________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१५९
सम्पूर्णश्रुतविदोऽक्षरस्यानन्तभागवर्त्तित्वं युज्यत एव केवलज्ञानस्वपर्यायेभ्यः श्रुतज्ञानस्वपर्यायाणामनन्तभागवर्तित्वात् श्रुतज्ञानस्य परोक्षविषयत्वेनास्पष्टत्वाच्च । यच्च समुदितस्व-परपर्यायापेक्षया श्रुत-केवलाक्षरयोस्तुल्यत्वं तदिह न विवक्षितम् । विमध्यमाक्षरानन्तभागश्चोत्कृष्टश्रुतज्ञानविदः सकाशादवशेषाणां पृथिव्याद्येकेन्द्रिय- सम्पूर्ण श्रुतज्ञानिनोर्मध्ये वर्त्तमानानामनन्तभागादिषट्स्थानपतितानां प्रायेणासौ भवति । प्रायोग्रहणाद् विवक्षितादेकस्मादुत्कृष्टश्रुतज्ञा निनोऽवशेषाणामपि केषाञ्चिदुत्कृष्टश्रुतज्ञानवतां तत्तुल्य एवाक्षरानन्तभागो भवति, उत्कृष्ट इत्यर्थः, न तु विमध्यमः । 'त्रिविधेऽप्यक्षरे गृह्यमाणेऽविरोधः' इत्युक्तम् | 'अक्षरस्य चानन्तभागः सर्व - 5 जघन्यश्चैतन्यमात्रम्, स च पृथिव्याद्येकेन्द्रियादीनामसंज्ञि-संज्ञिभेदानां सर्वजीवानामपि च सर्वदैवानावृत एवाssस्ते' इति चोक्तम् । ‘अपर्यवसितश्रुताधिकारादकारायेव चाक्षरं न्यायानुपाति' इति चोक्तम् । अत्राऽऽचष्टे - पुरुष - स्त्री- नपुंसक घटपटादिवर्णविज्ञानरूपोऽक्षरलाभः ‘संज्ञिनां’ समनस्कजीवानां भवतु, एतत् श्रदध्महे, 'असंज्ञिनां तु' अमनस्कानां वर्णविज्ञानरूपोऽसौ न युज्यते, अक्षरलाभस्य परोपदेशजत्वात्, मनोविकलानां तु तदसम्भवात् न च वाच्यम् ' मा भवत्वसौ तेषाम्' इति, यतोऽसावेके न्द्रियाद्यसंज्ञिनामपि वर्णविज्ञानाक्षरलाभोऽभिहितः, श्रुताज्ञानाक्षरस्य तेपामपि श्रुते भणनात्; तदेतत् कथमुपपद्यते । अत्रोच्यते-यथा 'चैतन्यं' जीवत्व - 10 मकृत्रिममाहारादिसंज्ञाद्वारेणासंज्ञिनामवगम्यते तथा लब्ध्यक्षरात्मकमूहाज्ञानमपि तेषामवगन्तव्यम्, स्तोकत्वेनास्पष्टत्वात् स्थूलदर्शिभिस्तदूहाज्ञानं नोपलक्ष्यते, पृथिव्याद्येकेन्द्रियाणां जीवत्वमिव । यदपि परोपदेशजत्वमक्षरस्योच्यते तदपि संज्ञा व्यञ्जनाक्षर योरवसेयम् । लब्ध्यक्षरं तु क्षयोपशमेन्द्रियादिनिमित्तमसंज्ञिनां न विरुध्यते, तदेव च श्रुतज्ञानाधिकारे मुख्यतः प्रस्तुतम्, न तु संज्ञाव्यञ्जनाक्षरे । किश्च गौरपि शबला - बहुलादिशब्देनाऽऽकारिता सती स्वनाम जानीते, प्रवृत्ति - निवृत्त्यादि च कुर्वती दृश्यते । न चैषां गवादीनां तथाविधः परोपदेशः समस्ति । अथ चाऽस्ति लब्ध्यक्षरम्, नरादिविज्ञानसद्भावात्, पुलीन्द्र- बाल-गोपालादीनामनक्षराणामपि वा 15 यथा तदस्ति एवमसंज्ञिनामपि किमपि तदेष्टव्यम् । तदेवं साधितमेकेन्द्रियादीनामपि यच्च यावच्च लब्ध्यक्षरम्, इन्द्रिय- मनोनिमित्तं श्रुतग्रन्थानुसारि विज्ञानम्, श्रुतज्ञानोपयोग इत्यर्थः, यश्च तदावरणकर्मक्षयोपशमः, एतौ द्वावपि लब्ध्यक्षर मिति भावार्थः । पं. १६. अत्राहेत्यादि, ‘अत्र' अस्मिन् प्रकृते नन्दिसूत्रे 'अविशेषितं' सामान्येनैव 'अक्षर' ज्ञानमुक्तम्, अविशेषाभिधाने च केवलज्ञानस्य महत्वात् तदेवात्राक्षरं गम्यते, इह तु श्रुतज्ञानविचाराधिकारात् श्रुताक्षरमकाराद्येवाक्षरशब्दवाच्यतया प्रकृतम्, तद् अकारादिश्रुताक्षरं कथं केवलपर्यायमानतुल्यं भवेत् ? न कथञ्चिदित्यर्थः ; अयमभिप्रायः - केवलस्य सर्वद्रव्यपर्यायवेत्तृत्वादद् भवतु 20 सर्वद्रव्यपर्यायमानता, श्रुतस्य तदनन्तभागविषयत्वात् कथं तत्पर्यायमानतुल्यता ? इति । अत्रोच्यते - नन्वत्रापि "अक्खर सन्नी सम्मं साईयं खलु” इत्यादिप्रक्रमेऽपर्यवसितश्रुते विचार्यमाणे “सञ्चागासपएसग्गं” [ सूत्र ७६ ] इत्यादिसूत्रस्य पाठात् श्रुताधिकारादक्षरमकाराद्येवात्र गम्यते, न तु केवलाक्षरम् । पं. १८. अथ ब्रूषे - " सव्वजीवाणं पि य णमित्यादिद्वितीयसूत्रात् केवलाक्षरं प्रथमसूत्रे गम्यते, न तु श्रुताक्षरम्, श्रुताक्षरपक्षे हि सकलद्वादशाङ्गविदां सम्पूर्णस्यापि श्रुताक्षरस्य उद्घाटसद्भावात् ‘सर्वजीवाश्रितोऽक्षरस्यानन्तभागो नित्योद्घाट:' इति नोपपद्यते । पं. २०. अत्रार्थे यद्येवमित्यादिना सूरिब्रूते हन्त ! एवं सति 25 केवलाक्षरमपि तत्र नोपपद्यते, केवलिनां सम्पूर्णस्यापि केवलाक्षरस्य सद्भावात् 'सर्वजीवानामक्षरस्यानन्तभागो नित्योदघाट:' इत्यस्यार्थस्यानुपपत्तिरेव न अतस्तदिति, तत् सूत्रोक्तं केवलाक्षरमपि नोपपद्यत इत्यर्थः । अथ मनुषे - तत्राविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणाद् अपिशब्दाद्वा केवलिनो विहायान्येषामेवाक्षरस्यानन्तभागो नित्योद्घाट इति केवलाक्षरग्रहणेऽविरोधः, हन्त ! तदेतच्छ्रुताक्षरग्रहणेऽपि समानम्, यतस्तत्राविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणाद् अपिशब्दाद्वा समस्तद्वादशाङ्गविदो विहायान्येषामेवास्मदादीनामक्षरस्यानन्तभागो नित्योदघाट इतीहापि शक्यत एव वक्तुम् । यस्मात् प्राक्तनसूत्रे केवलाक्षरम्, द्वितीये चाका- 30 राक्षरमपि च भवतु, न कश्चिद् दाषः । पं. २३. न च श्रुताक्षरस्य सर्वद्रव्यपर्यायपरिमाणता विरुध्यते इति वाच्यम्, स्व-परपर्यायभेदादुभयस्यापि तदुपपत्तेः । उभयं श्रुताक्षरं केवलाक्षरं चेत्यर्थः । तथाऽप्यत्रेत्यादि, 'तत् पुनः' अकाराद्यक्षरमेकैकमप्य
१ सर्वद्रव्य जेटि० ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org