________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
इत्यर्थः ।
त्यादि ।
पं. ४. तानन्तरेणेत्यादि, नहि परपर्यायेष्वसत्सु स्वपर्यायाः केचिद् भेदेन सिध्यन्ति, स्व-परशब्दयोरापेक्षिकत्वात्; अन्यथा तदक्षरं घटादिभ्यो व्यावृत्तं न सिध्येत् । प्रयोगश्वापरोऽपि - घटादिपर्याया अप्यक्षरपर्यायाः, तत्र तेषामुपयुज्यमानत्वात् । इह यद् यस्योपयुज्यते तद् भेदवर्त्यपि तस्येति व्यपदिश्यते, यथा देवदत्तादेः स्वधनम्, उपयुज्यन्ते च स्वपर्यायविशेषणभावेन घटादिपर्याया अप्यक्षरस्य, अतस्ते तस्यापि भवन्ति । एवमक्षरपर्याया अपि घटादेर्वाच्याः । तथा वस्तुस्थित्याऽपि चेत्यादिग्रन्थो भावितार्थ एव । पं. ८. “ जे एगं जाणइ " इत्यादि, एतदुक्तं भवति - 'एक' किमपि वस्तु सर्वैः स्व-परपर्यायैर्युक्तं 5 जानन्–अवबुध्यमानः ‘सर्वं' लोका-लोकगतं वस्तु सर्वैः स्व- परपर्यायैर्युक्तं जानाति, सर्ववस्तुपरिज्ञाननान्तरीयकत्वादेकवस्तुज्ञानस्य । यश्व 'सर्वं' सर्वपर्यायोपेतं वस्तु जानाति स एकमपि सर्वपर्यायोपेतं जानात्येव, एकपरिज्ञानाविनाभावित्वात् सर्वपरिज्ञानस्येति । अतः सर्वं सर्वपर्यायोपेतं वस्तु अजानानो नाऽकाररूपमक्षरं 'सर्वथा' सर्वप्रकारैः सर्व पर्यायोपेतं जानाति । तस्माच्छेषसमस्तवस्तुपर्यायैः परिज्ञातैरेव एकमक्षरं ज्ञायते, नान्यथेति भावः । अक्षरविचारस्येह प्रक्रान्तत्वादेकैकमक्षरं सर्वद्रव्यपर्यायराशिमानमुच्यते, अन्यथाऽन्येषामपि परमाणु-द्व्यणुक - घटादिद्रव्याणामिदमेव पर्यायमानं द्रष्टव्यम्, एतद् वक्तुमाह- पं. ११ ततश्चास्मात् सूत्रादि- 10 पं. १५. असौ अनन्तभागो नित्योद्घाटोऽकारादिश्रुताक्षरस्य तज्जन्यज्ञानस्य वा द्रष्टव्यः, न शेषज्ञानानामित्यर्थः । पं. १८. भिन्नेऽर्थजाते यत् सदृशाक्षरालापकं तद् गमिकम् । असदृशं त्वगमिकम् । अन्यच्च गाथा - श्लोक - वेष्टकाद्यसदृशपाठात्मकत्वादगमिकम् । पं. २४. अत्राहेत्यादि, अङ्गा ऽनङ्गप्रविष्टभेदद्वयस्य प्राधान्यख्यापनार्थम् । पं. २७. गायदुगद्धं तु इति, पूर्व-पश्चिमउर:- पृष्ठिरूपम् | पं. ३०. गणहरकय० गाहा, अङ्गा - ऽनङ्गप्रविष्टश्रुतयोरिदं नानात्वम् । किम् ? इत्याहगणधराः - गौतमस्वाम्यादयः तत्कृतं श्रुतं द्वादशाङ्गरूपमङ्गप्रविष्टमुच्यते । स्थविराः - भद्रबाहुस्वाम्यादयस्तैः 'यत् कृतं' 15 यद् दृब्धं श्रुतमावश्यकनिर्युक्त्यादिकं तद् 'अङ्गबाह्यम्' अनङ्गप्रविष्टमुच्यते । द्वितीयं भेदकारणमाह – निययमित्यादि, सर्वतीर्थकर तीर्थेषु 'नियतं ' निश्वयभावि यत् श्रुतं तदङ्गप्रविष्टमुच्यते, द्वादशाङ्गमित्यर्थः । यत् पुनः 'अनियतम्' अनिश्चयभावि प्रकीर्णकादिकं श्रुतं तदङ्गबाह्यं भणितम् । आह - ननु प्रथमं पूर्वाण्येवोपनिबध्नाति गणधर इत्यागमे श्रूयते, पूर्वकरणादेव चैतानि पूर्वाण्यभिधीयन्ते तेषु च निःशेषमपि वाङ्मयमवतरति, अतश्चतुर्दशपूर्वात्मकं द्वादशमेवाङ्गमस्तु, किं शेषाङ्गविरचनेन ! अङ्गबाह्यश्रुतरचनेन वा ? इति अत्रोच्यते - यद्यपि दृष्टिवादे सर्वस्यापि वाङ्मयस्यावतारोऽस्ति तथापि दुर्मेधसां तदवधारणाद्ययोग्यानां 20 मन्दमतीनां तथा श्रावकादीनां स्त्रीणां चानुग्रहार्थं विशेषश्रुतस्य पूर्वेभ्यो विभिन्नस्याङ्गबाह्य- शेषाङ्गरूपस्य विरचना कृतेति । स्त्रीणां दृष्टिवादे अधिकार एव नास्ति । यदुक्तम् —
तुच्छा गारवबहुला चलिदिया दुब्बला धिईए य । एएण कारणेणं भूतावाओ य नो थीणं ॥१॥ ति
[ विशेषा० गा० ५५२ ] अशेषविशेषान्वितस्य समग्र वस्तुस्तोमस्य भूतस्य - सद्भूतस्य वादः - भणनं यत्रासौ 'भूतवादः' दृष्टिवादोऽभिधीयते । दीर्घत्वं 25 तकारस्याऽऽर्घत्वात् ।
१६१
[ पृष्ठ ७० 1
पं. ९. सावज्ज० गाहा । सावद्ययोगविरतिरर्थाधिकारः सामायिकस्य १ । जिनगणोत्कीर्त्तनं चतुर्विंशतिस्तवस्याधिकारः २ । गुणवतः प्रतिपत्तिर्वन्दनकस्यार्थाधिकारः ३ । स्खलितस्य निन्दा प्रतिक्रमणस्यार्थाधिकारः ४ । व्रणचिकित्साऽर्थाधिकारः कायो'त्सर्गस्य ५ । गुणधारणा च प्रत्याख्यानस्यार्थाधिकारः ६ । इति गाथाक्षरार्थमात्रम् ॥ पं. १५. यदिह दिवस - निशा - 30 प्रथम-चरमपौरुषीलक्षण एव काले कालग्रहणपूर्वकं पठ्यते, नान्यत्र, तत् कालिकम् उत्तराध्ययनादि । यत्तु कालवेलामात्रवर्ज शेषकालानियमेन पठ्यते तद् उत्कालिकम् आवश्यकादि । अन्यच्च तन्दुलविचारणादिप्रकीर्णकेषु स्वाध्यायप्रस्थापनं योगो - त्क्षेपकायोत्सर्गश्च न क्रियते ।
टी० २१
Jain Education International
For Private Personal Use Only
www.jainelibrary.org