________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
श्री
१६३
तानि च तानि कार्याणि चेति विग्रहः । यथा गवि स्थितं शृङ्गं सर्वजनप्रकटं भवति, एवं यत् सर्वजनविदितं महदद्भुतं किञ्चिच्चैत्यगुरु-सङ्घादिविषयमनर्थरूपं प्रत्यनीकेन क्रियमाणं भवति तत् शृङ्गज्ञातीयमुच्यत इत्येके । शृङ्गनादितकार्यमित्यपरे, तत्र तादृशे कार्ये उत्पन्ने शृङ्गनादः-शृङ्गापूरणपूर्वकं सङ्घमिलनलक्षणः स सञ्जातो यत्र तच्च तत् कार्य चेति व्याचक्षते । गज्ञातीयं शृसङ्घकार्यमुच्यते इति तात्पर्यम् । पं. १२. आसुरुप्तः रुष्टः, अत एव 'अप्रसन्नलेश्यः' अप्रशस्तचित्ताध्यवसायः। पं. १७. सललियं ति सलीलं यथा भवति एवमागत्य स्वस्थाने निवसति । पं. २३. जाणि कप्पविमाणाणि त्ति देव्युत्पत्ति- 5 विषयाणीत्यर्थः ।
[पृष्ठ ७४] पं. १३. अन्ने इत्यादि, उसभाईणं संधराणं ति जीवतामित्यर्थः । पं. १४. पवाहेण त्ति निवृतानां पुनरेकैकतीर्थे बहूनि द्रष्टव्यानि । पं. २०. तच्छिष्यभाव इति शासनप्रणेतृतीर्थकरशिष्यभावः प्रत्येकबुद्धानामप्यदुष्टः । पं. २१. अनियोगत (न तु नियोगत) इति न त्ववश्यम्भावेनेत्यर्थः । पं. २६. अङ्गेषु प्रविष्टम्-अन्तर्गतमङ्गप्रविष्टं 10 श्रुतमाचारादि ।
[पृष्ठ ७५] पं.१०. बाह्या-ऽभ्यन्तरग्रन्थरहितानामिति, तत्र बाह्यः-धन-धान्यादिकः प्रतीतः, अभ्यन्तरश्च-मिथ्यात्वं नव नोकषायाः क्रोधादिकषायचतुष्टयं चेति चतुर्दशविधः। पं. १७. इह च यत्रेत्यादि आचार-गोचर-विनयेत्यादौ सूत्रे । पं. २३. निस्संकिय० गाहा, 'निःशङ्कितः' निर्गतशङ्को जीवादिषु । 'निष्काङ्कितः' निर्गतकाङ्गोऽन्यतीर्थिकमतेषु । 'निर्विचिकित्सः' नि:- 15 सन्दिग्धोऽनुष्ठानफलं प्रति । अमूढदृष्टिः कुतीकिविद्यादिदर्शनैः । 'चः' समुच्चये। एवं गुण-गुणिनोः कथञ्चिदभेदावेदनद्वारेण दर्शनाचारमभिदधता तद्वदभिधानमुखेनाऽसावुक्तः, अतस्तं गुणिनो भेदेनाप्याह-उपबृंहणमुपबृंहा-गुणवत्स्तुतिरूपा । 'स्थिरीकरणं' धर्मे चलाचलस्य स्थिरत्वापादनलक्षणम् । तथा 'वात्सल्यं' वत्सलभावः, साधर्मिकाणामाहारादिभिरुपष्टम्भकरणमित्यर्थः । तथा प्रकर्षण भावना-जिनशासनमाहात्म्याविष्करणरूपा । अष्टावमी दर्शनाचारा इत्यर्थः । पं. २५. प्रभावकानष्टावुद्दिष्टानाह-अइसेस० गाहा, व्याख्या-अतिशेषाः-अवधिज्ञानादयः, ते तैर्वा ऋद्धिर्यस्याऽसावतिशेषर्द्धिः, भिन्ने वा पदे, तद्वन्तौ दृश्यौ १। 'आचार्यः' 20 प्रावचनिकः २ । 'वादी' वादलब्धिमान् ३ । 'धर्मकथी' धर्मकथालब्धियुक्तः ४ । 'क्षपकः' विकृष्टतपःकर्ता ५ । 'नैमित्तिकः' सुनिश्चितातीतादिनिमित्तवेदी ६ । विद्येत्युपलक्षणत्वाद् विद्यावान् ७ । 'राज-गणसम्मताः' पृथिवीपति-महाजनादिबहुमताः, स्थानद्वयमिदं एकं वा ८, अतिशेपद्धर्येकत्वविवक्षायाम् । 'तीर्थ' प्रवचनं स्वसमृद्ध्या 'प्रभावयन्ति' मध्यस्थप्राणिनां बहुमानगोचरीकुर्वन्तीति गाथार्थः।। पं.२८. प्रणिधानं-चित्तकाग्रता, तेन मनो-वाकायेषु योगेषु युक्तः-तन्निग्रहपरः। पं. ३२. न इहलोकाद्यर्थमाजीवति तपसा यः सोऽनाजीवी।
[ पृष्ठ ७६] पं. ७. 'वेढाः' छन्दोविशेषाः 'एकार्थप्रतिबद्धवचनसङ्कलिकेत्यर्थः' इत्यन्ये। पं. ९. द्रव्याघभ्युपगमाः प्रतिपत्तयः, मतान्तराणीत्यर्थः । सूत्रादों गरीयान् , अत एव सूत्रधरादर्थधरः प्रधान इत्युच्यते । पं. ११. स्थापनामित्यादि, रचनापेक्षया तु द्वादशमङ्गं प्रथमम् , पूर्वगतस्य पूर्व प्रवचनात् पूर्व क्रियमाणत्वात् पूर्वाण्युच्यन्ते । स्थापनामधिकृत्य च आचारः प्रथममङ्गम् । पं. १३. सत्थपरिन्नेत्यादिगाथायामत्र चतुर्थपादो महापरिनोवहाणसुयमिति वक्ष्यमाणव्याख्यानेनायमेवात्र 30 पाठः । अन्यत्र च "उवहाणसुयं महपरिने"ति पठ्यते तच्चेह नोपपद्यते, उद्देशनकालसंख्याया विघटनात्, महापरिज्ञायास्तत्र प्रथममुपादानात् पश्चादुपधानश्रुतस्येति । प्रथमश्रुतस्कन्धो नवाध्ययननिष्पन्नो भवति । पिंडेसणेत्यादिना द्वितीयश्रुतस्कन्धाध्ययनषोडशकम् । तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org