Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 183
________________ १५६ - मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं लभ्यत इति कथमुच्यते 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम् ? इति । सिद्धान्तवादी तु मन्यते-यथा ज्ञान-दर्शनयोर्वस्त्ववबोधरूपतया एकत्वेऽपि विशेष-सामान्यग्राहकत्वेन भेदस्तथाऽत्रापि शुद्धतत्त्वावगमरूपे श्रुते तत्त्वश्रद्धानांशः सम्यक्त्वम् , तद्विशिष्टं तु तत्त्वरोचकं श्रुतज्ञानमित्यनयोर्भेदः । एतयोश्च सम्यक्त्व-श्रुतयोर्युगपल्लाभेऽपि कार्य-कारणभावाद् भेदः । उक्तं च कारण-कजविभागो दीव-पगासाण जुगवजम्मे वि । जुगवुप्पन्नं पि तहा हेऊ नाणस्स सम्मत्तं ॥१॥ जुगवं पि समुप्पन्नं सम्मत्तं अहिगमं विसोहेइ । जह कयगमंजणाई जल-दिट्ठीओ विसोहिंति ॥२॥ [ अतो युक्तमुक्तं सम्यक्वपरिगृहीतं सम्यक्श्रुतम् , विपर्ययात्तु मिथ्याश्रुतमिति गाथाद्वयार्थः ॥२॥ गतं सप्रतिपक्षं सम्यक्श्रुतम्॥ - पं. १५. अधिकारवशादिति प्रतिपक्षसम्बन्धवशादित्यर्थः। पं. १६. पर्यायास्तिक-द्रव्यास्तिकनयाभ्यां साधनादिश्रतविचारोऽभिधीयते-व्यवच्छित्तिनयस्यानित्यवादिनः पर्यायास्तिकस्य मतेन सादि सपर्यन्तं च श्रुतम् , अनित्यत्वात् , जीवस्य नारकादिगतिपर्यायवत् । तथाहि-श्रुतज्ञानिनां निरन्तरमपरापरे द्रव्याधुपयोगाः प्रसूयन्ते प्रलीयन्ते च, न च तेभ्योऽन्यत् किमपि 10 श्रुतमस्ति, श्रुतकार्यभूतस्य जीवादितत्त्वावबोधस्य श्रुतज्ञानरहिते वस्तुनि अदर्शनादिति, द्रव्यादिषु च श्रुतोपयोगः सादिः सपर्य वसित एवेति । पं. १९. अव्यवच्छित्तिनयस्य नित्यवादिनो द्रव्यास्तिकस्याभिप्रायेणेदं श्रुतं अनादि अपर्यन्तं च, नित्यत्वात् , पश्चास्तिकायवत् । तथाहि-यैर्जीवद्रव्यैः श्रुतमिदमधीतम् यान्यधीयन्ते यानि चाध्येष्यन्ते तानि तावन्न कदाऽपि व्यवच्छिद्यन्ते इति तेषामनादिताऽपर्यन्तता च । ततः श्रुतस्यापि जीवद्रव्यपर्यायभूतस्य तदेव्यतिरेकान्नित्यद्रव्यरूपतैव, नहि सर्वथाऽसत् काप्युत्पद्यते, सिकतास्वपि तैलाद्युत्पत्तिप्रसङ्गात् ; नापि सतो निरन्वयनाशेनात्यन्तोच्छेदः, सर्वशून्यतापत्तेः, तस्मात् श्रुताधारद्रव्याणां सर्वदैव 15 सत्त्वात् तदव्यतिरेकिणः श्रुतस्यापि द्रव्यरूपतैवेति स्थितम् । [पृष्ठ ६६] पं. ३. अथवा नयविचारमुत्सृज्य द्रव्यादिचतुष्टयमाश्रित्याधिकृतमेवार्थ साधादिस्वरूपं चिन्तयति-तत्र द्रव्य-क्षेत्र-कालभावः श्रुतं सादिकमनादिकं सान्तमनन्तं च भवति । इह च द्रव्यतः श्रुतमेकं बहूनि च पुरुषद्रव्याण्याश्रित्य चिन्तनीयम् । तत्रैकपुरुषद्रव्यमङ्गीकृत्य सादि सनिधनं च श्रुतं भावयति कथमित्यादिना-यो येन भावेन पूर्वं नासीद् इदानी च जातः स तेन 20 भावेन तत्प्रथमो भवति, सम्यक्त्ववतः श्रुतस्य पाठस्तत्प्रथम इति सादिः, सम्यक्त्वात् च्युतस्य पुनर्मिथ्यात्वप्राप्तौ सपर्यवसितत्वम् , सति वा सम्यक्त्वे श्रुतलाभात् सादित्वम् , कारणान्तराद्वा तत्प्रतिपाते सान्तत्वम् । पं. ४. तान्येवाह-प्रमादेति, इहभवेऽपि प्रमादात् श्रुतस्य नाशो भवति, अपरस्य ग्लानावस्थायां नश्यति, कस्यचित् सुरलोकाख्यभवान्तरगमनेन नश्यति । किल कश्चिचतुर्दशपूर्वधरः साधुर्मृत्वा देवलोकं गतः, तत्र देवत्वे तत् पूर्वाधीतं श्रुतं न स्मरति सर्वमपि, देशेन त्वेकादशाङ्गलक्षणेन कश्चित् स्मरत्यपि इति सम्पूर्णं भवान्तरगमनानश्यति । केवलोत्पत्तौ च कस्यचिदिहभवेऽपि श्रुतं नश्यति, "नम्मि तु छाउमथिए नाणे" 25 [ आव० नि० गा० ५३९ ] इति वचनात् , ततो लाभकाले तस्य सादित्वम् , प्रतिपाते तु सान्तत्वम् । पं. ५. एक जीवद्रव्यापेक्षया चिन्तितं सादि-सपर्यवसितत्वम् । नानाजीवद्रव्यापेक्षया तु तदेव चिन्तयति-बहनित्यादि, द्रव्यविषये नानापुरुषान् नारक-तिर्यङ्-मनुष्य-देवगतान् नानासम्यग्दृष्टिजीवानाश्रित्य सम्यक्श्रुतं सततं वर्तते, अभूद् भवति भविष्यति च, न तु कदाचिद् व्यवच्छिद्यते, ततस्तानाश्रित्येदमनाद्यपर्यवसितं भवति । पं. ६. अथ क्षेत्रत एकद्रव्यं प्रतीत्य प्रथमभङ्गं निरूपयति-क्षेत्रत ति, क्षेत्रे चिन्त्यमाने भरतैरावतक्षेत्रेषु प्रथमतीर्थकरकाले सुषमदुःषमारूपे तद् भवतीति सादित्वम् । चरमतीर्थकृत्तीर्थान्ते त्ववश्यं इति सपर्यवसितत्वम् । पञ्च महाविदेहक्षेत्राणि प्रतीत्य श्रुतज्ञानं सततं सर्वदैव वर्ततेऽतोऽनाद्यपर्यवसितम् । सामान्येन हि महाविदेहेत्सर्पिण्यवसर्पिण्यभावरूपनिजकालविशिष्टेषु द्वादशाङ्गश्रुतं कदापि न व्यवच्छिद्यते, तीर्थकर-गणधरादीनां तेष सर्वदैव १ द्रव्य जेटि०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248