Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 179
________________ १५२ मलधारिश्री-श्रीचन्द्रसूरिविनिर्मित द्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थं कृतमिति तावद् वयमवगच्छामः, तत्त्वं तु बहुश्रुतादयो विदन्तीति । प्राणादीन्यपीन्द्रियाणि गन्धादिद्रव्याणि मिश्राण्याददते, तेषां चानुश्रेणिगमननियमो नास्ति, बादरत्वात् , वातायनोपलभ्यमानरेणुवदिति वृद्धटीकाकार इति गाथार्थः ॥ पं. १५. ईहा अपोह वीमंसा मग्गणा य गवेसणा। सण्णा सई मई पण्णा सव्वं आभिणियोहियं ॥ सू. गा. ७७॥ ___“ईह चेष्टायाम्” ईहनमीहा-सतामन्वयिनां व्यतिरेकिणां चार्थानां पर्यालोचना । अपोहनमपोहः-निश्चयः । विमर्षणं विमर्षः--अपायात् पूर्वः ईहायाश्चोत्तरः 'प्रायः शिरःकण्डूयनादयः पुरुषधर्मा इह घटन्ते' इति सम्प्रत्ययः । तथा मार्गणम्-अन्वयधर्मान्वेषणं मार्गणा । 'चशब्दः' समुच्चयार्थः । गवेषणं-व्यतिरेकधर्मालोचनं गवेषणा । तथा संज्ञानं संज्ञा-अवग्रहोत्तरकालभावी मतिविशेष एव । स्मरणं स्मृतिः-पूर्वानुभूतार्थालम्बनः प्रत्ययः । मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा 10 बुद्धिः । तथा प्रज्ञानं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिः । सर्वमिदमाभिनिबोधिकम् , कथञ्चित् किञ्चिद् भेददर्शनेऽपि तत्त्वतः सर्वं मतिज्ञानमेवेदमित्यर्थः इति नियुक्तिश्लोकार्थः ॥ अत्रैतद्व्याख्यानाय भाष्यम् होइ अपोहोऽवाओ, सई धिई, सव्वमेव मइ-पण्णा । ईहा सेसा, सव्वं इदमाभिणियोहियं जाण ॥ १॥ [विशेषा० गा० ३९७] 15 अपोहस्तावत् किमुच्यते ? इत्याह-अपोहो भवत्यपायः, योऽयमपोहः स मतिज्ञानतृतीयभेदोऽपायो निश्चय उच्यत इत्यर्थः । स्मृतिः पुनः 'धृतिः' धारणोच्यते, धारणाभेदत्वेनावयवे समुदायोपचारादिति । 'मति-प्रज्ञे' मति-प्रज्ञाशब्दाभ्यां सर्वमेव मतिज्ञानमुच्यते । “ईहा सेस" त्ति 'शेषाभिधानानि तु' ईहा-विमर्ष-मार्गणा-गवेषणा-संज्ञालक्षणानि सर्वाण्यपि 'ईहा' ईहान्त वीनि द्रष्टव्यानीत्यर्थः । एवं विशेषतः कथञ्चिद् भेदसद्भावेऽपि सामान्यतः सर्वमिदमाभिनिबोधिकज्ञानमेव जानीहि । इदमुक्तं भवति प्रदर्शितेहा-पोहादयोऽवग्रहादयोऽपि च सर्वेऽपि मतिज्ञानस्य पर्यायाः, अवगृहीतस्येहादिसम्भवात् । ततोऽवग्रहशब्दोऽवग्रहण20 लक्षणेनार्थेन सर्वमाभिनिबोधिकं सङ्गलाति, ईहाशब्दस्तु चेष्टालक्षणेन, अपायस्त्ववगमनलक्षणेन, धारणा तु धरणलक्षणेन सर्वं संङ्गहाति । समर्थितं मतिज्ञानम् ॥ श्रुतज्ञानमुच्यते [पृष्ठ ५८] पं. २८. अक्षरश्रुतमित्यादि, अक्षरादीनि सप्त द्वाराणि अनक्षरादिप्रतिपक्षसहितानि चतुर्दश भवन्तीति चतुर्दशभेदं श्रुतं भवति । [पृष्ठ ५९] पं. ९. तत्र सक्षेपतः स्वरूपमिदम्-अक्षरश्रुतं त्रिविधम्-संज्ञा-व्यञ्जन-लब्धिभेदात् । पं. १२. संज्ञाक्षरं नामलेख्यलिपिरूपम् , यथा घटाकृतिः ठकार इत्यादि । लिपिभेदतोऽनेकस्वरूपमकाराद्यक्षरं संज्ञाक्षरमुच्यते । पं. १६. भाष्यमाणः शब्दो व्यञ्जनाक्षरम् , तदेतद् द्वितयमज्ञानात्मकमपि श्रुतकारणत्वादुपचारेण श्रुतमुच्यते। पं. २४. लब्ध्यक्षरं तु-शब्दश्रवण-रूपदर्शनादेरर्थप्रत्यायनगर्भाऽक्षरोपलब्धिः, यस्तदावरणक्षयोपशमो यः श्रुतज्ञानोपयोगश्च एतौ द्वावपि लब्ध्यक्षरम् । 30 ततश्च श्रोत्रेन्द्रियलब्ध्यक्षरवत् शेषेन्द्रियविषयाऽक्षरोपलब्धिरपि श्रुतम् , घट-कर्पूर-शर्करा-हंस-रूततूलीरूपे विषयोपलम्भे एतद्वाच काक्षरोपलम्भसद्भावात् । मनः प्रति च यद् दृष्टं स्वप्ने रूपादि तदक्षरोपलब्धिमा॑ह्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248