Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 186
________________ श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् । १५९ सम्पूर्णश्रुतविदोऽक्षरस्यानन्तभागवर्त्तित्वं युज्यत एव केवलज्ञानस्वपर्यायेभ्यः श्रुतज्ञानस्वपर्यायाणामनन्तभागवर्तित्वात् श्रुतज्ञानस्य परोक्षविषयत्वेनास्पष्टत्वाच्च । यच्च समुदितस्व-परपर्यायापेक्षया श्रुत-केवलाक्षरयोस्तुल्यत्वं तदिह न विवक्षितम् । विमध्यमाक्षरानन्तभागश्चोत्कृष्टश्रुतज्ञानविदः सकाशादवशेषाणां पृथिव्याद्येकेन्द्रिय- सम्पूर्ण श्रुतज्ञानिनोर्मध्ये वर्त्तमानानामनन्तभागादिषट्स्थानपतितानां प्रायेणासौ भवति । प्रायोग्रहणाद् विवक्षितादेकस्मादुत्कृष्टश्रुतज्ञा निनोऽवशेषाणामपि केषाञ्चिदुत्कृष्टश्रुतज्ञानवतां तत्तुल्य एवाक्षरानन्तभागो भवति, उत्कृष्ट इत्यर्थः, न तु विमध्यमः । 'त्रिविधेऽप्यक्षरे गृह्यमाणेऽविरोधः' इत्युक्तम् | 'अक्षरस्य चानन्तभागः सर्व - 5 जघन्यश्चैतन्यमात्रम्, स च पृथिव्याद्येकेन्द्रियादीनामसंज्ञि-संज्ञिभेदानां सर्वजीवानामपि च सर्वदैवानावृत एवाssस्ते' इति चोक्तम् । ‘अपर्यवसितश्रुताधिकारादकारायेव चाक्षरं न्यायानुपाति' इति चोक्तम् । अत्राऽऽचष्टे - पुरुष - स्त्री- नपुंसक घटपटादिवर्णविज्ञानरूपोऽक्षरलाभः ‘संज्ञिनां’ समनस्कजीवानां भवतु, एतत् श्रदध्महे, 'असंज्ञिनां तु' अमनस्कानां वर्णविज्ञानरूपोऽसौ न युज्यते, अक्षरलाभस्य परोपदेशजत्वात्, मनोविकलानां तु तदसम्भवात् न च वाच्यम् ' मा भवत्वसौ तेषाम्' इति, यतोऽसावेके न्द्रियाद्यसंज्ञिनामपि वर्णविज्ञानाक्षरलाभोऽभिहितः, श्रुताज्ञानाक्षरस्य तेपामपि श्रुते भणनात्; तदेतत् कथमुपपद्यते । अत्रोच्यते-यथा 'चैतन्यं' जीवत्व - 10 मकृत्रिममाहारादिसंज्ञाद्वारेणासंज्ञिनामवगम्यते तथा लब्ध्यक्षरात्मकमूहाज्ञानमपि तेषामवगन्तव्यम्, स्तोकत्वेनास्पष्टत्वात् स्थूलदर्शिभिस्तदूहाज्ञानं नोपलक्ष्यते, पृथिव्याद्येकेन्द्रियाणां जीवत्वमिव । यदपि परोपदेशजत्वमक्षरस्योच्यते तदपि संज्ञा व्यञ्जनाक्षर योरवसेयम् । लब्ध्यक्षरं तु क्षयोपशमेन्द्रियादिनिमित्तमसंज्ञिनां न विरुध्यते, तदेव च श्रुतज्ञानाधिकारे मुख्यतः प्रस्तुतम्, न तु संज्ञाव्यञ्जनाक्षरे । किश्च गौरपि शबला - बहुलादिशब्देनाऽऽकारिता सती स्वनाम जानीते, प्रवृत्ति - निवृत्त्यादि च कुर्वती दृश्यते । न चैषां गवादीनां तथाविधः परोपदेशः समस्ति । अथ चाऽस्ति लब्ध्यक्षरम्, नरादिविज्ञानसद्भावात्, पुलीन्द्र- बाल-गोपालादीनामनक्षराणामपि वा 15 यथा तदस्ति एवमसंज्ञिनामपि किमपि तदेष्टव्यम् । तदेवं साधितमेकेन्द्रियादीनामपि यच्च यावच्च लब्ध्यक्षरम्, इन्द्रिय- मनोनिमित्तं श्रुतग्रन्थानुसारि विज्ञानम्, श्रुतज्ञानोपयोग इत्यर्थः, यश्च तदावरणकर्मक्षयोपशमः, एतौ द्वावपि लब्ध्यक्षर मिति भावार्थः । पं. १६. अत्राहेत्यादि, ‘अत्र' अस्मिन् प्रकृते नन्दिसूत्रे 'अविशेषितं' सामान्येनैव 'अक्षर' ज्ञानमुक्तम्, अविशेषाभिधाने च केवलज्ञानस्य महत्वात् तदेवात्राक्षरं गम्यते, इह तु श्रुतज्ञानविचाराधिकारात् श्रुताक्षरमकाराद्येवाक्षरशब्दवाच्यतया प्रकृतम्, तद् अकारादिश्रुताक्षरं कथं केवलपर्यायमानतुल्यं भवेत् ? न कथञ्चिदित्यर्थः ; अयमभिप्रायः - केवलस्य सर्वद्रव्यपर्यायवेत्तृत्वादद् भवतु 20 सर्वद्रव्यपर्यायमानता, श्रुतस्य तदनन्तभागविषयत्वात् कथं तत्पर्यायमानतुल्यता ? इति । अत्रोच्यते - नन्वत्रापि "अक्खर सन्नी सम्मं साईयं खलु” इत्यादिप्रक्रमेऽपर्यवसितश्रुते विचार्यमाणे “सञ्चागासपएसग्गं” [ सूत्र ७६ ] इत्यादिसूत्रस्य पाठात् श्रुताधिकारादक्षरमकाराद्येवात्र गम्यते, न तु केवलाक्षरम् । पं. १८. अथ ब्रूषे - " सव्वजीवाणं पि य णमित्यादिद्वितीयसूत्रात् केवलाक्षरं प्रथमसूत्रे गम्यते, न तु श्रुताक्षरम्, श्रुताक्षरपक्षे हि सकलद्वादशाङ्गविदां सम्पूर्णस्यापि श्रुताक्षरस्य उद्घाटसद्भावात् ‘सर्वजीवाश्रितोऽक्षरस्यानन्तभागो नित्योद्घाट:' इति नोपपद्यते । पं. २०. अत्रार्थे यद्येवमित्यादिना सूरिब्रूते हन्त ! एवं सति 25 केवलाक्षरमपि तत्र नोपपद्यते, केवलिनां सम्पूर्णस्यापि केवलाक्षरस्य सद्भावात् 'सर्वजीवानामक्षरस्यानन्तभागो नित्योदघाट:' इत्यस्यार्थस्यानुपपत्तिरेव न अतस्तदिति, तत् सूत्रोक्तं केवलाक्षरमपि नोपपद्यत इत्यर्थः । अथ मनुषे - तत्राविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणाद् अपिशब्दाद्वा केवलिनो विहायान्येषामेवाक्षरस्यानन्तभागो नित्योद्घाट इति केवलाक्षरग्रहणेऽविरोधः, हन्त ! तदेतच्छ्रुताक्षरग्रहणेऽपि समानम्, यतस्तत्राविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणाद् अपिशब्दाद्वा समस्तद्वादशाङ्गविदो विहायान्येषामेवास्मदादीनामक्षरस्यानन्तभागो नित्योदघाट इतीहापि शक्यत एव वक्तुम् । यस्मात् प्राक्तनसूत्रे केवलाक्षरम्, द्वितीये चाका- 30 राक्षरमपि च भवतु, न कश्चिद् दाषः । पं. २३. न च श्रुताक्षरस्य सर्वद्रव्यपर्यायपरिमाणता विरुध्यते इति वाच्यम्, स्व-परपर्यायभेदादुभयस्यापि तदुपपत्तेः । उभयं श्रुताक्षरं केवलाक्षरं चेत्यर्थः । तथाऽप्यत्रेत्यादि, 'तत् पुनः' अकाराद्यक्षरमेकैकमप्य १ सर्वद्रव्य जेटि० ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248