________________
१६०
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं
नन्तपर्यायम् । इदमुक्तं भवति-इह समस्तत्रिभुवनवर्तीनि यानि परमाणु-यणुकादीनि, एकाकाशप्रदेशादीनि च यानि द्रव्याणि, ये च सर्वेऽपि वर्णास्तदभिधेयाश्चार्थाः, तेषां सर्वेषामपि पिण्डितो यः पर्यायराशिर्भवति स एकैकस्याप्यकाराद्यक्षरस्य भवति, पिण्डितराशिमध्ये ह्यकारस्य केचित् स्तोकाः स्वपर्यायाः, ते चानन्ताः, शेषात्वनन्तानन्तगुणाः परपर्याया इत्येवं सर्वसङ्ग्रहः । अयं च
सर्वोऽपि सर्वद्रव्यपर्यायराशिः सद्भावतोऽनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्षम् , पदार्थाश्चाकारेकारादयो धर्मास्तिकायादयः 5 सर्वाकाशप्रदेशसहिताः सर्वेऽपि किल सहस्रम् , तत्रैकस्याकारपदार्थस्य सर्वद्रव्यगतलक्षपर्यायराशिमध्यादस्तित्वेन सम्बद्धाः किल शतप्रमाणाः स्वपर्यायाः, शेषास्तु नास्तित्वेन सम्बद्धाः सर्वेऽपि परपर्यायाः । एवमिकारादेः परमाणु-द्वयणुकादेश्चैकैकद्रव्यस्य वाच्यम् । पं. २५. आह के पुनः स्वपर्यायाः ? के च परपर्यायाः ? यदशेनानन्तपर्यायता स्यादिति दर्शयति-उदात्ताऽनुदात्तेत्यादिना । पं. २६. एवं यावत इति यानुदात्ता-ऽनुदात्त-सानुनासिक-निरनुनासिकादीनात्मगतान् पर्यायान् 'केवलः' अन्यवर्णेनासंयुक्तोऽन्यवर्णसहितो वा [अकारो] 'लभते' अनुभवति ते तस्य स्वपर्यायाः प्रोच्यन्ते, अस्तित्वेन
ते चानन्ताः, तद्वाच्यस्य विष्णुपरमाण्वादिद्रव्यस्यानन्तत्वात् । यस्मात् सङ्ख्येयानामप्यक्षराणामभिधेयं पञ्चास्ति
योन्यविलक्षणमनन्तम् । तथाहि-परमाणोः प्रारभ्य क्रमशः प्रदेशवृद्धया पुद्गलास्तिकायेऽपि सर्वदैवानन्तानि भिन्नरूपाणि द्रव्याणि 'प्राप्यन्ते, भिन्नाभिधानानि चैतानि । यथा-परमाणुः द्वयणुकः त्र्यणुकः चतुरणुको यावदनन्तप्रदेशिक इति । प्रत्येकं चानेकाभिधानान्येतानि, तद्यथा--अणुः परमाणुः निरंशो निर्भेदो निरवयवो निष्प्रदेशोऽप्रदेश इत्यादि ।
तथा द्वचणुको द्विप्रदेशिको विभेदो द्वयवयव इत्यादि सर्वद्रव्य-पर्यायेष्वायोजनीयम् । पं. २७. यतोऽभिधेयमनन्तं 15 भिन्नरूपं भिन्नाभिधानं च तेन यत्परिमाणमभिधेयं तत्परिमागमभिधानमपि भवति, अभिधेयभेदेनाभिधानस्यापि भेदात् । न हि
येनैव स्वरूपेण घटादिशब्देऽकारादिवर्णाः संयुक्तास्तेनैव स्वरूपेण पटादिशब्देऽपि, अभिधेयैकत्वप्रसङ्गात् , एकरूपशब्दाभिधेयत्वाद घटतत्स्वरूपवदिति, अतोऽभिधेयाऽऽनन्त्यादभिधानाऽऽनन्त्यमित्येनमर्थ वक्तुमाह अभिलाप्येत्यादिना। पं. २९. साङ्केतिकेत्यादि, शब्दस्यार्थेन सम्बन्धः साङ्केतिक एव, पृथुबुध्नोदराकारे ह्यर्थे घटशब्दः सङ्केतितो व्यवहाराय, न पुनस्तात्त्विकः
शब्दस्य कश्चिन्निजाभिधेयोऽर्थः समस्ति, एवं कुटादिष्वपीति, एतत् साङ्केतिकशब्दार्थवादिमतम् । तदेतदयुक्तम् , घटः कुटः 20 कुम्भ इत्यादयो हि शब्दा भिन्नप्रवृत्तिनिमित्ताः भिन्नार्थगोचराः। तथाहि-घटनाद् घटः, विशिष्टचेष्टावानों घटः; तथा "कट
कौटिल्ये" कुटनात् कुटः, कौटिल्ययोगात् कुटः, “उभ उम्भ पूरणे” को उम्भनात् कुस्थितपूरणात् कुम्भः निपातनादिति । एवं निजाभिधेयमर्थ प्रतिपादयतां शब्दानां वाच्य-वाचकभावः शब्दार्थयोरस्ति सम्बन्धः, न तु सङ्केतमात्रम् । शेषास्त्वित्यादि, शेषास्त्विकारादिसम्बन्धिनो घटादिगताश्चास्य परपर्यायाः, तेषां तत्राभावात् तेभ्यो व्यावृत्ततया नास्तित्वेन सम्बन्धात् । एवमिकारादीनामपि भावनीयम् । इदमुक्तं भवति-अकारेकाराद्यक्षरे घटादिपर्याया अस्तित्वेन न सम्बद्धा इति तेषां परपर्यायव्यपदेशः, 25 यतो घटादिपर्याया अस्तित्वेन घटादिष्वेव सम्बद्धा इत्यक्षरस्य ते परपर्यायाः, केवलमक्षव्यावृत्तेन रूपेण तेऽपि सम्बद्धा एव,
इत्यतस्तेषामपि परपर्यायाणां व्यावृत्तरूपतया पारमार्थिकं स्व-परपर्यायत्वं न विरुध्यते । द्विविधं हि वस्तुनः स्वरूपम्-अस्तित्वं नास्तित्वं च, ततो ये यत्रास्तित्वेन प्रतिबद्धास्ते तस्य वस्तुनः स्वपर्याया उच्यन्ते, ये तु यत्र नास्तित्वेन सम्बद्धास्ते तस्य परपर्यायाः प्रतिपाद्यन्ते, अतोऽक्षरे घटादिपर्याया अस्तित्वेन न सम्बद्धा इति परपर्याया उच्यन्ते, न पुनः सर्वथा ते तत्र न सम्बद्धाः, नास्तित्वेन तत्रापि सम्बन्धात् ।
. [पृष्ठ ६९] ___पं. १. आहेत्यादि, ये घटादीनां पर्यायास्ते कथं तस्येति अक्षरस्य सत्का भवन्ति ? तेषामक्षरेऽसम्बद्धत्वादिति पराशयः । अत्रोच्यते-देवदत्तस्वधनवदक्षरेऽसम्बद्धा अपि घटादिपर्याया अक्षरस्य पर्याया भवन्ति । कुतः ? इत्याह- पं. २. स्वपर्यायविशेषणोपयोगात् स्वपर्यायाणां विशेषणेन-विशेषव्यवस्थापकत्वेन परपर्यायाणामप्युपयोगात् , परपर्याया अप्यक्षरस्योपयुज्यन्त
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org