Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 189
________________ १६२ श्री-श्रीचन्द्रसूरिविनिर्मितं [पृष्ठ ७१] - पं. १. महाकर्मेन्धनप्रभवश्चासावविध्यातश्चासौ दुःखानलश्च तस्य ज्वालाकलापस्तेन परीतं-व्याप्त संसारवासगृहं पश्यन् यत् क्रियानुष्ठानविमुख एवाऽऽस्ते सत्त्वः स प्रमाद इति योगः। पं. ९. जातौ इति जन्मनि । पं. १५. दृष्ट्वाऽप्या लोकमिति “मौ यो पञ्चाऽश्वैर्वैश्वदेवीति नाम्ना" [ जयदेवच्छन्दः० अ० ६ सू० ३७ ] इति वैश्वदेवीदं छन्दः । आलोक्यते5 ज्ञायतेऽनेनेत्यालोकः-मत्यादिज्ञानचतुष्टयं छामस्थिकम् , तं 'दृष्ट्वा' लब्ध्वाऽपि विश्रम्भः-विश्वासो न विधेयः, यदुत 'लब्धं मया यल्लब्धव्यम्' इति ततो धर्म प्रति मन्दादरो भवेयमिति । यतो हि तीरं नीताऽपि 'भ्राम्यते' इतस्ततः प्रेर्यते व्याधुट्यते वा नौर्वातेन । तथाहि-ब्रह्मदत्तोऽत्र दृष्टान्तः 'नरेशः' चक्री चित्रसम्भूतजन्मनि सम्भूतपर्याये वर्तमानः लब्ध्वा वैराग्यं संयमानुष्ठानहेतुं 'प्रमादाद' विषयव्यामूढचित्तेन निदानकरणाद् भ्रष्टयोगोऽजनि, ततः 'व्यावृत्तः' व्याधुटितो धर्मात् । चित्रमनेकशो भण्यमानोऽपि चक्रिभवे वाऽनेकशः साधुना भण्यमानोऽपि धर्माद् भ्रष्टयोगोऽजनि इति प्रमादफलमिदम् । पं. २० अङ्गलस्याष्टावि10 त्यादि । तदुक्तम् अद्वेगसद्रिभागा पइदियह अंगुलस्स बड्दति । उत्तरअयणम्मि पुणो ते च्चिय हायंति पइदियहं ॥१॥ [ पं. २५. तत्राविशेषेऽपीति ज्ञानस्य सामान्यशिक्षणेऽपि अयं विशेषः-ज्योतिषं च निमित्तं च तयोर्ज्ञानं सूरेः प्रव्राजनादिकार्ये उपयुज्यते इति तिथि-करणादि च ज्योतिष्कविषये ज्ञातव्यम् । तदन्यथा विवाहादिविषयव्यापारणे दोषः' आरम्भादिसमुत्थः । [ पृष्ठ ७२] 15 .पं. २. संलेखनाश्रुतमिति, संलिख्यतेऽनया देहा-ऽऽमादीति संलेखना, शरीराद्यपकर्षणरूपा संलेखना । सा च किल त्रिविधा-जघन्या पाण्मासिकी १ मध्यमा संवत्सरप्रमाणा २ उत्कृष्टा तु द्वादशवर्षरूपा ३ । सा चैवम्- पं. ४-५-६. चत्तारि० गाहा, नाइविगिट्टो य० गाहा, वासं० गाहा । प्रथमं चत्वारि वर्षाणि यावद् 'विचित्रं' चतुर्थ-षष्ठा-ऽष्टम-दशम-द्वादशादिकं तपः करोति, पारणके च विकृतीगृह्णाति न वेत्यनियमः । अपराणि तु चत्वारि वर्षाणि तपस्तथैव विचित्रमेव करोति, पारणके तु सर्वथा विकृतिवर्जमस्निग्धं भुङ्क्ते । अन्यत्तु संवत्सरद्विकं एकान्तरितमाचाम्लं विदधाति-चतुर्थं कृत्वा आचाम्लेन पारयति, पुनश्चतुर्थ 20 कृत्वा आचाम्लेनैव पारयतीत्यर्थः, एवं पुनः पुनर्यावद् वर्षद्वयम् । एकादशस्य तु वर्षस्याऽऽद्यान् षण्मासान् 'नातिविकृष्टं' नातिगाढं तपः करोति, चतुर्थ षष्ठं वा विधत्ते, नाष्टमादिकमित्यर्थः । पारणके तु 'परिमितं' किञ्चिदूनोदरतासम्पन्नमाचाम्लं करोति । अपरांस्तु षण्मासान् ‘विकृष्टम्' अष्टम-दशम-द्वादशादिकं तपः करोति, पारणके त्वाचाम्लमूनोदरतया न करोति, किन्तु ध्रुवेणेत्यर्थः । द्वादशं तु वर्ष कोटीसहितं निरन्तरमाचाम्लं करोतीत्यर्थः । चतुर्थं कृत्वा आचाम्लेन पारयति, पुनश्चतुर्थं विधायाऽऽचाम्लेनैव पारयतीत्या दीन्यपि मतान्तराणि द्वादशवर्षविषयाणि दृश्यन्ते । इह च भोजनं कुर्वन् प्रतिदिवसमूनोदरतां तावत् करोति यावदेकं कवलमाहा25 रयति, तमप्येक-द्वि-त्र्यादिसिक्थोनं तावदाहारयति यावदेकमेव सिक्थं भुङ्क्ते । अपरं चेह द्वादशवर्षस्य पर्यन्तवर्तिनश्चतुरो मासान् यावदेकान्तरिकेषु पारणकदिवसेषु सुचिरं तैलगण्डूषमसौ मुखे धार्यते, ततः खेलमल्लके भस्ममध्ये प्रक्षिप्य मुखमुष्णोदकेन शोधयति । यदि पुनस्तैलगण्डूषविधि न कार्यते तदा वायुना मुखमीलनसम्भवे पर्यन्तसमये नमस्कारमुच्चारयितुं न शक्नोति । तदेवमुत्कृष्टसंलेखनानुसारेण जघन्य-मध्यमे अपि कार्ये । तदन्ते च भक्तप्रत्याख्यानादिमरणानामन्यतरत् प्रतिपद्यते, अत एवाह-गिरिकंदर मित्यादि। पं. ११. गिलाणं किरियाईयं ति उत्थानादिक्रियाकरणासमर्थं ज्ञात्वा । पं. १२. [सव्वदव्य दायण30 याए त्ति सर्वद्रव्यदर्शनेन। नित्तण्हस्स त्ति भक्ते विगततृष्णस्य। पं.२९. आवलिकाप्रविष्टेभ्य इतरविमानानि पुष्पावकीर्णकानि । [पृष्ठ ७३] पं. ४. उवउत्ते समाणे त्ति उपयुक्तः सन् श्रमणः 'परिवर्त्तते' गुणयति । पं. ७. ओवयइ त्ति आकाशाद् 'अवपतति' अवतरति अंतद्धिए त्ति 'अन्तर्हितः' आकाशस्थः । पं. ११. सिंगनाइयकज्जेसु त्ति, शृङ्गज्ञातेन तुल्यानि शृङ्गज्ञातीयानि, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248