Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 172
________________ श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् । [ पृष्ठ ५१] पं. १३. अप अयः - सामस्त्येन पं. २. सद्धर्मानुगत इति, सद्धर्मणि - वस्तुनि अनुगतः सद्धर्मानुगतः । परिच्छेदोsपायः, मधुर-स्निग्धत्वादिगुणत्वात् 'शङ्खस्यैवायं शब्दः, न शृङ्गस्य' इत्यादि यद विशेषविज्ञानं सोऽपायः । पं. २२. अपायेन निश्चितेऽर्थे तदनन्तरं यावदद्यापि तदर्थोपयोगे सातत्येन वर्त्तते, न तु तस्मान्निवर्त्तते, तावत् तदर्थोपयोगाद् अविच्युतिर्नाम धारणायाः प्रथमभेदो भवति । पं. २५. यत् कर्मक्षयोपशमवशाज्जीवस्य कालान्तरे इन्द्रियव्यापारादि - 5 सामग्रीवशात् पुनरप्यपायावधारितोऽर्थः स्मृतिरूपेणोन्मीलति सा संस्काररूपा वासना नाम धारणाभेदः । कालान्तरे च वासनावशात् तदर्थस्येन्द्रियैरुपलब्धस्याथवा तैरनुपलब्धस्यापि मनसि या स्मृतिराविर्भवति सा तृतीयस्तद्भेदः । पं. २७. अत्र मतिदौर्बल्यादिकारणकलापादवग्रहेहादीनां दुर्विज्ञेयत्वेऽपि सर्वज्ञमतप्रामाण्यादवितथात्वमेव भावनीयमित्यावेदयन्नाह - इह चेत्यादि । पं. २९ एकाधिकरणत्वाद् एकाश्रयत्वात् । [ पृष्ठ ५३ ] पं. ३. न पुनर्विंशत्येत्यादि, विंशतिदिनापेक्षया यथा अपान्तराल आसन्नो योऽसावागमनसमयः कालविशेषरूपस्तद्दिनभावी अतिक्रान्तप्राचीनदिननिरपेक्षः पथिकस्य गृहप्रवेशकारणम्, न तथा प्रकृते प्राचीन समयरहितचरमासंख्येयसमयप्रविष्टपुद्गलराशिरप्यर्थावग्रह कारणम्, किन्त्वादित आरभ्य प्रतिसमयप्रवेशेन निरन्तरमसंख्येयसमयप्रविष्टाः पुद्गलाः शब्दविज्ञानजनकार्थावग्रहहेतवो भवन्तीति भावः । स्फुटशब्दविज्ञानहेतवश्च चरमसमयप्रविष्टा एव यद्यपि भवन्ति, नेतरे, तथापीतरे तत्साहाय्यभावेन व्याप्रियन्त इत्योघतः सर्वेषां सामान्येन ग्रहणमुच्यते । १४५ सामण्णमणिद्देसं सरूव-नामाइकप्पणा रहियं । जइ एवं जं 'तेण गहिए सदे' त्ति तं किह णु ? ॥ १ ॥ “अन्वत्तमनिद्देस" मिति वृत्तौ पाठो दृश्यते । तत्र “अव्वत्तं" इति विवृणोति । सामन्नमिति । ग्राह्यवस्तुनः सामान्य १ यद्यपि एतत् पदं वृत्तौ न वर्त्तते तथापि " शेषं सुगमम् " इत्यादिना सूत्रगतमवबोद्धव्यम् ॥ टी० १९ [ पृष्ठ ५४ ] पं. ४. पं. ६. सम्बन्धो वेति पं. १. अथ ‘केयं मल्लकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणा ? ' इति पृष्टे तां वक्तुमाह- तद् यथेत्यादिना । "मयं पवाहेहि" त्ति लावयिष्यति । पं. ५. व्यञ्जनं पूरितं भवति तोयेन मल्लकमिव । द्रव्य - इन्द्रियोः सम्बन्धः । यदा द्रव्यं व्यञ्जनमिति, शब्दादिविषयपरिणतपुद्गलसमूहरूपम् । पं. ७. स्वविषयव्यक्ताविति स्वग्राहकज्ञानजनने | पं. ८. आभृतमिति, वासितमित्यर्थः । पं. ९. नाम-जात्यादिकल्पनारहितमिति, एतच्च " ताहे 20 हुं ति करेइ" इत्यस्य व्याख्यानम् । पं.११. अत्रार्थावग्रहात् पूर्वमिति अन्तर्मुहूर्त्त द्रव्यप्रवेशादिरूप इत्यर्थः । पं. १२. इदानीं “ से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेजा” इत्यादिकस्य वक्ष्यमाणसूत्रस्य व्याख्यानाय समवतारं कुर्वन् पातनात्रयं करोति-अत्राहेत्यादिना आधेयम्, अथवा यदुक्तमित्यादिका द्वितीया, अथवा सुप्तेत्यादिना तृतीयेति । पं. १७. अव्यक्तमिति अनिर्देश्यम्, कोऽर्थः 'शब्दोऽयम्, रूपादिव' इत्यादिप्रकारेण निर्देष्टुमशक्यमव्यक्तम् । स्वरूप - नामादीति, आदिशब्दाद जाति-गुण-क्रिया- द्रव्यग्रहः । पं. १८. तस्य चेति अर्थावग्रहस्य । पं. १९. आहेति परो ब्रूते । 25 पं. २३. सम्बद्धमिति युक्तमित्यर्थः । नैतदेवमित्यादिना सूरिः प्रतिविधत्ते । पं. २५. न तु शब्दबुद्धयेति 'शब्दोऽयम्' इत्यध्यवसायेनेति न । तस्यैवेति, अर्थावग्रहं विनैव 'तस्यैव' शब्दमात्रस्यापायप्रसङ्गात् । पं. २८. तस्माद् व्यञ्जनापूरणे जातेऽयक्तमनिर्देश्यस्वरूपं शब्दाद्युल्लेख रहितमर्थमात्रमवगृह्णाति । एतदेवाऽऽह भाष्यकारः - अव्वत्तेत्यादि । Jain Education International For Private Personal Use Only 10 15 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248