Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 171
________________ १४४ मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं इंदकुमारियापओगाओ चाणके पुब्वभणितं । एसा परिणामिता २२ ॥ एए चउबिहबुद्धिअक्खाणयासमत्ता ।। पं. १६. अवग्रह इत्यादि । 'किमपीदम्' इत्यव्यक्तज्ञानरूपार्थावग्रहादधोऽध्यक्ततरं ज्ञानमात्रमित्यर्थः । 'किमपीदम्' इत्यव्यक्तज्ञानं वाऽर्थावग्रहः । व्यञ्जना-ऽर्थयोरेवावग्रहणेन विषयद्वैविध्यादवग्रहस्य द्वैविध्यं भवति । पं. २४. तत्रापि 5 प्राप्यकारिष्विन्द्रियेषु व्यञ्जनावग्रहादनन्तरमेवार्थावग्रहो भवतीति व्यञ्जनावग्रह आदौ निरूपितः। पं. २६. नयन-मनसोरियादि, विषयभूतं वस्तु अप्राप्य-संश्लेषद्वारेणानासाद्य करोति-परिच्छिनत्ति चक्षुःकर्तृ विषयपरिच्छेदमित्यप्राप्यकारि तदुच्यते । अप्राप्यकारि लोचनम् , ग्राह्यवस्तुकृतानुग्रहोपघातशून्यत्वात् , मनोवत् , यदि हि लोचनं ग्राह्यवस्तुना सह सम्बध्य तत्परिच्छेदं कुर्यात् तदाऽन्यादिदर्शने स्पर्शनस्येव दाहाद्युपधातः स्यात् , कोमलतूल्याद्यवलोकने त्वनुग्रहो भवेत् , न चैवम् , तस्मादप्राप्य कारि लोचनम् । अथ प्रागुक्तोऽसिद्धो हेतुः, ग्राह्यवस्तुकृतानुग्रहोपघातदर्शनात् । तथाहि-जल-घृत-नीलवसन-वनस्पतीन्दुमण्डलाद्य10 वलोकने नयनस्य परमाश्वासलक्षणोऽनुग्रहः समीक्ष्यते, सूर-सितभित्त्यादिदर्शने तु जलविगलनादिरूप उपघातः सन्दृश्यत इति, अत्रोच्यते, नहि वयमेतद् ब्रूमः-यदुत चक्षुषः कुतोऽपि वस्तुनः सकाशात् कदापि सर्वथैवानुग्रहोपघातौ न भवतः, किन्तु भवत एव, रविकरान् चिरमवलोकयतो द्रष्टुः चक्षुः स्पर्शनेन्द्रियमिव दह्येत, शीतलं च शीतरश्मि-जल-घृतादिकं वस्तु चिरमवलोकयतोऽनुग्रहं मन्येत चक्षुरित्येतावता अप्राप्यकारिचक्षुर्वादिनामस्माकं न कश्चिद् दोषः, दृष्टस्य बाधितुमशक्यत्वात् । केवलमिदमेवा स्माभिर्नियम्यते--यदुत विषयदेशं गत्वा आदित्यमण्डलादिसमाक्रान्तदेशं समाश्लिष्य चक्षुःकर्तृ न रूपं परिच्छिनत्ति, नाप्यन्यत15 श्चक्षुःदेशमागतं रूपमक्षिस्थमञ्जन-तेजो-मल-शलाकादिकं स्वयं चक्षुः पश्यति, किन्त्वप्राप्तमेव योग्यदेशस्थं विषयं तत् पश्यतीति । परिच्छेदानन्तरं तु पश्चात्प्राप्तेन केनाप्युपधातकेनानुग्राहकेग वा मूर्त्तिमता द्रव्येण चक्षुष उपघाताऽनुग्रहौ न निषिध्येते, विषशर्करादिभक्षणे मूर्छा-स्वास्थ्यादय इव मनसः। पं. ३० परः प्राह-नयनान्नायना रश्मयो निर्गत्य प्राप्य च रविबिम्बरश्मय इव वस्तु प्रकाशयन्तीति सूक्ष्मत्वेन तैजसत्वेन च तेषां वह्यादिभिर्दाहादयो न भवन्ति, रविरश्मिषु तथादर्शनादिति नयनस्य प्राप्यकारिताऽभिधीयते, तदयुक्तम् , महाज्वालादौ प्रतिस्खलनदर्शनात् आदिग्रहणात् तेषां प्रत्यक्षादिप्रमागाग्राह्यत्वेन 20 श्रद्धातुमशक्यत्वात् , प्रमाणाग्राह्यस्याप्यस्तित्वकल्पनेऽतिप्रसङ्गादिति ग्राह्यम् । तथाऽचेतननायनरश्मीनां वस्तुपरिच्छेदाभ्युपगमे नख-दन्त-भालतलादिगतशरीररश्मीनामपि स्पर्शविषयवस्तुपरिच्छेदप्रसङ्गाच्चेति । [पृष्ठ ५०] पं. १०. "तस्स णं इमे" । इत्यादि पं. ११. एकाथिकानि परमार्थत एकार्थविषयाणि नानाघोषाणि पृथग्भिन्नोदात्तादिस्वराणि नानाव्यञ्जनानि पृथग्भिन्नककाराद्यक्षराणि नामधेयानि पर्यायध्वनयः । यथाऽवग्रहस्य पञ्च नामधेयानि 25 एवमीहायाः षडभेदायास्तथाऽपायस्य धारणायाश्च पञ्च नामधेयानि क्रमेण दर्शयिष्यति । पंचहि वि इंदिएहिं, मणसा अत्थोग्गहो मुणेयव्यो । चक्खिदिय-मणरहियं, बंजणमीहाइयं छद्धा ॥१॥ [जीवसमास गा०६२] पं. २१. किं मन्द्र इति गम्भीरः तार उच्चैस्तरध्वनिमान् । पं. २२. यत्रेति नयन-मनसोर्विषये व्यञ्जनावग्रहो नास्ति । तत्र चतुर्विधव्यञ्जनावग्रहविषये अवग्रहणता-उपधारणतालक्षणभेदद्वयस्याभावः । पं. ३०. ईहायां मागंणतेति 30 किमयं स्थाणुः पुरुषो वा ?' इति वितर्के 'वल्लयुत्सर्पण-काकनिलयनादिधर्मदर्शनात् स्थाणुना भाव्यम् , नेतरेण, शिरःकण्डूयन चलनादितदीयधर्मादर्शनात्' इत्येवं व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मघटनप्रवृत्तश्चापायाभिमुख एव बोध ईहा इति । एवमीहायामेषां धर्माणां यदन्वेषणं सा मार्गणता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248