता व्याख्या श्रीमच्छ्रीचन्द्रसूरिणा ||१|| समाप्ता चेयं नन्द्यध्ययनटीकायां श्रीशीलभद्र-प्रभुश्रीधनेश्वरसूरिशिष्यश्री श्रीचन्द्रसूरिविरचिता दुर्गपदव्याख्या || से त्तं नंदी समत्तेति वचनादाचार्यपदस्थापनायामनुयोगानुज्ञाविषयेयं नन्दिरेतावत्प्रमागा समर्थितेति ॥ टी० २२ १६९ Jain Education International For Private Personal Use Only 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248