Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
श्री - श्रीचन्द्र सूरिविनिर्मितं
[ पृष्ठ ८२ ]
पं. ७. उवासगदसत्ति दशाध्ययनात्मिका उपासक समाचारगोचरा ग्रन्थपद्धतयः । अत्र श्रमणोपासकानामानन्दकामदेवादीनां नगरादीन्याख्यायन्ते । पं. ९. सीलव्वयेत्यादि, शीलवतानि - अणुव्रतानि, गुणाः -गुणत्रतानि, विरमणानि - रागादिविरतयः, प्रत्याख्यानं - नमस्कारसहितादि, पौषधोपवासः - पर्वदिनोपवसनं आहारादित्यागरूपः, एतेषां प्रतिपादनानि - 5 प्रतिपत्तयः तान्याख्यायन्ते । “पडिमाउ” त्ति एकादशोपासक प्रतिमाः कायोत्सर्गा वा । ' उपसर्गाः' देवतादिकृतोपद्रवाः । " पाओवगमणाई” ति पादपोपगमनेनेव यदनशनं तदत्र ग्राह्यम्, न पुनः श्रावकाणां साक्षात् पादपोपगमनप्रतिपत्तिरस्ति, भक्तपरिज्ञयैव तन्मरणाभ्युपगमात् । यदुक्तम्
सव्वा विय अजाओ सवे वि हु पढमसंघयणवज्जा | सव्वे वि देसविरया पच्चक्खाणेण उ मरंति ॥१॥
10
15
25
[ पृष्ठ ८४ ]
पं. ४. पण्हावागरणाई इत्यादि । प्रश्नानां च व्याकरणानां च योगात् प्रश्नव्याकरणानि तेष्विति, बहुवचनं बहुत्वात् स्यात् । 'अट्टुत्तरमित्यादि, तत्रा बाहुप्रश्नादिका मन्त्रविद्याः प्रश्नाः । याः पुनर्विधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्त्येता अप्रश्नाः । तथा अङ्गुष्टादिप्रश्नभावं तदभावं च प्रतीत्य या विद्याः शुभाशुभं कथयन्ति ताः 'प्रश्नाप्रश्नाः ' उभयरूपा ज्ञेयाः । तथाऽन्ये 'दिव्याः विचित्रा विद्यातिशयाः स्तम्भ स्तोभ-वशीकरण-विद्वेषीकरणोच्चाटनादयः अङ्गष्टक- बाहु-आदर्शकादि20 सम्बन्धिनीभिः प्रश्नविद्याभिः अङ्गुष्टादीनामावेशनात् शुभाशुभं कथ्यते । 'नाग-सुपर्णैः' सह भवनपतिविशेषैः उपलक्षणत्वाद् यक्षादिमिश्र सह साधकस्येति गम्यते ' दिव्याः' तात्त्विकाः 'संवादा:' शुभाशुभगताः संलापा आख्यायन्ते, नागादयोऽवतारिताः स्मृता वा सन्त आगत्य शुभाशुभं कथयन्ति । पं. ९. नवरम् - यद्यपीहाध्ययनानां दशत्वाद् दशैवोदेशनकाला भवन्ति, तथापि वाचनान्तरापेक्षया पञ्चचत्वारिंशदिति सम्भाव्यते इति पणयालीसमित्याद्यविरुद्धम् । पं. २०. फलविवाग इति, फलरूपो विपाकः फलविपाकः स आख्यायते ।
30
१६६
35
[ मरणसमाधि गा. ५४१]
पं. २३. अंतगडदशासूत्रं सुगमम् । पं. २५. नवरम् भोगपरि] त्ति वचनाद् भोगविषयः परिभोगः - परित्याग एवोच्यते । [ पृष्ठ ८३ ]
पं. ११ . अत्र सव्वाणि अज्झयणाणि जुगवमित्यादि, अध्ययनसमूहात्मको वर्गो यतो युगपदुद्दिश्यते, अतः सर्वा - येक वर्गगतानि युगपदुद्दिश्यन्ते ||
प्रत्याख्यानं नाम भक्तपरिज्ञोच्यते । भोगा इति पदम्, तत्र “परिहरणा होइ परिभोगो” [
[ पृष्ठ ८५]
पं. १७. प्रायो व्यवच्छिम्नमिति, प्रायोग्रहणेन प्रथमानुयोगमात्रस्यास्तित्वं तत्काले सूचयति ।
[ पृष्ठ ८६ ]
पं. २३. उत्तरभेयओ तेयासीतिविहं ति, मूलभेदसप्तसु मध्यादाद्यद्वयस्य प्रत्येकं चतुर्दशभेदत्वात् २८, तृतीयादिशेषभेदपञ्चकस्य प्रत्येकमेकादशभेदत्वात् ५५, सर्वभेदाः ८३ त्र्यशीतिर्भवन्ति ।
[ पृष्ठ ८७ ]
पं. ६. नयचिंताए वित्ति नयचिन्तायामपि । पं. २१. सुत्तं छिन्नं ति अपरनिरपेक्षम् । बावीसाउत्ति छिन्नच्छेदनय २२ अच्छिन्नच्छेदनय२२ त्रिकनय २२ चतुष्कनया २२ भिप्रायतः चतस्रः । [ पृष्ठ ८८ ]
पं. २५. सव्वेसिं आयारो तित्थस्स पवत्तणे पढमयाए । सेसाई अंगाई एकारस आणुपुवी || १|| [ आचाराङ्गनि० गा० ८ ] इति सम्पूर्णगाथा । किंतु साठवण तिस्थापनामाश्रित्य निर्युक्तावभिहितं प्रथमत्वम् । अक्षररचनया तु पूर्वं पूर्वाणि रच्यन्ते ।
Jain Education International
For Private Personal Use Only
पं. ३०. चउरो
www.jainelibrary.org
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248