________________
१६२
श्री-श्रीचन्द्रसूरिविनिर्मितं
[पृष्ठ ७१] - पं. १. महाकर्मेन्धनप्रभवश्चासावविध्यातश्चासौ दुःखानलश्च तस्य ज्वालाकलापस्तेन परीतं-व्याप्त संसारवासगृहं पश्यन् यत् क्रियानुष्ठानविमुख एवाऽऽस्ते सत्त्वः स प्रमाद इति योगः। पं. ९. जातौ इति जन्मनि । पं. १५. दृष्ट्वाऽप्या
लोकमिति “मौ यो पञ्चाऽश्वैर्वैश्वदेवीति नाम्ना" [ जयदेवच्छन्दः० अ० ६ सू० ३७ ] इति वैश्वदेवीदं छन्दः । आलोक्यते5 ज्ञायतेऽनेनेत्यालोकः-मत्यादिज्ञानचतुष्टयं छामस्थिकम् , तं 'दृष्ट्वा' लब्ध्वाऽपि विश्रम्भः-विश्वासो न विधेयः, यदुत 'लब्धं मया
यल्लब्धव्यम्' इति ततो धर्म प्रति मन्दादरो भवेयमिति । यतो हि तीरं नीताऽपि 'भ्राम्यते' इतस्ततः प्रेर्यते व्याधुट्यते वा नौर्वातेन । तथाहि-ब्रह्मदत्तोऽत्र दृष्टान्तः 'नरेशः' चक्री चित्रसम्भूतजन्मनि सम्भूतपर्याये वर्तमानः लब्ध्वा वैराग्यं संयमानुष्ठानहेतुं 'प्रमादाद' विषयव्यामूढचित्तेन निदानकरणाद् भ्रष्टयोगोऽजनि, ततः 'व्यावृत्तः' व्याधुटितो धर्मात् । चित्रमनेकशो भण्यमानोऽपि
चक्रिभवे वाऽनेकशः साधुना भण्यमानोऽपि धर्माद् भ्रष्टयोगोऽजनि इति प्रमादफलमिदम् । पं. २० अङ्गलस्याष्टावि10 त्यादि । तदुक्तम्
अद्वेगसद्रिभागा पइदियह अंगुलस्स बड्दति । उत्तरअयणम्मि पुणो ते च्चिय हायंति पइदियहं ॥१॥ [
पं. २५. तत्राविशेषेऽपीति ज्ञानस्य सामान्यशिक्षणेऽपि अयं विशेषः-ज्योतिषं च निमित्तं च तयोर्ज्ञानं सूरेः प्रव्राजनादिकार्ये उपयुज्यते इति तिथि-करणादि च ज्योतिष्कविषये ज्ञातव्यम् । तदन्यथा विवाहादिविषयव्यापारणे दोषः' आरम्भादिसमुत्थः ।
[ पृष्ठ ७२] 15 .पं. २. संलेखनाश्रुतमिति, संलिख्यतेऽनया देहा-ऽऽमादीति संलेखना, शरीराद्यपकर्षणरूपा संलेखना । सा च किल त्रिविधा-जघन्या पाण्मासिकी १ मध्यमा संवत्सरप्रमाणा २ उत्कृष्टा तु द्वादशवर्षरूपा ३ । सा चैवम्- पं. ४-५-६. चत्तारि० गाहा, नाइविगिट्टो य० गाहा, वासं० गाहा । प्रथमं चत्वारि वर्षाणि यावद् 'विचित्रं' चतुर्थ-षष्ठा-ऽष्टम-दशम-द्वादशादिकं तपः करोति, पारणके च विकृतीगृह्णाति न वेत्यनियमः । अपराणि तु चत्वारि वर्षाणि तपस्तथैव विचित्रमेव करोति, पारणके तु सर्वथा विकृतिवर्जमस्निग्धं भुङ्क्ते । अन्यत्तु संवत्सरद्विकं एकान्तरितमाचाम्लं विदधाति-चतुर्थं कृत्वा आचाम्लेन पारयति, पुनश्चतुर्थ 20 कृत्वा आचाम्लेनैव पारयतीत्यर्थः, एवं पुनः पुनर्यावद् वर्षद्वयम् । एकादशस्य तु वर्षस्याऽऽद्यान् षण्मासान् 'नातिविकृष्टं' नातिगाढं
तपः करोति, चतुर्थ षष्ठं वा विधत्ते, नाष्टमादिकमित्यर्थः । पारणके तु 'परिमितं' किञ्चिदूनोदरतासम्पन्नमाचाम्लं करोति । अपरांस्तु षण्मासान् ‘विकृष्टम्' अष्टम-दशम-द्वादशादिकं तपः करोति, पारणके त्वाचाम्लमूनोदरतया न करोति, किन्तु ध्रुवेणेत्यर्थः । द्वादशं तु वर्ष कोटीसहितं निरन्तरमाचाम्लं करोतीत्यर्थः । चतुर्थं कृत्वा आचाम्लेन पारयति, पुनश्चतुर्थं विधायाऽऽचाम्लेनैव पारयतीत्या
दीन्यपि मतान्तराणि द्वादशवर्षविषयाणि दृश्यन्ते । इह च भोजनं कुर्वन् प्रतिदिवसमूनोदरतां तावत् करोति यावदेकं कवलमाहा25 रयति, तमप्येक-द्वि-त्र्यादिसिक्थोनं तावदाहारयति यावदेकमेव सिक्थं भुङ्क्ते । अपरं चेह द्वादशवर्षस्य पर्यन्तवर्तिनश्चतुरो मासान्
यावदेकान्तरिकेषु पारणकदिवसेषु सुचिरं तैलगण्डूषमसौ मुखे धार्यते, ततः खेलमल्लके भस्ममध्ये प्रक्षिप्य मुखमुष्णोदकेन शोधयति । यदि पुनस्तैलगण्डूषविधि न कार्यते तदा वायुना मुखमीलनसम्भवे पर्यन्तसमये नमस्कारमुच्चारयितुं न शक्नोति । तदेवमुत्कृष्टसंलेखनानुसारेण जघन्य-मध्यमे अपि कार्ये । तदन्ते च भक्तप्रत्याख्यानादिमरणानामन्यतरत् प्रतिपद्यते, अत एवाह-गिरिकंदर
मित्यादि। पं. ११. गिलाणं किरियाईयं ति उत्थानादिक्रियाकरणासमर्थं ज्ञात्वा । पं. १२. [सव्वदव्य दायण30 याए त्ति सर्वद्रव्यदर्शनेन। नित्तण्हस्स त्ति भक्ते विगततृष्णस्य। पं.२९. आवलिकाप्रविष्टेभ्य इतरविमानानि पुष्पावकीर्णकानि ।
[पृष्ठ ७३] पं. ४. उवउत्ते समाणे त्ति उपयुक्तः सन् श्रमणः 'परिवर्त्तते' गुणयति । पं. ७. ओवयइ त्ति आकाशाद् 'अवपतति' अवतरति अंतद्धिए त्ति 'अन्तर्हितः' आकाशस्थः । पं. ११. सिंगनाइयकज्जेसु त्ति, शृङ्गज्ञातेन तुल्यानि शृङ्गज्ञातीयानि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org