________________
१६४
श्री-श्रीचन्द्रसूरिविनिर्मितं पं. १५. पिंडेसण १ सेजिररिया ३ भासज्जाया य ४ वत्थ ५ पाएसा ६ ।
उग्गहपडिमा ७ सत्तेक्कसत्तया १४ भावण १५ विमुत्ती १६ ॥१॥ __पं. १९. शस्त्रपरिज्ञादिषु पञ्चविंशत्यध्ययनेषु क्रमेणैते उद्देशनकाला यथा-एवं सत्थपरिनाए इत्यादिना कथयतीति । पं. २५. सत्त य छ चेत्यादिगाथापूर्वार्द्धनाऽऽद्यश्रुतस्कन्धे कालाः ५१, एकारेत्याधुत्तरार्द्धन द्वितीयश्रुतस्कन्धगोचरकालाः 5 ३४ अभिहिताः, सर्वे ८५। पं. २७. जइ दो सुयक्खंधा इत्यादि एयं विरुज्झइ त्ति, श्रुतस्कन्धद्वयादिके उच्यमाने
"नवबंभचेरमइउत्ति एयं विरुज्झइ, यतोऽनेन एक एव श्रुतस्कन्धो नवाध्ययनात्मक आचारस्य प्राप्नोति । पं.२८. सूरिराहएत्य वित्ति आचारनियुक्तावेवोक्तम् । तदेवाह- पं. २९. “हवइ य सपंचचूलो" त्ति द्वितीयश्रुतस्कन्धे पञ्च चूडाः। यद्वा आचारस्य यदग्रं चूडादिकं तत्सहितस्य श्रुतस्कन्धद्वयादिकं परिमाणमुच्यते, नवाध्ययनमयस्य चाष्टादशपदसहस्राण्येव परिमाणम् ।
[पृष्ठ ७७] 10 पं. ५. अणंता पन्जव त्ति, पर्यवाः पर्याया धर्मा इत्यर्थः, तेऽनन्ताः, एकैकस्याप्यकाराद्यक्षरस्य तदभिधेयस्य जीवादिवस्तुनः
प्रत्येकमनन्तपर्यायत्वात् स्व-परभेदभिन्नत्वेन । पं. ६. त्रसाः परीत्ताः, नानन्ताः, एवंरूपत्वादेव तेषाम् । पं. ७. सासयकडेत्यादौ निकाइय त्ति निकाचिताः-प्रतिष्ठिता इत्यर्थः । पं. ९. भावाः पदार्थाः, अन्येऽप्यजीवादयः आघविजंति 'आख्यायन्ते' सामान्य-विशेषाभ्यां कथ्यन्ते जिनोक्ता भावाः । पम्नविज्जति प्रज्ञाप्यन्ते नामादिभेदतः । प्ररूप्यन्ते
नामादिस्वरूपकथनेन, यथा “पर्यायानभिधेयं च नामे"त्यादि । दयन्ते उपमामात्रतः, यथा गौस्तथा गवय इत्यादि । निद15 श्यन्ते हेतु-दृष्टान्तोपन्यासेन । उपदयन्ते उपनय-निगमनाभ्यां सकलनयाभिप्रायतो वा । इत्थं सर्वत्र व्याख्या वाच्या ।
पं. २७. सूयगडेत्यादि रूढयोच्यते इति, सूत्रकृतशब्देन द्वितीयमेवाङ्गमुच्यते, नान्यत् । पं. २९. व्यूहं कृत्वेति तिरस्कारं विधाय ईश्वरकारणिन इति, तथा च पठ्यते__ अज्ञो जन्तुरनीशः स्यादात्मनः सुख-दुःखयोः । ईश्वरप्रेरितो गच्छेत् श्वभ्रं वा स्वर्गमेव वा ॥१॥ [ ] इति ।
[ पृष्ठ ७८] 20 पं. १०. क्रिया पूर्ववदिति 'व्यूहं कृत्वे'त्यादिका । अनवस्थितस्येति क्षणिकत्वेनानवस्थितत्वम् । पं. २१.
लघुत्वात् प्रक्रमस्येति, प्रक्रमः ‘लघुः' अल्पाक्षरो यथा भवति तथा कार्यम् , मत्वर्थीयेन चाक्षराधिक्याद् गुरुः स्यात् , अतो मत्वर्थीयात् 'प्रागेव' आदित एव बहुव्रीहिणा अज्ञाना इति वक्तुमुचितम् , तदसत् , बहुव्रीहिणा हि अज्ञानिकशब्दवाच्योऽर्थो न प्रतीयते, किन्तु न ज्ञानं यस्येति ज्ञानाभाव एव प्रतीयते, न चेदमिष्टम् , किन्तु नञा कुत्सार्थवृत्तिनाऽज्ञानमित्यविशिष्टं ज्ञानान्तरमेव प्रतीयते, कुत्सितत्वं च तस्य मिथ्यादर्शनसमन्वितत्वात् , अतो मत्वर्थीयोऽत्र युक्तः । पं. २२. यथा गौरखरवदरण्य25 मित्यत्र श्वापदविशेषो गौरखरः, तदुपेतमरण्यम् । अत्र जातिशब्दत्वाद् बहुव्रीहिणोक्तार्थत्वेऽपि मत्वर्थीयः प्रवृत्तः एवं प्रकृतेऽपि । पं. २३. असञ्चित्यकृतः- अज्ञाततया कृतो जीवेन योऽसौ बन्धः तस्य वैफल्यादयः-विफलत्वादयः उदयपरिशाटादयः तेषां प्रतिपत्तिः सैव लक्षणं येषां ते तथा। पं. २५. सत्त्वमित्यादि एत एव सप्त सदादयः जैनमते स्यात्पदलाञ्छिताः सप्तभङ्गीति व्यपदेश्या भवन्ति । सर्व वस्तु सप्तभङ्गीस्वभावम् । ते चामी-स्वद्रव्य-क्षेत्र-काल-भावापेक्षया स्यादस्ति १ । परद्रव्याद्यपेक्षया
स्यान्नास्ति २। तथा कस्यचिदंशस्य स्वद्रव्याद्यपेक्षया विवक्षितत्वात् कस्यचित्त्वंशस्य परद्रव्याद्यपेक्षया स्यादस्ति च नास्ति चेति ३ । 30 सदसतोरेव धर्मयोर्योगपद्येनाभिधातुमशक्यत्वात् स्यादवक्तव्यम् ४ । तथैकस्यांशस्य स्वद्रव्याद्यपेक्षयाऽपरस्य तु सामस्त्येन स्व
परद्रव्याद्यपेक्षया विवक्षितत्वात् स्यादस्ति चावक्तव्यं चेति ५ । तथैकांशस्य परद्रव्याद्यपेक्षयाऽपरस्य तु यौगपद्येन स्व-परद्रव्याद्यपेक्षया स्यान्नास्ति चावक्तव्यं चेति ६ । तथैकांशस्य स्वद्रव्याद्यपेक्षया परद्रव्याद्यपेक्षयाऽन्यस्य तु योगपद्येन स्व-परद्रव्याद्यपेक्षया विवक्षितत्वात् स्यादस्ति च नास्ति चावक्तव्यं चेति ७ । इयं सप्तभङ्गी। पं. २७. अज्ञानिकास्तु 'को जानाति जीवः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org