Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 175
________________ १४८ मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं शब्दोऽप्यविरुद्ध इति गाथार्थः ॥ १ ॥ इह 'किं शब्दः ? अशब्दो वा ?' इति श्रोत्रेन्द्रियस्य [प्रत्यासन्नवस्तूपदर्शनं कृतमेव । अथ शेषचक्षुरादीन्द्रियाणां विषयभूतानि ] प्रत्यासन्नवस्तूनि क्रमेण दर्शयतिपं. ८. थाणुपुरिसाइ-कुटुप्पलाइ-संभियकरिल्लमंसाई । सप्पुप्पलनालाइ व समाणरूवाइविसयाइं ॥२॥ __ "ईहादिवस्तूनि सूपलक्ष्याणि" इत्युक्तम् । कथम्भूतानि सन्ति पुनस्तानि सूपलक्ष्याणि ? इत्याह-समानः-समानधर्मा रूपरसादिविषयो येषामीहादीनां तानि समानरूपादिविषयाणीति पूर्वगाथायां सम्बन्धः । कः पुनरमीषां समानधर्मा रूपादिविषयः ? इत्याह-स्थाणु-पुरुषादिवदिति, पर्यन्ते निर्दिष्टो विषयोपदर्शनाभिद्योतको वच्छब्दः सर्वत्र योज्यते, ततश्चक्षुरिन्द्रियप्रभवस्येहादेः स्थाणुपुरुषादिवत् समानधर्मा रूपविषयो द्रष्टव्यः, आदिशब्दात् 'किमियं शुक्तिका रजतखण्डं वा ? मृगतृष्णिकाः पयःपूरो वा ? रजः विषधरो वा ? इत्यादिपरिग्रहः । घ्राणेन्द्रियप्रभवस्येहादेः कुष्ठोत्पलादिवत् समानगन्धो विषयः, ततः कुष्ठं-न्धिकहविक्रेयो 10 वस्तुविशेषः उत्पलं-प- अनयोः किल समानो गन्धो भवति तत ईदृशेन गन्धेन 'किमिदं कुष्ठम् ? उत्पलं वा? इत्येवमोहाप्रवृत्तिः, आदिशब्दात् 'किमत्र ससच्छदाः मत्तकरिणो वा ? कस्तूरिका वनगजमदोवा ?' इत्यादिपरिग्रहः । रसनेन्द्रियप्रभवस्येहादेः सम्भृतकरील-मांसादिवत् समानरसो विषयः, तत्र सम्भृतानि संस्कृतानि सन्धानीकृतान्यस्थितानि यानि वंशजालिसम्बन्धीनि करीलानि तथा मांसम् , अनयोः किलाऽऽस्वादः समानो भवति, ततोऽन्धकारादावन्यतरस्मिन् जिह्वाग्रप्रदत्ते भवत्येवम्-'किमिदं सम्भृत वंशकरीलम् ? आमिषं वा ?' इति, आदिशब्दाद् 'गुडः खण्डं वा ? मृद्वीका शुष्कराजादनं वा ?' इत्यादिपरिग्रहः । स्पर्शनेन्द्रिय 15 प्रभवस्येहादेः सर्पोत्पलनालादिवत समानस्पर्शो विषयः, सर्पोत्पलनालयोश्च तुल्यस्पर्शत्वेनेहाप्रवृत्तिः सुगमैव, आदिशब्दात स्त्रीपुरुष लेष्ट्रपलादिसमानस्पर्शवस्तुपरिग्रह इति गाथार्थः ॥ २ ॥ अथ यदुक्तं सूत्रे “से जहानामए केइ पुरिसे अब्बत्तं सुमिणं पासेजा" इत्यादि, तदनुसृत्य स्वप्ने मनसोऽप्यवग्रहादीन् दर्शयन्नाहपं. ९. एवं चिय सिमिणाइसु मणसो सहाइएसु विसएसु । होतिंदियवावाराभावे वि अवग्गहाईया ॥ ३ ॥ 'एवमेव उक्तानुसारेणेन्द्रियव्यापाराभावेऽपि स्वप्नादिषु, आदिशब्दाद् दत्तकपाट-सान्धकारापवरकादीनीन्द्रियव्यापाराभाववन्ति स्थानानि गृह्यन्ते, तेषु केवलस्यैव मनसो मन्यमानेषु शब्दादिविषयेषु 'अवग्रहादयः' अवग्रहहा-ऽपाय-धारणा भवन्तीति स्वयमभ्यूह्याः । तथाहि-स्वप्नादौ चित्तोत्प्रेक्षामात्रेण श्रयमाणे गीतादिशब्दे प्रथमं सामान्यमात्रोत्प्रेक्षायामवग्रहः 'किमयं शब्दः? अशब्दो वा ?' इत्याद्युत्प्रेक्षायां त्वीहा, शब्दनिश्चये पुनरपायः, तदनन्तरं तु धारणा । एवं देवतादिरूपे, कर्पूरादिगन्धे, मोदकादि रसे, कामिनीकुचकलशादिस्पर्शे चोत्प्रेक्ष्यमाणेऽवग्रहादयो मनसः केवलस्य भावनीया इति गाथार्थः ॥ ३॥ 25 मतिज्ञानमिदं द्रव्यादिभेदाच्चतुर्विधम् । यदाह भाष्यकृत् तं पुण चउव्विहं नेयभेयओ तेण जं तदुवउत्तो। आएसेणं सव्वं व्वाइ चउव्विहं मुणइ ॥१॥ 'तत् पुनः' आभिनिबोधिकज्ञानं 'चतुर्विधं' चतुर्भेदम् । नन्ववग्रहादिभेदेन भेदकथनं प्रागस्य कृतमेव, किमिह पुनरपि भेदोपन्यासः ? सत्यम् , ज्ञेयमेवेह द्रव्यादिभेदेन चतुर्भेदम् , ज्ञानस्य तु ज्ञेयभेदादेव भेदोऽत्राभिधीयते, सूत्रे तथैवोक्तत्वात् । तचंद 30 सूत्रम्- "तं समासओ चउव्विहं पण्णत्तं, तं जहा-दव्वओ खित्तओ कालओ भावओ। दव्वओ णं आभिणिबोहियनाणी आएसेणं सव्वदव्वाइं जाणइ न पासई"त्यादि । ज्ञेयभेदादपि तत् कथं चतुर्विधम् ? इत्याह-"जं तदुवउत्तो" इत्यादि, 'यद्' यस्मात् कारणात् 'तेन' आभिनिबोधिकज्ञानेन सर्वं द्रव्यादि मुणीति सम्बन्धः । कथम्भूतम् ? इत्याह-'चतुर्विधं चतुर्भेदं द्रव्य-क्षेत्र-काल Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248