Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
१५०
मलधारिश्री श्री चन्द्रसूरिविनिर्मितं
पृथक् स्वातन्त्र्य प्रदर्शनार्थः, तेनैतदुक्तं भवति - अवग्रहादेरीहादयः पर्याया न भवन्ति पृथग्भेदवाचकत्वादिति । निश्चयै वस्तुनोऽविच्युत्यादिरूपेण धरणं धारणा । एवकारः क्रमद्योतनपरः, अवग्रहादीनामुपन्यासस्यायमेव क्रमः, नान्यः, अवगृहीतस्यैवेहनात्, ईहितस्यैव निश्चयात्, निश्चितस्यैव धारणादिति । एवमेतान्याभिनिबोधिकज्ञानस्य चत्वार्येव भेदवस्तूनि 'समासेन ' सङ्क्षेपेण भवन्ति । विस्तरतस्त्वष्टाविंशत्यादिभेदभिन्नम् । इदं प्रागुक्तमेवेति भावः । तत्र भिद्यन्ते परस्परमिति भेदा: - विशेषाः त 5 एव वस्तूनि भेदवस्तूनीति समास इति गाथार्थः ॥ अथ सूत्रकार एवावग्रहादीन् व्याख्यानयन्नाह—
पं. ७.
'अर्थानां ' रूपादीनां प्रथमदर्शनानन्तरमेव 'अवग्रहणं' अवग्रहं ब्रुवत इति सम्बन्धः । तथा 'विचारणं' पर्यालोचनम्, अर्थानामिति वर्त्तते, ईहनमीहा तां ब्रुवते । इदमुक्तं भवति - अवग्रहादुत्तीर्णोऽपायात् पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थ10 विशेषत्यागसम्मुखश्च ‘प्रायः काकनिलयनादयः स्थाणुधर्मा अत्र निरीक्ष्यन्ते, न तु शिरः कण्डूयनादयः पुरुषधर्माः' इति मतिविशेष ईति । विशिष्टोऽवसायो व्यवसायः - निश्चयस्तं व्यवसायम्, अर्थानामितीहापि वर्त्तते, अपायमवायं वा ब्रुवते । एतदुक्तं भवतिस्थाणुरेवायमित्यवधारणात्मकः प्रत्ययोऽपायोऽवायो वेति । चशब्द एवकारार्थः, व्यवसायमेव अवायमपायं वा ब्रुवते इत्यर्थः । धृतिर्धरणम्, अर्थानामिति वर्त्तते, अपायेन विनिश्वितस्यैव वस्तुनोऽविच्युति - स्मृति-वासनारूपं धरणमेव धारणं ब्रुवत इत्यर्थः । पुनःशब्दस्यावधारणार्थत्वाद् ब्रुवत इत्यनेन शास्त्रस्य पारतन्त्र्यमुक्तम् इत्थं तीर्थकर - गणधरा ब्रुवत इति । अन्ये त्वेवं पठन्ति– 15 “अत्थाणं उग्गहणम्मि उग्गहो" इत्यादि तत्रार्थानामवग्रहणे सति अवग्रहो नाम मतिभेद इत्येवं ब्रुवते । एवमीहादिष्वपि योज्यम् । भावार्थस्तु पूर्ववदेव । अथवा “प्राकृत शैल्याऽर्थवशाद् विभक्तिपरिणामः" इति सप्तमी द्वितीयार्थे द्रष्टव्येति गाथार्थः ॥
अथैतदेवावग्रहादिस्वरूपं भाष्यकारेण विवृतं यथा
सामण्णत्थावग्गहणमोग्गहो, भेयमग्गणमहेहा । तस्सावगमोsवाओ, अविचुई धारणा तस्स ॥ [ विशेषा० गा० १८० ]
अन्तर्भूताशेषविशेषस्य केनापि रूपेणानिर्देश्यस्य सामान्यस्यार्थस्यैकसामयिकमवग्रहणं सामान्यार्थावग्रहणम्, अथवा 20 सामान्येन - सामान्यरूपेगार्थस्यावग्रहणं सामान्यार्थावग्रहणमवग्रहो वेदितव्यः । अथानन्तरमीहा प्रवर्त्तते । कथम्भूतेयम् ? इत्याह'भेदमार्गणं' भेदाः - वस्तुनो धर्मास्तेषां मार्गणं- अन्वेषणं विचारणं 'प्रायः काकनिलयनादयः स्थाणुधर्मा अत्र वीक्ष्यन्ते, न तु शिरःकण्डूयनादयः पुरुषधर्माः' इत्येवं वस्तुधर्मविचारणमीहा इत्यर्थः । तस्यैव ईहया ईहितस्य वस्तुनस्तदनन्तरमवगमनमवगमः ‘स्थाणुरेवायम्' इत्यादिरूपो निश्चयोsवायोऽपायो वेति । तस्यैव निश्चितस्य वस्तुनोऽविच्युति - स्मृति-वासनारूपं धरणं धारणा, सूत्रेऽविच्युतेरुपलक्षणत्वादिति गाथार्थः ॥
25
अत्थाणं उग्गहणं अवग्गहं, तह वियालणं ईहं ।
ववसायं च अवायं, धरणं पुण धारणं बेंति ॥ सू. गा. ७३ ॥
तत्रामूषामिदं स्वरूपम्–अपायानन्तरमवगतमर्थमविच्युत्याऽजघन्योत्कृष्टमन्तर्मुहूर्तमात्रं कालं धारयतो धारणाऽविच्युत्याख्या । तमेवार्थमुपयोगात् च्युतं जघन्येनान्तर्मुहूर्त्तादुत्कृष्टतोऽसंख्येयकालात् परतः स्मरतः धारणा स्मृत्याख्या । अपायावधारितमेवार्थं पूर्वा - परालोचितं हृदि स्थापयतो धारणा वासनाख्या । नवरं संख्येयवर्षायुषां संख्येयं कालं स्मृति - वासनारूपा धारणा भवति, असंख्येय वर्षायुषामसंख्येयं कालं स्मृति वासनारूपा धारणा भवति, असंख्येयवर्षायुषामसङ्ख्येयं कालं द्विरूपाsपीयं धारणा भवति ॥
30
पं.११. पुहुं० [ सूत्र गा. ७५ ] गाहा । श्रोत्रेन्द्रियं कर्तृ, शब्दं कर्मतापन्नं शृणोति । कथम्भूतम् ? इत्याह-स्पृश्यत इति स्पृष्टस्तं स्पृष्टम्, तनौ रेणुवदालिङ्गितमात्रमेवेत्यर्थः । इदमुक्तं भवति - स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रमुपलभते, यतो घ्राणादीन्द्रियविषयभूतद्रव्येभ्यः तानि सूक्ष्माणि बहूनि भावुकानि च, पटुतरं च श्रोत्रेन्द्रियं विषयपरिच्छेदे घ्राणेन्द्रियादिगणादिति ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248