Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 185
________________ १५८ मलधारिश्री-श्रीचन्द्रसूरिविनिर्मित न पुनः सर्वात्मना पर्यायान्तरविशिष्टस्यापि जीवस्य नाशः । यस्मादसौ जीव उत्पाद-व्यय-ध्रौव्यधर्माऽनन्तपर्यायश्च वर्त्तते । ततो यदैवाऽसौ श्रुतपर्यायेण विनश्यति तदैव श्रुताज्ञानादिपर्यायेणोत्पद्यते, सचेतनत्वा-ऽमूर्त्तत्व-सत्त्व-प्रमेयत्वादिभिरनुगतैरन्यव्यावृत्तश्चानन्तैः पर्यायैर्विशिष्टोऽसौ सर्वावस्थास्ववतिष्ठते; अतः कथं श्रुतपर्यायमात्रविनाशे जीवस्य सर्वथा विनाशः स्यात् ? । यदि हि तस्यायमेवैकः पर्यायो भवेत् तदा तद्विनाशे तस्य सर्वनाशः स्यात् , एतच्च नास्ति, श्रुतपर्यायमात्रेण विनष्टस्यापि तस्य श्रुताज्ञानादि5 पर्यायेणोत्पादाद् यथोक्तैश्वानन्तपर्यायैः परश्यावृत्तादिरूपैर्विशिष्टस्य सर्वदैवावस्थानादिति न किञ्चिद् दूषणमापतति । तदेवं सादिश्रुतं ज्ञानात्मकं सम्यग्दृष्टेः, अज्ञानात्मकं वा सादि सम्यक्त्वाच्च्युतस्य जन्तोर्मिध्यादृष्टेः सतः । अलब्धपूर्वसम्यक्त्वस्य तदेवानादिश्रुतम् । सपर्यवसितं भव्यानाम् , केवलोत्पत्तौ ध्रुवं पर्यवसानात् । अपर्यवसितमभन्यानाम् , केवलोत्पादानहत्वादिति साद्यादिभावार्थः । [पृष्ठ ६८] पं. ३. पर्यायाग्राक्षरं निष्पद्यते इत्यादि, यद्यपीह केवलसर्वाकाशप्रदेशपर्यायराशिप्रमाणमक्षरपर्यायमानमुक्तं तथापि 10 धर्मास्तिकायादिपञ्चद्रव्यपर्याया अप्यक्षरस्य पर्यायमानतया द्रष्टव्याः, अत एवोक्तं सर्वद्रव्यपर्यायपरिमाणमिति भावार्थ इति । यद्येवं धर्माऽधर्मा-ऽऽकाश-पुद्गलास्तिकाय-काललक्षणसर्वव्यपर्यायराशिप्रमाणं अक्षरपर्यायमानं सूत्रकृता किमिति नौर स्तोकत्वाञ्चेति, सूत्रे धर्मास्तिकायादीनां पञ्चद्रव्याणां पर्याया नाभिहितास्साक्षात , आकाशपर्यायेभ्यः स्तोका अनन्तभागवर्तिनस्त इति कृत्वा, किन्तु य एव तेभ्यो अतिबहवोऽनन्तगुणास्त एव सर्वाकाशपर्यायाः साक्षादुक्ताः, अर्थतस्तु धर्मास्तिकायादिपर्याया अपि स्वीकृता एव द्रष्टव्याः । एवं च सर्वाकाशप्रदेशानां यावन्तः सर्वेऽपि पर्यायाः सर्वव्यपर्यायाश्च तावदेकस्याक्षरस्य पर्यायमानं 15 भवति । अथ किमिति सर्वाकाशप्रदेशाग्रं सर्वाकाशप्रदेशैरनन्तगुणमुक्तम् ? उच्यते-यत एकैकस्मिन्नाकाशप्रदेशे अनन्ता अगुरुलघु पर्यायाः सन्ति अत इदमुक्तम् । अयमर्थः-इह निश्चयनयमतेन बादरं वस्तु सर्वमपि गुरुलघु, सूक्ष्मं त्वगुरुलधु, तत्रागुरुलधुवस्तुसम्बन्धिनः पर्याया अप्यगुरुलघवः समयेऽभिधीयन्ते, आकाशप्रदेशाश्चागुरुलघवोऽतस्तत्पर्याया अप्यगुरुलघवो भण्यन्ते, ते चाsकाशप्रदेशेषु प्रत्येकमनन्ताः सन्ति अतस्तैरनन्तगुणमुक्तम् । पं. ९. अथेदं सर्वद्रव्य-पर्यायपरिमाणाक्षरं कीदृशम् ? इत्याह इह चेत्यादि, न क्षरति-न चलत्यनुपयोगेऽपि न प्रच्यवत इत्यक्षरम् , स च चेतनाभावः, जीवस्य ज्ञानपरिणाम इत्यर्थः१। तज्ज्ञेय20 मिति तस्य-ज्ञानस्य ज्ञेयं-घट-व्योमादि तज्ज्ञेयम् , साभिलापज्ञानविषयभूतधटाद्यभिलाप्यार्थरूपं ज्ञेयमप्यक्षरमुच्यते । कथम् ? इति चेत्, यतो घट-व्योमाद्यभिलप्यं द्रव्यार्थतया न क्षरति-स्वरूपान्न चलति नित्यत्वादित्यक्षरम् २। तथा अकारादीन् अर्थान् अभिधेयान् क्षरति-संशब्दयतीति निरुक्तविधिना अर्थ-कारलोपादक्षरम् , 'अकारादि' वर्णरूपम् , वर्णश्च वर्ण्यते-प्रकाश्यतेऽर्थोऽनेनाकारककारादिनेति वर्णः अकारादिरेव ३ । त्रिविधेऽप्यक्षरे गृह्यमाणेऽदोषोऽत्र । नन्वेतत् सर्वपर्यायपरिमाणाक्षरं किं सर्वमपि ज्ञानावरण कर्मणा आवियते ? न वा ? इत्याह-अस्य चेत्यादि, अस्य च सामान्येनैव सर्वपर्यायपरिमाणाक्षरस्यानन्तभागः 'नित्योद्घाटितः' 25 सर्वदैवानावृत एवाऽऽस्ते, केषाम् ? सर्वजीवानामपि, चकारात् केवलिवर्जानामिति दृश्यम् , तदक्षरस्य सर्वात्मनोद्घाटात् । स च जघन्य-मध्यमोत्कृष्टभेदादनेकविधः । पं.१०. तत्र सर्वजघन्यस्याक्षरानन्तभागस्य स्वरूपमाह-तत्रेत्यादि, सर्वजघन्योऽक्षरानन्तभाग आत्मनो जीवत्वनिबन्धनं चैतन्यमानं उत्कृष्टावरणेऽपि सति जीवस्य कदाचिदपि नाऽऽवियते, जीवस्वाभाव्यात्, अन्यथाऽजीवत्वप्रसङ्गात् । यथा सुष्ठ्वपि जलदच्छन्नार्क-चन्द्रप्रकाशो दिन-रात्रिविभागनिबन्धनं किञ्चित्प्रभामात्रकारि मेघेन नाऽऽत्रियते, एवं जीवस्यापि चैतन्यमानं कदापि नाऽऽवियते । केषां पुनरसौ सर्वजघन्यः प्राप्यते ? उच्यते-स्त्यानर्द्धिमहानिद्रोदय30 सहितोत्कृष्टज्ञानावरणोदयादसौ सर्वजघन्योऽक्षरानन्तभागः पृथिव्यायेकेन्द्रियाणां प्राप्यते, ततः क्रमविशुद्धया द्वीन्द्रियादीनामसौ क्रमेण क्रमेण वर्धते । अथोत्कृष्टो मध्यमश्चाक्षरानन्तभागः केषां भवति ? अत्रोच्यते-उत्कृष्टोऽसावुत्कृष्टश्रुतविदः स्यात् , सम्पूर्णश्रुतज्ञानस्य द्वादशाङ्गविद इति भावः । नन्वस्य कथमक्षरानन्तभागः ? यावता श्रुतज्ञानाक्षरं सम्पूर्णमप्यस्य प्राप्यत एव ? सत्यम् , किन्तु संलुलितसामान्यश्रुतकेवलाक्षरापेक्षयैव समस्तश्रुतविदोऽक्षरानन्तभागो विवक्षितः, सामान्ये चाक्षरे विवक्षिते केवलाक्षरापेक्षया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248